Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
२२८
श्री सङ्घपट्टकः । जात्यादिभिरात्मोत्कर्षप्रत्ययः 'ममता' गृहस्थादिषु प्रतिबन्धो, ममैते योगक्षेमं वहन्ति, ततो यद्यमीषां क्वाप्यनिष्टं न सम्पद्यत इत्यादिस्नेहेन तत्सुखदुःखाभ्यां यतेरपि तद्वत्तेति यावत् । 'आजीवनम्' आजीविकानिर्वाहस्तस्माद् भयं, तदभावसम्भावनया भीतिहिभिर्विदितशैथिल्याः सिद्धान्ताध्ययनादिविरहिता वा गृहस्थच्छन्दोऽनुवृत्ति विना निस्पृहतया शुद्धं प्ररूपयन्तो वा, एतत्कृतनिर्वाहाभावेन कथं वयं जीविष्याम । इत्याद्यध्यवसाय इत्यर्थः । ततश्च . मदश्चेत्यादि द्वन्द्वः । तैः । महासत्त्वानां हि स्वजन-धन-पुत्र-कलत्रादि-सङ्गत्यागेन प्रव्रज्याग्राहिणां कुतस्त्यो गृहस्थादिषु ममताद्यवकाशः ?, क्लीबानामेव तद्भावात् । एवं च सति ये ममतादिभिर्वजिताः । तथा 'सङ्क्लेशः' अविच्छिन्नप्रवाहतया प्रतीयमानो रौद्राध्यवसायः तस्य 'आवेश' आवेगः-उत्कर्षों येषामिति व्यधिकरणो बहुव्रीहिः । ते, तथा ये नं भवन्ति, सज्वलनकषायोदयत्वेन तेषां तन्निबन्धनत्वप्रथमादिकषायोदयाभावात् । 'न कदभिनिवेशा' अनाभोगादिनाऽन्यथाकारं स्वयं प्रज्ञप्ते अभ्युपगते वा वस्तुनि कुत्सितमानसाग्रहवन्तो ये न भवन्ति, तत्कारणमिथ्याभिमानाभावात् । न कपटप्रिया मायाप्राधान्येनानुष्ठाननिष्ठा ये न भवन्ति, तन्निमित्तजनरञ्जनपरिणामाभावात् । ममताजीवनभयादयश्च साधुत्ववादकत्वात्यतीनां सर्वथा हेया एव इत्यतस्तेषामिह निषेधो विशेषेण प्रदर्शितः । यदुक्तम्-"एवं च संकिलिट्ठा, माइट्ठाणम्मि निच्चतल्लिच्छा । आजीवियभयघत्था, मूढा नो साहुणो नेया ॥१॥" य एवं गुणगणोपेतास्ते 'यतयः' साधवः ‘अद्यापि' सुसाधुविरहिततया शङ्किते दुष्षमाकालेऽपि, आस्तां दुष्षमसुषमादावित्यपि शब्दार्थः । स्युर्भवेयुः 'इह' प्रवचने 'सूत्ररतयः' सिद्धान्ताध्ययनाध्यापनव्याख्यानश्रवणपरायणाः, अध्ययनादिकर्त्तव्यताविषयतयैव तेषां शास्त्रीयशिक्षाश्रवणात् । यदुक्तम्-"शास्त्राध्ययने चाध्यापने च, सञ्चिन्तने तथात्मनि च । धर्मकथने च सततं, यत्नः सर्वात्मना कार्यः ॥१॥" न तु लिङ्गिन इव प्रव्रज्यादिनमारभ्य व्यवहारमन्त्रादिप्रयोगतत्पराः । एतेन तेषामुन्मानाद्यभावप्रतिपादितः, महात्मनां सूत्रध्यायनादेरेव फलत्वात् । एतेन न सन्त्येव सम्प्रति यथोक्तलक्षणभाजो यतयोऽदर्शनादित्यादि यदाशङ्कितं तदपास्तं, कालादिदोषात्प्रायशः तथाविधयतीनामदर्शनेऽपि क्वापि ते न सन्तीत्यनाश्वासस्यकर्तुमयोग्यत्वात्, तदुक्तम्"कालाइदोसओ कहवि, जईवि दीसंति तारिसा न जई । सव्वत्थ तहवि नत्थित्ति, नेव कुज्जा अणा[स्सासं]ासं (?) ॥१॥" आतीर्थमागमे बकुश-कुशला-नामनुवृत्तिश्रवणात् । यदाह-"न विणा तित्थं नियंठेहिं, नातित्थं व नियंठया । छक्कायसंजमो जाव, ताव अणुस्सज्जणा दुन्हं ॥१॥" इति, बकुशकुशीलयोरनुवृत्तिरिति तत्र व्याख्यानात्, तथा च ज्ञानदर्शनाभ्यामेव सम्प्रति तीर्थमिति ब्रुवाणस्य भवतः प्रायश्चित्तापत्तेः, यदाह-"केसिंचि आएसो, दंसणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरितं, वयमाणे भारिया चउरो ॥१॥" असद्ग्रहात् तदनिच्छतश्च सङ्घबाह्यत्वप्रसङ्गात्, यदुक्तम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262