________________
विभाग-४, लघुवृत्तिः
१९१
अत एव अत्यन्तम् एतत् जिहापयिषया गणधरा आनुरूप्येण - उपमानानि दर्शयामासुः । तथा चाह-गोमांसादीति, गो:- सुरभेर्मांसं, आदिशब्दात् वान्तोच्चारसुराग्रहः तैरूपमा सादृश्यं यस्य तत्तथा । यद्भक्तमाहु-बुवते गणधरा:, यथाहि गोमांसभक्षणं लोकधर्मविरुद्धत्वेन महापापहेतुत्वादत्यन्तनिन्दितत्वाच्च विवेकिनां सर्वथा हेयं, तथाऽऽधाकर्मभक्तमपि, एवं वान्तादिष्वपि यथासम्भवं योज्यम् । अथेति प्रकारान्तरे, यद्भक्तं भुक्त्वा मुनिर्याति - गच्छति 'अधोऽधस्तात्, संयमादिति ज्ञेयम्, अथवा अधोगतिं नरकम् । अत्र च वृत्ते एकवाक्यस्थेनैव यच्छब्देन सकलवाक्यार्थे दीपिते यत्प्रतिपदं यच्छब्दोपादानं तत्सङ्घादिभक्तस्यात्यन्तपरिहरणीयता ख्यापनार्थम् । यत्साध्वाभासैः - इदानीन्तनकालापेक्षया यतीनामाधाकर्मभोजनमपीष्यते तदनुमानाभ्यां निषिध्यते, तथाहि यतीनामाधाकर्मभोजनमनुपादेयं, षड्जीवनिकायोपमर्दनिष्पन्नत्वात्, तथाविध वसत्यादिवत् । तथा यतीनामाधाकर्मभोजनमभोज्यं, धर्मलोकविरुद्धत्वाद्, गोमांसादिवदिति । एवं चोपपन्नमेतत्-सङ्घादिभक्तं यतीना न भोक्तव्यमिति वृत्तार्थः ॥६॥
इदानीं देवद्रव्योपभोगदूषणप्रदर्शनद्वारेण जिनगृहवासनिराकरणायाह
गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्ग ।
व्याख्या-खलुर्निश्चये, जिनगृहे 'अर्हन्मतज्ञा' भगवदागमनिपुणा यतयो नैव वसन्ति, तदागमे तद् निवासस्यात्यन्तं निवारणात्, सन्तो - विवेकिनः । कुतः ? इत्यत आह- 'सती' शोभना कृत्रिमा भक्तिः तस्या 'योग्यम्' उचितं तस्मिन्, भक्तिरेव यतस्तत्र कर्त्तुं युज्यते । भक्तियोग्यतामेव विशेषतो विशेषणद्वारेण दर्शयति- गायदित्यादि, गायन्तो - भगवद् गुणानेवोत्कीर्त्तयन्तो ‘गन्धर्वाः ' प्रधानगायना यत्र तत्तथा, नृत्यन्ती - नाट्यशास्त्रोक्तक्रमेण करचरणादि - अङ्गविक्षेपं कुर्वती 'पणरमणी' वारस्त्री नृत्यकी यत्र तत्तथा, रणन्तोमुखमरुताभिघातान्मधुरं ध्वनन्तो 'वेणवो' वंशा यत्र तत्तथा, गुञ्जन्तोमार्दङ्गिकैः पाणिभ्यां ताडनाद् गम्भीरं स्वनन्तो ‘मृदङ्गा' मरु[ मुर ]जा यत्र तत्तथा, प्रेङ्खन्त्योलम्बमानत्वात् मन्दपवनेन कम्पमाना देवसेवार्थं विरचिताः 'पुष्पस्स्रजः ' पुष्पमाला यत्र तत्तथा, उद्यत् - भगवत्प्रतिमा विलेपनार्थं विमर्दनसमुच्छलद्गन्धद्वारेण प्रसरन्मृगमदः - कस्तूरिका यत्र तत्तथा, लसन्तःपट्टांशुकमयत्वान्मुक्ताफलादिविच्छित्तियुक्तत्वाच्च दीप्यमाना उल्लोचा - श्चन्द्रोदया यत्र तत्तथा, चञ्चन्तो-महाधनवस्त्रालङ्कारालङ्कृतशरीरत्वात् भ्राजिष्णवो 'जनौघा: '
श्रावकसङ्घा यत्र
तत्तथा, ततश्च गायद्गन्धर्वं च तन्नृत्यत्पणरमणि चेत्यादि कर्मधारयस्तस्मिन् । ए भगवद्गुणगानादीनि प्रवराणि जिनगृहे भक्तिहेतुकानि भव्यानां शुभभावोल्लासहेतुत्वात् श्रद्धालुभिः क्रियन्ते, अथैवंविध भक्तियोग्यजिनगृहे किमिति साधवो न निवसन्ति ? अत आह-'त्रसन्तो' बिभ्यन्तः, कुतो ? देवद्रव्यस्य 'उपभोगः ' सततं तत्र शयनासनभोजनादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org