Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 257
________________ श्री सङ्घपट्टकः २३० श्रुते निवारितम्, यदाह - "उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं । वावन्नदंसणा खलु, न हु लब्भा तारिसा दद्धुं ॥१॥" अतः शुद्धपथमेव ते प्रथयन्ति, अत एव 'प्रास्तमिथ्याप्रवादाः,' स्वपक्षे निराकृतोत्सूत्रोच्चावच वक्तव्यता परपक्षे तु निरस्तप्रवादुकमता: 'वन्द्या: ' यथाऽर्ह द्वादशावर्त्तवन्दनादिना प्रणमनीयाः 'सत्साधवः ' सुविहतयतयः अस्मिन् जिनशासने दुःषमाकाले वा 'नियमो' द्रव्याद्यभिग्रहः 'शमः ' कषायनिग्रहः 'दम' इन्द्रियवशीकारः 'औचित्यं ' सर्वत्र योग्यताऽनुसारेण विनयादिप्रयोक्तृत्वं 'गाम्भीर्यम्' अलक्ष्यहर्षदैन्यादिविकारत्वं 'धैर्यं' विपत्स्वपि चेतसोऽवैक्लव्यं 'स्थैर्यं' विमृश्य कार्यकारित्वम् 'औदार्यं' विनेयादीना - मध्यापनादिविपुलाशयता 'आर्यचर्या' सत्पुरुषक्रमवृत्तिता 'विनयो' गुर्वादिष्वभ्युत्थानादि प्रतिपत्तिः ‘नयो' लोकलोकोत्तराविरुद्धवत्तित्वं 'दया' दुःस्थितादि दर्शनादार्द्रान्तः करणत्वं 'दाक्ष्यं' धर्मक्रियास्वनालस्यं 'दाक्षिण्यं' सरलचित्तता, ततो द्वन्द्वः । एभिर्गुणैः 'पुण्याः ' पवित्रा मनोज्ञा वा साधवो वन्दनाद्यर्हन्तीति वृत्तार्थः ॥३७॥ साम्प्रतं प्रकरणकारः प्रकरणं समाप्नुवन् इष्टदेवतास्तवच्छद्मनाऽवसानमङ्गलं सूचयं श्चक्रबन्धेन स्वनामधेयमाविर्भावयिषुराह विभ्राजिष्णुमगर्वमस्मरमनाशादं श्रुतोल्लङ्घने ॥३८॥ व्याख्या-जिनं वन्दे इति सम्बन्धः । 'विभ्राजिष्णुं ' त्रिभुवनातिशायिचतुस्त्रिंशदतिशयवत्त्वेन अत्यन्तं शोभमानम् 'अगर्वं' उच्छिन्नाहङ्कारम् 'अस्मरं' मथितमन्मथं 'श्रुतोल्लङ्घने' सिद्धान्तातिक्रमे अनाशादम्, आशां - मनोरथं 'ददाति' पूरयति आशादः, न आशादोऽनाशादः तं, श्रुताज्ञातिक्रमकारिणः पुंसो नानुमन्तारमित्यर्थः । सद् ज्ञानद्युमणि, सद् ज्ञानेन - केवलज्ञानेन लोकालोकावभासकत्वात् - भास्वन्तं 'जिनं' तीर्थकरं, तथा "सव्वसुरा जइ रूवं, अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुट्ठपहे, न सोहए तं जहिं गालो ||१||" इत्यादिवचनेन 'वरा' सर्वाङ्गसुभगा 'वपुः श्रीः ' शरीरकान्तिः, सैव 'चन्द्रिका' जगतीजनप्रमोददायित्वात् कौमुदी, तया 'भेश्वरं ' नक्षत्रनाथं, चन्द्रिकया चन्द्रवद्वपु श्रिया त्रिजगदाह्लादकमित्यर्थः । 'वन्दे' स्तुवे 'वर्ण्य' स्तुत्यम् 'अनेकधा' बहुधा 'असुरनरैः' दानवमानवैः 'शक्रेण' मघोना, 'चः ' 'समुच्चये, एनश्छिदंकल्मषसर्वङ्कषं 'दम्भारिं' शाव्यनिष्ठापकं 'विदुषां ' विपश्चितां 'सदा' सर्वदा 'सुवचसा' मधुरगिरा ‘अनेकान्तरङ्गप्रदं' किल जैनदर्शने त्रैलोक्यवर्त्तिसकलं वस्तुजातं सदसन्नित्यानित्यादिरूपतयाऽनेकान्तत्मकमभ्युपगम्यते, तथैव प्रमाणोपपन्नत्वात्, न तु परतीर्थिकवत्सदेवासदेव वा नित्यमेवानित्यमेव वेत्यादिरूपतयैकान्तात्मकम्, तस्य विचारासहत्वात् । ततोऽनेकान्तेऽनेकान्तात्मकवादे रङ्गमनुरागं प्रदत्ते यः स तथा तम्, अनेकान्तवादप्रीत्युपादकं, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262