________________
१८९
विभाग-४, लघुवृत्तिः स्याभिधानात् ६ । तथा न विद्यते 'प्रेक्षितं' चक्षुषानिरीक्षणम्, आदिशब्दात्प्रमार्जनं रजोहरणादिना यत्र तदासनं विष्टरं स्यूतगब्दिकादौ शुषिरगम्भीरसिंहासनादौ च प्रत्युपेक्षणादि यतीनां न शुद्ध्यति, तेन च तत्र न कल्पते उपवेष्टुम् । चैत्यावासिनञ्चैवं प्रतिपद्यन्तेप्रवचनप्रभावनाहेतोस्तादृशासनोपवेशनस्यापि साधियस्त्वात्, प्रवचनप्रभावनायाः प्रधानदर्शनाङ्गत्वेन यथाकथञ्चन विधेयत्वात् । ततः सिद्धमिदम्-आचार्याणां गब्दिकाद्यासनमुपादेयं, प्रवचनप्रभावनाङ्गत्वात्, सम्मत्यादिप्रमाणशास्त्राध्ययनवत् ७ । तथा 'सावद्यं' सपापम् 'आचरितम्' आचरणा, तत्र 'आदरः' आग्रहः । आचरणा हि निरवद्यैव प्रमाणम्, एषा तु सावद्या, [ हिं]हा ?) दिग्बन्धाद्याचरणाद्यभ्युपगमे यतेस्तद्विधीयमाननिखिलपापारम्भानुमत्याद्यापत्तेः, तथा ह्येषा चैत्यवासिभिराहता, यतस्तेषामयमाशयः-प्रायेण सम्प्रतितनयतीनां गृहस्थान्योऽन्याकृष्ट्यं कलहेनाव्यवस्थया सर्वमसमञ्जसमापद्यते, तस्मादेषाऽप्याचरणाऽद्यतनकालापेक्षया युक्तिमतीति ८ । तथा 'श्रुतस्य' सिद्धान्तस्य 'पन्था' मार्गस्तत्रावज्ञाअनादरः । ते ह्येवमाहुः-भगवत्सिद्धान्तो हि नैकान्तनिष्ठो , विहितानामपि केषाञ्चिदनुष्ठानानां क्वचिन्निषेधात् निषिद्धानामपि क्वचिद्विधानात्, अतो न आस्थां कृत्वा केवलया सिद्धान्तव्यवस्थया किमपि कर्तुं परिहर्तुं वां पार्यते, तेनागमबहिष्ठाऽपि काचित्- . सुकुमारक्रिया अद्यतनसाधुप्रवर्तिता विवेकिनां निःश्रेयसाय भविष्यति, किं श्रुतेनेति ९ । तथा 'गुणिषु' ज्ञानादिवत्सु यतिषु 'द्वेषधीः' मात्सर्यबुद्धिः, स्वयं निर्गुणानां तद्गुणानसहिष्णूनां तदुपजिघांसया दुष्टा मतिरिति एतें च परगृहवासिनो धार्मिकं मन्या आत्मानमेवैकं गुणैरुत्कर्षयन्तो निखिलानप्यपरान् दूषयन्त ऐदंयुगीनं सङ्घमप्यवमन्यमानास्तत्प्रवृत्ति दूरेण परिहरन्तो लोकव्यवहारमप्यजानानाः सङ्घबाह्या एव, अतस्सर्वथैवैते उच्छेत्तव्याः, द्वेष एवैषु श्रेयान् १० । . "गौतमादिषु वर्तित्वात्तादृशेषु यतिध्वनिः । कथमेतेषु वर्तेत ?, निर्गुणेष्वञ्जसेति चेत् ? ॥१॥" - "कल्पक्षोणिरुहां यद्वद्, गुणायोगेऽपि वर्त्तते । निम्बादिषु तरुध्वानो, विना विप्रतिपत्तितः ॥२॥"
"यथा च जात्यरत्नानां, गुणाभावेऽपि तादृशाम् । काचे सान्द्रांशु चाकचिक्ये, मणिशब्दः प्रयुज्यते ॥३॥" .. "गौतमादिगुणायोगे-ऽपीदानीन्तनसाधुषु । उद्यच्छत्सु स्वशक्त्यैवं, प्रवर्त्यति यतिध्वनिः ॥४॥"
इति वास्तवक्षान्त्यादिदशविधयतिधर्मस्पर्द्धयैव यथाछन्दैः प्रदर्शितो धर्मोऽयं चेत्कर्महरो भवेदित्यादि पूर्वव्याख्यातमिति वृत्तार्थः ॥५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org