Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
विभाग-४, लघुवृत्तिः
२२७ चोक्खा, इड्डीरसगारवा सिया निच्चं । बकुसबल छेयजुत्ता, निग्गंथा बाउसा भणिया ॥१॥" तथा कुत्सितं 'शीलं' चरणं येषां ते तथा, तेऽपि द्विधा-आसेवना-कषायभेदात्, ये क्रोधादिभिः कषायैर्ज्ञानादिगुणान् युञ्जन्ति, अथवा कषायैर्ज्ञानादीन् ये विराधयन्ति भवोच्छेदायोपस्थिता अपीत्यादि लक्षणभाजश्च कुशीला इति । ततो बकुशाश्च कुशीलाश्चेति द्वन्द्वः । तेषामुचितायोग्या 'यतिक्रिया' प्रत्युपेक्षाप्रमार्जनप्रभृतिका साधुसामाचारी, तथा 'मुक्ता' रहिता ये न भवन्ति, प्रत्यहं यतिकृत्यं च तत्- "पडिलेहणापमज्जणा-भिक्खिरियालोयभुंजणा चेव । पत्तगधुयणवियारा, थंडिलमावस्सयाई ॥१॥" इत्यादि दशविधचक्रवालसामाचारीचारिण इत्यर्थः । यदुक्तम् श्रीउमास्वातिवाचककृततत्वार्थ-सूत्रे भाष्ये च "पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्ग्रन्थाः" [अ. ९ सू. ४९] [भाष्ये] पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति । तत्र सततमप्रतिपातिनोजिनोक्तादागमात्-निर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषाऽनुवर्तितः ऋद्धियशस्कामाः स्वतगौरवाश्रिताः अविविक्तपरिवाराः । अविविक्ता इति न असंयमात् पृथग्भूताः कतरिकाकल्पितकेशाः, एवंविधः परिवारो येषां ते, छेदशबलयुक्ताः सर्वदेशच्छेदार्ह अतीचारजनितशबलेन-वैचित्र्येण युक्ताः, बकुशाः, कुशीला द्विविधा-प्रतिसेवनाकुशीला: कषायकुशीलाच, तत्र प्रतिसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिताः ये अनियतेन्द्रिया: अजितेन्द्रियाः रूपादि-विषयेक्षणकृतादराः कथञ्चित् क्वचिदुत्तरगुणेषु विराधयन्तः चरन्ति, ते प्रतिसेवनाकुशीलाः । प्रतिसेवनाऽधिकारे प्रतिसेवनापञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्-कारेणान्यतमं प्रतिसेवमानः पुलाकः स्यात्, मैथुनमित्येकम् । बकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तः-विविधंदेशभेदेन, विचित्ररक्तपीतादिभिर्वर्णैर्बहुमूल्योपकृतियुक् बहुविशेषोपकरणकाङ्क्षायुक्तो । बहुविशेषेण ] मृदु-दृढ-रुचिरवर्णादि-युक्तोपकरणे जाताभिलाषः, नित्यं तत्प्रतिसंस्कारसेवी, नित्यं-सर्वदा 'तस्य' उपकरणस्य ‘प्रतिसंस्कार' प्रक्षालन-दशाबन्धन-घटिकासंवेष्टनादिकं, तत्सेवी भिक्षुरुपकरणबकुशो भवति । शरीराभियुक्तचित्तो विभूषार्थं तत्प्रतिसंस्कारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलश्च मूलगुणानविराधयन् उत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपस्थितिषु आरणाच्युतकल्पयोः, सर्वेषामपि जघन्यः पल्योपमपृथक्त्वस्थितिषु सौधर्मे उपपातः । अत्र च पुलाक-निर्ग्रन्थस्नातकपरिहारेण यत् बकुशकुशीलोचितक्रियायुक्तयतिगवेषणं तत्तैरेव सर्वतीर्थकराणां तीर्थप्रवृत्तेः, "सव्वजिणाणं जम्हा बकुशकुसीलेहिं वट्टए तित्थं ।" इति वचनात् । तथा 'न युक्ता' न स्पृष्टा 'मदो'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262