________________
विभाग- ४, लघुवृत्तिः
१९३
शय्यातरशब्दस्य स्वार्थालाभे निर्विषयत्वापत्त्या सिद्धान्ते प्रतिस्थानमुच्चारणं कथमिव शोभां बिभृयात् ?, तस्मादागमे शय्यातरशब्दश्रुतेरपि परगृहवसतिर्मुनीनां ज्ञायते । तथा अनगारपदं च, जानन्निति सम्बध्यते । चः समुच्चये । न विद्यते ' अगारं' गृहं यस्यासौ अनगारः, ततश्च अनगार इति पदव्यपदेशः, श्रुते ह्यनगारपदं यतिवाचकं प्रतिपदं श्रूयते तच्च तेषां स्वागाराभावेन परागारवासेन च सङ्गच्छते । अन्यथा स्वागारसद्भावे चैत्यवासे वा यथाक्रमं यतेर्गृहिपतिमठपतिव्यपदेशप्रसङ्गेनानगारपदवैयर्थ्यमापद्येतेति । ननु यदि हि सर्वागमे चैत्यवासोऽनभिमतः स्यात्तदा परगृहवसतिः क्षम्येतापि, यदा तु तत्र क्वचिच्चैत्यवासे कथितेऽपि हठेनैव भवद्भिः परगृहवसतिरास्थीयते, तदा कथं क्षम्यते ? इत्याह- चित्रोत्सर्गेत्यादि, यद्यस्मात् इह प्रवचने 'निशीथे' प्रकल्पाध्ययने पञ्चमोद्देशकादौ किम्भूते ? सामान्यविधिरुत्सर्गः विशेषविधिरपवादः । उत्सर्गश्चापवादश्चेति द्वन्द्वः । ततश्च 'चित्रौ' नानाविधौ वसत्यादिगोचरावुत्सर्गापवादौसामान्यविशेषविधी यत्र स तथा, तत्र तथा 'शिवपूर्या' मोक्षनगर्या 'दूतभूतः ' सन्देशहरसदृशस्तत्र, भूतशब्दस्यात्र सदृशवाचित्वात्, 'प्राक् प्रथमं 'उक्त्वा' प्रतिपाद्य 'भूरिभेदा: ' प्रभूतप्रकारा 'गृहिगृहवसती:' गृहस्थसदनरूपोपाश्रयान् पश्चात् चरमं कारणे तथाविधवंसत्यलाभलक्षणे हेतौ 'अपोद्य' अपवादविषयीकृत्य, ता एंवेति गम्यते । अयमर्था:निशीथे पूर्वमौत्सर्गिका वसतिभेदा यतिवासयोग्यत्वेन कथिताः ।
यथा- "मूलुत्तरगुणविसुद्धं, थी - पसु -पंडक - विवज्जियं वसहि । सेविज्ज सव्वकालं, विवज्जए हुंति दोसाओ ॥१॥ विच्छिन्ना खुड्डलिया, पमाणजुत्ता उ तिविह वसहीओ । पढमबीयासु ठाणे, तस्य य दोसा इमे हुंति ॥२॥" तथा साध्वीरुद्दिश्योदितम्
"गुत्तागुत्तद्दारा, कुलपत्ते सत्ति- मंत-गंभीरे । भीयपरिस्समद्दविए, अज्जा सिज्जायरे भणिए ॥१॥
“घणकुड्डासकवाडा, सागारियभगिणिमाइ पेरंता ।
निप्पच्चवायजोगा, विच्छिन्नपुरोहडा (पश्चाद्वारकाः) वसही ॥२॥"
तदलाभे पश्चात्ता एवापवादोदिताः । यथा- द्रव्यप्रतिबद्धायामपि वसतौ कारणे न
वस्तव्यं, तथा चाह
Jain Education International
"अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए । गीयत्था जयणाए, वसंति तो दव्वपडिबद्धे ॥१॥"
"रूवं आभरणविही, वत्थालंकारभोयणे गंधे । आउज्ज-नट्ट - नाडय, गीए सयणे य दव्वम्मि ||२||"
For Personal & Private Use Only
www.jainelibrary.org