________________
१९०
श्री सङ्घपट्टकः इदानीमेतानि दशद्वाराणि यथाक्रमं कथयन् प्रथमं तावज्जीवोपमर्दाद्यनेकदोषप्रकटनपूर्वमौद्देशिकभोजनद्वारं प्रत्याख्यातुमाह
___षट्कायानुपमृद्य निर्दयमृषीनाधाय यत्साधितम् ॥६॥ व्याख्या-कः 'सघृणो' दयालुर्विदन्-सादिनिमित्तमेतन्निष्पन्नमिति जानन् इहेति प्रवचने 'जिघत्सति' अत्तुमिच्छति ? । “अदेः सनन्तस्य घसादेशे रूपं" । किं तत् ? 'सङ्घः' साधुसाध्वीरूपः श्रमणगणः आदिशब्दादेकद्वित्रादिश्रमणपरिग्रहः, तस्य भक्तं-तत्कृते निवृत्तमशनादि, नामेति कुत्सायाम्, अतीव कुत्सितमेतद्भक्तं यतीनां, जानतो मुनेः कृपालोरेवंविधं भक्तं भोक्तुं न कल्पत इत्यर्थः । कथं तत्कुत्सितम् ? अत आह-यत्साधितं, तच्छब्दस्य यच्छब्देन नित्याभिसम्बन्धात्, ततश्च यद्भक्तं 'साधितं' निष्पादितं, गृहस्थेनेति शेषः । किं कृत्वा ? 'आधाय' उद्दिश्य, कान् ? 'ऋषीन्' यतीन्, यतिभ्यो मयैतद्देयमिति चित्ते कृत्वेत्यर्थः । अथ निरवद्यवृत्त्या यतिनिमित्तं कृतेऽप्यस्मिन् को दोषः ? इत्याह-'उपमृद्य' विध्वस्य 'षट्कायान्' पृथिव्यप्तेजोवायुवनस्पतित्रसाख्यान् षड्विधजीवनिकायान् । कथमुपमृद्य ? इत्याह-निर्दयमिति क्रियाविशेषणम् । ननु भवत्वेतद्यत्यर्थं साधितं कुत्सितं, तथापि सिद्धान्तानिषेधान्न दूष्यतीत्याह-शास्त्रेषु' ग्रन्थेषु निशीथादिषु 'प्रतिषिध्यते' यतिभोज्यतया निवार्यते यद्भक्तं कथं ? असकृत्-अत्यन्तदुष्टताख्यापनाय मुहुर्मुहुः, तथा च आहारोपधिवसत्याधाकर्मविचारावसरे निशीथेऽभिहितम्
"एए सामन्नयरं, आहाकम्मं तु गिण्हए [भुंजइ]जोउ ।
सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥१॥" तथा पिण्डनियुक्तावपि"आहाकम्मं भुंजइ न पडिक्कमए य तस्स ठाणस्स। एमेव अडइ बोडो, लुक्कविलुक्को जह कवोडो ॥२॥" दशवैकालिकनियुक्तावपि"उद्दिटुकडं भुंजइ छक्कायपमद्दणे घरं कुणइ।
पच्चक्खं च जलगए, जो पीअइ कहन्नु सो साहू ? ॥३॥"
नन्वस्तु एवमागमनिषेधः तथापि तस्य मुनिना स्वयमकृताकारिताननुमतत्वात्तदा ददानस्य तस्य मुनेः को दोषः ? इत्याह- 'निस्त्रिंशतां' निश्शूकता-निर्दयत्वम् ‘आधत्ते' करोति यत्तत्तदाधायिनिश्शूकताकारकं यद्भक्तम् । अयं भावः-स्वयमकृताद्यप्याधाकर्मजानन् गृह्णानो मुनिर्भक्तिमद् गृहिणः प्रसङ्गासञ्जनात् अत्यन्तगृनुनिश्शूकत्वेन सचित्तमपि न जह्यात्, अतः कथं न दोषः ?, तदुक्तम्
"सच्चं तहवि मुणंतो, गिर्हतो वड्डए पसंगं से। निद्धंधसो य गिद्धो, न मुअइ सजियं पि सो पच्छा ॥१॥"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org