Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
२२६
श्री सङ्घपट्टकः. कुपथपङ्क इति दयाऽध्यवसायात् 'यः' कश्चिन्महासत्त्वो 'नृषु' लिङ्गिभावनाभावितेषु मत्र्येषु 'कुबोधं' कुदेशनोत्पादितमसत्पथेपि सत्पथभ्रमं 'निरसिसिषु' बिभित्सुः । यदि हि कथञ्चिदमीषां मूढानां दुरध्वदोषसामस्त्यदर्शनेनायं कुबोधो विध्वंसते तदाऽमी उपकृता भवन्तीत्याशयेन 'दोषसङ्ख्यां' दूषणयेत्तां 'विवक्षेत' अभिधित्सेत्, एतावत् सङ्ख्या अत्र कुमार्गे दोषाः सन्तीति वक्तुमिच्छेदित्यर्थः । स पुमान् 'अम्भो' जलम् अम्भोधेरणवस्य जलं 'प्रमित्सेत्' इयदत्राम्भ इति चुलुकादिभिः संचिख्यासेत् । जलधिजलप्रमित्सानिदर्शनेन दुरध्वदोषाणामसङ्ख्येयतासिद्ध्या अपरितुष्यन् विवक्षितानन्त्य- चिख्यापयिषया निदर्शनान्तरमाह-'सकलगगनोल्लङ्घन' पद्भ्यां समग्रान्तरिक्षान्तप्रापणं, चेति पक्षान्तरे, विधित्सेत्चिकीत । अयं च निदर्शननामालङ्कारः । ततोऽयमर्थः-यथा सागराम्भोऽतिभूयस्त्वात् प्रमातुमशक्यं, तथा दुरध्वस्य महामिथ्यात्वरूपस्य लोकोत्तरविरुद्धासमञ्जसचेष्टित-शतसहस्रसम्भ[ संवृतत्वात् तद्दोषसङ्ख्याऽप्यतिबाहुल्याद्वक्तुमशक्येति, अतो दिङ्मात्रमेवोदाहृतं, तावन्मात्रेणापि केषाञ्चि-त्पुण्यात्मनां मोहापोहेन सत्पथाभ्युपगमो भविष्यतीति धियेति वृत्तार्थः ॥३५॥
ननु-उक्तन्यायेन लिङ्गिनः चेत् यतयो न भवन्ति तर्हि न सन्त्येव, क्वचित्सम्प्रति श्रुतोक्तलक्षणभाजो यतयोऽदर्शनात्, तथा च ज्ञानदर्शनाभ्यामेव भगवत्तीर्थमनुवर्तत इति मन्यते तं प्रत्याह-तथा
___ न सावद्याम्नाया न बकुश-कुशीलोचित-यति ॥३६॥ व्याख्या-तथेति, यथा सम्प्रति भूयांसो लिङ्गिनः सन्ति 'तथा' तेन प्रकारेण विरलाः सुविहिता अपि, इत्येतदेवाह-तेऽद्यापि स्युरिह यतय इति सम्बन्धः । 'आम्नायो' गुरुशिष्यप्रशिष्यादिक्रमेण सम्प्रदायः 'सावद्यः' प्राग्वर्णित औदेशिकभोजनाद्युपभोगादेः सपाप आम्नायो येषां ते तथा, ना तेषां निषेधः । अधुनातनरूढयोद्देशिकभोजन-चैत्यवासादिना सावद्यसम्प्रदायवन्तो येन भवन्ति, तथा 'बकुशं' शबल-मतिचारपङ्केन समलं, प्रक्रमाच्चारित्रं, ततश्च बकुशचारित्रयोगात्साधवोऽपि बकुशाः ते च द्विविधा-उपकरण-देहभेदात् । तत्रोपकरणबकुशा ये वर्षाप्रत्यासत्तिमन्तरेणापि कदाचित् वस्त्रादिकं धावन्ति, श्लक्ष्णा_शुकादि च जिघृक्षन्ति कदाचित्परिदधते च, पात्रदण्डकाद्यपि घृष्टं तैलादिम्रक्षणोत्पादित तेजस्कं च धारयन्ति, उपकरणमप्यतिरिक्तं प्रार्थयन्त इति । देहबकुशास्तु ये करचरणनखादीन् कदाचित् निनिमित्तं भूषयन्तीति । इमे च द्विविधा अपि शिष्यादिपरिवारादिकां विभूतिं तपःपाण्डित्यादिप्रभवं च यशः प्रार्थयन्ते, तदासादने न च प्रमोदन्ते छेदाहश्चातिचारैर्बहुभिः शबलिता अपि कर्मक्षयार्थमुद्यता इत्यादिलक्षणयुक्ता बकुशाः । यदुक्तम्-"उवगरण-देह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262