________________
श्री सङ्घपट्टकः
१९२ करणेन उपयोगः तथा 'ध्रुवा' शाश्वतीयावज्जीवम् अथवा 'ध्रुवं' निश्चितं 'मठो' जिनगृहजगतीसम्बद्धो यतिनिमित्तनिष्पन्नउपाश्रयस्तस्य 'पतिता' आधिपत्यं-जिनगृहलेख्यकोद्ग्राहिणिकाकर्मान्तरादिसकलचिन्ताकारित्वेनाधिकारित्वमिति यावत् । तथा भगवत्प्रतिमाप्रत्यासत्तौ भोजन-शयनासन-निष्ठीवनाद्यविधिकरणेन भगवत्याशातना अवज्ञा, ततश्च देवद्रव्योपभोगश्चेत्यादि द्वन्द्वः । ताभ्यः । अथ गृहिणा भगवन्निमित्तं स्वद्रविणेन निर्मापिते देवगृहे वसतो देवद्रव्यं कनकादिकमनुपभुञ्जमानस्य यतेः कथं देवद्रव्योपभोगः ?, जिनद्रव्यनिष्यन्ने हि तत्र निवसतस्तद्रव्यं साक्षाद्धानस्य गृण्हतो वा स स्यादिति चेन्न, गृहिणा स्वद्रव्यनिर्मापितत्वेऽपि तस्मिन् देवार्थं कृतत्वेन देवद्रव्यत्वात्, तथा च तत्र वसतः साक्षात्तद्धनमुपभुञ्जानस्यापि मुनेर्देवद्रव्योपभोगोपपत्तेः, साक्षाद्देवद्रव्यनिष्यन्ने तु का वार्ता ? इति यतिभिर्जिनगृहे न वासः कार्य इति वृत्तार्थः ॥७॥
इदानीं जिनाद्यासेवितत्वेन सिद्धान्तोक्तत्वेन च यतीनां परगृहवसतिं व्यवस्थापयन् वसत्यक्षमा द्वारं काव्यद्वयेन निरसिसिषुराह
साक्षाज्जिनैर्गणधरैश्च निसेवितोक्तां ॥८॥
चित्रोत्सर्गापवादे यदिहं शिवपुरीदूतभूते निशीथे ॥९॥ व्याख्या-कः सकर्णः पुमान् “परगृहे' गृहस्थगृहे 'वसति' निवासं 'विद्वेष्टि' मात्सर्यात् न क्षमते-निषेधयति ? मुनिपुङ्गवानां-सुविहितयतीनां, न कश्चिदित्यर्थः, अयमर्थः-अकर्णो हि कर्णी विना सिद्धान्तोक्तामपि परगृहवसतिमनाकर्णयन् द्विष्यादपि यः पुनः सकर्णः सश्रवणः अथ च सहृदयः परगृहवासचैत्यान्तर्वासगुणदोषविचारचतुर इति, स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किंरूपां वसति ? 'निषेविता' च सोक्ता चेति कर्मधारयः । कथं ? 'साक्षात्' प्रत्यक्षं-स्वयमित्यर्थः कैः ? जिनैस्तीर्थकृद्भिर्गणधरै-ौतमस्वामिप्रभृतिभिः । चः समुच्चये । जिनादिभिरुक्ता, तां । तथा सज्यते सक्यते जनोऽस्मिन्निति सङ्गः-गृहधनकनकतनयवनितास्वजनपरिजनादिपरिग्रहः, निर्गताः सङ्गात् निस्सङ्गास्तेषां भावस्तत्ता, तस्या 'अग्रिमं' मुख्यं 'पदं स्थानं मुनीनां परगृहवसतिः, अथवा निस्सङ्गताया 'अग्रिमं' मौलं 'पदं' लक्ष्म-लिङ्गमित्यर्थः "पदं व्यवसितत्राण-स्थानलक्ष्मांहिवस्तुषु" इत्यनेकार्थवचनात् । निस्सङ्गता हि मुनित्वलक्षणं, वह्निरिव दाहपाकादिसामर्थ्यस्य, तस्याश्च लिङ्गं परगृहवसतिः, नहि स्वाधीने विभवे विद्वान् कश्चित्परमुपजीवेदिति । अत्र च पदशब्दस्यावि शिष्टलिङ्गत्वान्न विशेष्यलिङ्गता किं कुर्वन् विद्वेष्टि ? इत्यत आह-'जानन्' आगमश्रवणेनावबुद्ध्यमानः । कां ? शय्यातर इत्युक्ति-र्भाषा, ताम् । सिद्धान्ते हि शय्यातर इति भाषा श्रूयते, न चासौ साधूनां परगृहवासं विनोपपद्यते, तथाहि-'शय्याया' वसत्या यतिभ्यो दानं, तया तरति संसारसमुद्रमिति शय्यातरशब्दार्थः, परगृहवसतिं विना यतीनां न कश्चित्साधुशय्यादाने यतेत, न च तरणमस्तीति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org