Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
विभाग- ४, लघुवृत्तिः
२२९
" जो भणइ नत्थि धम्मो, नय सामाइयं न चेव य वयाई । सो समणसंघबज्झो, कायव्वो समणसंघेण ||१||” तस्मात् सन्त्येवाद्यापि विरलाः प्राग्वणितगुणा मुनयो । यदाह - " तो भासरासिगहविहुरिए वि, तह दक्खिणे वि इह खित्ते । अत्थि ट्ठि [च्चि]य जा तित्थं, विरलतरा केइ मुणिवरा ॥१॥ इति वृत्तार्थः ॥३६॥
तदेवं दुष्षमायामपि सुविहितयतिसत्तां व्यवस्थाप्य साम्प्रतं सामान्यविशेषगुणवत्तया तेषामेव वन्दनीयतां प्रदर्शयन्नाह -
संविग्नाः सोपदेशाः श्रुतनिकषविदः क्षेत्रकालाद्यपेक्षा ॥३७॥
व्याख्या-वन्द्याः सत् साधवोऽस्मिन्निति सम्बन्धः । 'संविग्ना' मोक्षाभिलाषुकाः भवभीरवो वा, न तु परलोकवैमुख्येनेहलोकप्रतिबद्धाः । एवंविधा अपि स्वनिस्तारका एव भविष्यन्ति तथा च किं ? तैरित्यत आह- 'सोपदेशा' धर्मदेशनातत्पराः, न त्वालस्यसातशीलत्वादिना तद्विमुखाः, तं विना भव्योपकाराभावात्तस्य चावश्यं यतिना विधेयत्वात्, अन्यथा आत्मम्भरित्वमात्रप्रसङ्गात्, यथाकथञ्चित् तद्भवमुक्तिगामुकेनापि च कृतकृत्येन भगवता भविकोपचिकीर्षया तदादरणात्, ग्लादिनाऽप्याचार्येण धर्मव्याख्यानमवश्यं कर्तव्यमित्यागमेऽभिधान्तच्च । यदाह - " दो चेव मत्तगाई, खेलकाइय सदोगस्सुचि । एवं वि निच्चं, वक्खाणिज्जत्ति भावत्थो ॥१॥" 'श्रुतनिकषविदः ' आगमरहस्यनिपुणः, एतेन गीतार्थतया धर्मकथाधिकारित्वमाह, अगीतार्थस्य तदयोगात् । एवंविधा अपि स्वयं क्रियाशिथिला भविष्यन्तीत्यत आह- ' क्षेत्रकालद्यपेक्षं' अस्मिन् क्षेत्रे अमुष्मिन् काले, आदिग्रहणाच्छरीरबलादिग्रहः, एवंविधे च बले सति विधीयमानमेतदनुष्ठानम् अस्माकमात्म· संयमशरीरयोरबाधकं भविष्यतीति देशसमयबलानुसार्यनुष्ठानं विहार क्रमादिक्रियाकाण्डं येषां ते तथा, अनेन पदद्वयेन ज्ञानक्रियातयानुगामित्वं तेषां निवेदितं, तत्प्रधानत्वात् दीक्षायाः केवलयोरनिष्टफलत्वाभिधानेन समुदितयोरेव तयोः पङ्गवन्धयोरिवेष्टफलसाधकतया तैः इष्टत्वात् । एवंरूपा अपि कुतोऽपि कदाग्रहगरलोद्गारात् - उत्सूत्रं प्रज्ञापयिष्यन्तीत्यत आह'शुद्धमार्गप्रकटनपटवः' यथार्थश्रुतपथप्रकाशनचतुराः, अणीयसोऽप्युत्सूत्रपदस्य दारुणं विपाकं विन्दतिः कथमपि ते तन्न वदन्तीत्यर्थः, अत एव कथञ्चित् कर्मदोषात् चरणकरणालसेनापि शुद्ध एव मार्गः प्ररूपणीयः, यदुक्तम् - " हुज्ज हु वसण प्पत्तो, सरीरदुव्वलया अयिइ असमत्थो । चरणकरणे असुद्धो, सुद्धं मग्गं परूविज्जा || १ || " तथाविधस्यापि शुद्धपथप्ररूपणात् प्रेत्यबोधिप्राप्त्या कथञ्चित्संसारपारावार निस्तारात्, अशुद्धपथप्ररूपकस्य दुष्करक्रियाकारिणोऽप्यमुत्र बोधिहत्याऽनन्तभवनिर्वर्त्तनात्, अत एव तादृशस्य दर्शनमात्रमपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 254 255 256 257 258 259 260 261 262