Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
विभाग-४, लघुवृत्तिः
२३१ तर्कशर्करारसस्यन्दिन्या वाचा तथा भगवाननेकान्तवादं व्युत्पादयति, यथा विद्वांसः शेषदर्शनत्यागेन तत्रैव रज्यन्त इत्यर्थः । चक्रमिदं' चक्रबन्धः 'माघसमं' यादृशया वर्णन्यासपरिपाट्या माघकाव्यस्थचक्रान्तः 'माघकाव्यमिदं-शिशुपालवध' इत्येवंरूपो नामबन्धः प्रादुर्भवति, इहापि तादृश्यैवेति माघसमतार्थः, अत्र च "जिनवल्लभेन गणिनेदं चक्रे" इति नामबन्धः स्थापना चेयं-एतच्चैवं चक्राक्षरन्यासस्वरूपं व्यक्तमिति वृत्तार्थः ॥३८॥
एवं चानेन प्रकरण सप्रपञ्चं मिथ्यापथस्वरूपप्रकटिते प्रभुश्रीजिनवल्लभसूरयः किमित्येवं प्रकटवृत्त्या लिङ्गिनो भवद्भिर्दूषिता ? इति केनाप्युपालब्धास्तस्य च प्रतिवचनं तस्मै वक्ष्यमाणवृत्तद्वयेनोपन्यस्तम् अतस्तदपि प्रकृतानुपातित्वादत्रैव प्रकरणान्ते निबद्धं तदिदानी व्याख्यायत इत्याह
जिनपतिमतदुर्गे कालतः साधुवेषैः ॥३९॥ व्याख्या-जिनपतिमतमेव-भगवच्छासनमेव मिथ्यात्वादि वैरिवाररक्षाक्षमत्वात्बद्धमूलत्वेन प्रतिपक्षरक्षय्यत्वात् उन्नतिमत्त्वेन दुरारोहत्वाच्च 'दुर्ग' प्राकारः तस्मिन् 'अभिभूते' उपद्रुते-विडम्बिते इत्यर्थः । साधुवेषै-लिङ्गिभिः ‘भस्मको' भस्मराशिग्रहः, स एवार्हच्छासनरतानां नानाविधबाधाविधायित्वात् म्लेच्छ-स्तुरुष्काधिपः तस्य सैन्याः तदनुवर्तिचेष्टितत्वात् सैनिकास्तैर्विषयिभिः-कामुकैः । द्वितीयपक्षे वशीकृतबाह्यदेशैः । अथ कथमेवंविधस्यापि जिनमतदुर्गस्य विषयिभिरपि लिङ्गिभिरभिभव ? इत्यत आह-'कालतो' दुष्षमासमयदोषात्, अभिभूयन्ते हि कालवशान्महातेजस्विनोऽपि, ततश्च 'स्ववशजडजनानां' सम्यक्त्वाद्यारोपणव्याजेनात्मायत्तीकृतमुग्धलोकानां 'स्वगच्छस्थितिः' एते वयं सम्प्रदायागता युष्माकं गुरवस्तस्मात् कदाचिदपि न मोक्तव्या इत्यादिका प्राक्प्रतिपादिता निजगच्छमुद्रा ‘इयम्' एषा 'अधुना' इदानीं 'तैः' साधुवेषैः 'अप्रथि' सर्वत्रैकमत्येन अतानि । 'स्वार्थसिद्ध्यै' कथमस्माकमेते भोग्या भविष्यतीति निजकार्यनिष्पत्तये, अत्रार्थेऽनुरूपमुपमानमाह-'शृङ्खलेव' निगड इव । एतदुक्तं भवति-यथा म्लेच्छसैन्याः कस्मिंश्चिदपि दुर्गे स्वभुजबलेन गृहीते द्रविणाद्यर्थं तदन्तर्वर्तिनागरिकलोकसंयमनाय शृङ्खला प्रसारयन्ति, तथैतेऽपि लिङ्गिनः स्वोपभोगार्थं मुग्धजननियमनाय गच्छस्थितिं प्रथयामासुरिति वृत्तार्थः ॥३९॥ ननु ते यदि गच्छस्थिति सर्वत्र विस्तारयामासुरेतावताऽपि किम् ? इत्यत आह
सम्प्रत्यप्रतिमे कुसङ्घवपुषि प्रोज्जृम्भिते भस्मक-॥४०॥ व्याख्या-मोहराजकटके प्रौढिं जग्मुषि लोकैर्वयं कदामह इति सम्बन्धः । 'सम्प्रति'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 256 257 258 259 260 261 262