Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 259
________________ २३२ श्री सङ्घपट्टकः अधुना 'प्रोज्जृम्भिते' अभ्युदिते 'भस्मकम्लेच्छातुच्छबले' भम्मगशितुरष्काधिपतिसारसैन्ये 'अप्रतिमे' तेजस्वितयाऽनन्यसाधारणे 'कुसङ्घ एव' प्राग्वर्णितनिर्गुणसाध्वादिसमुदाय एव 'वपुः' शरीरं स्वरूपं यस्य तत्तथा, तस्मिन् । भस्मम्लेच्छस्य हि दुस्सङ्घ एव स्वसैन्यं, ततो यथा म्लेच्छोऽश्वादिसाधनेन परजनपदमभिभवति, एवं भस्मकोऽपि प्रबलः दुःसङ्घबलेन भगवच्छासनं मालिन्योत्पादनेन तिरस्कुरुते, तदा 'दुरन्तदशमाश्चर्ये' दुष्टासंयतपूजाख्यान्ताश्चर्ये, चः समुच्चये, 'विस्फूर्जति' प्रभविष्णौ, एवं च सति 'प्रौढिं' स्फाति 'जग्मुषि' प्राप्नुषि 'मोह एव' मिथ्याज्ञानमेव, लिङ्गिप्रज्ञप्तसंसारमार्गस्यादिकारणत्वात् अतिदुर्जयत्वात् रागादिप्रभवत्वाच्च 'राजा' पार्थिवः तस्य 'कटके' अनीके प्रागुक्तस्य भस्मकादेः सर्वस्यापि मोहराजपरिच्छदभूतत्वेन तत्कटककल्पत्वात्, अयमर्थः-मोहो हि दुष्ट मौलराजकल्पः तस्य च दुःसङ्घलक्षणचतुरङ्गबलकलितो भस्मको म्लेच्छाख्यमहासामन्तकल्पः, दशमाश्चर्यं तु स्वत एवातिप्रबलत्वात् साहायान्तरनिरपेक्षमेव द्वितीयमहासामन्तप्रख्यं, ततो यथा कश्चिन्महाराजाधिराजो म्लेच्छादिमहासामन्तैर्भूमण्डलं साधयति, तथाऽयमपि मोहराजो भस्मकादिभिर्जिनशासनमभिभवतीति, ततो 'लोकैः' कुसङ्घजनैः तदापर-र्मोहराजशासनमनतिक्रामद्भिर्मूढत्वादविमृश्यत्वात् अविमृश्यकारिभिरित्यर्थः । 'एकीभूय' दुष्टत्वेनैकमत्यं विधाय, इत्थं सकलजनप्रतीतैराक्रोशतर्जन-हीलादिभिः प्रकार राजवर्चसेन वयं 'कदर्थ्यामहे' पीड्यामहे-उपहास्यामह इत्यर्थः केन हेतुनेत्याह-'सदागमस्य' लिङ्गिप्रथित-मिथ्यापथोत्पथत्वप्रतिपादकस्य शुद्धसिद्धान्तस्य 'कथयाऽपि' धर्मदेशनाद्वारा विचारमात्रेणापि, यदि हि पक्षप्रतिपक्षपरिग्रहेण साधनदूषणोपन्यासैः प्रकृतविषये परैः सह वादमुपक्रमामहे तदा न विद्मस्ते किमपि कुर्वीरन् इत्यपि शब्दार्थः, तथा च वयं शुद्धसिद्धान्तविचारं भव्येभ्योऽनुजिघृक्षयोपदिशन्तो नाल्पीयांसमप्युपालम्भमर्हामः । यदुक्तम्-“नेत्रै निरीक्ष्य विषकण्टकसर्पकीटान्, सम्यक् पथा व्रजत तान् परिहृत्य सर्वान् कुज्ञान-कुश्रुति-कुदृष्टिकुमार्गदोषान्, सम्यग्विचारयत कोऽत्र परापवादः ? ॥१॥" इति वृत्तार्थः ॥४०॥ [अथ ग्रन्थकृत्प्रशस्तिः] श्रीमति खरतरगच्छे, श्रीजिनभद्राभिधा गणाधीशाः । सिद्धान्तरुचिप्रौढा-नूचानाः सन्ति तच्छिष्याः ॥१॥ श्रीमदभयसोमास्तू-पाध्यायास्तद्विनेयविख्याताः । तच्छिष्यहर्षराजो-पाध्यायेन हि कृता वृत्तिः ॥२॥ लब्धिवाग्गुरुभद्रो-दयसाहाय्याच्च सङ्घपट्टस्य । श्रीमज्जिनपतिसूरीश्वर-कृतसद् बृहत् टीकातः ॥३॥ त्रिभिः कुलकम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262