Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 251
________________ २२४ श्री सङ्घपट्टकः निर्गन्तुं मनसि खिद्यमानस्यापि सङ्घमुद्रया कीलितत्वेन सत्पथाभ्युपगमं प्रति उद्यन्तुमप्यशक्नुवतः तत्क्रममनतिक्रामतः सम्प्रतितनसङ्घाज्ञावश्यस्य जन्तुसन्दोहस्य न निर्वाणं सञ्जायत इति । अथ कथमिह सङ्घस्य क्रूरतया व्याघ्रणोपमानम् ? अत एव सुखशीलताऽनुरागादेरसङ्घमपि सङ्घ इत्यभिदधतां प्रायश्चित्तं प्रतिपादितं सिद्धान्ते । यदाह-"असंघं संघं जे, भणंति रागेण अहव दोसेण । छेओ वा मूलं वा, पच्छित्तं जाये तेसि ॥१॥" तस्माद्युक्तं क्रूरतया प्रकृतसङ्घस्य व्याघ्रतया निरूपणं, तथा च सिद्धः तद्वशस्य प्राणिगणस्य मोक्षाभाव इति । नन्वेवं तर्हि सिद्धान्तोक्तलक्षणस्य सङ्घस्य सम्प्रत्यभावात् भवन्मते तीर्थोच्छेदः प्रसज्यत इति चेन्न्, यदुक्तमागमे-“निम्मलनाणपहाणो, दंसणसुद्धो चरित्तगुणजुत्तो । तित्थयराणाविज्जो, वुच्चइ एयारिसो संघो ॥१॥ आगमभणियं जो, पन्नवेइ सद्दहइ कुणइ जहसत्तिं । तेलुक्कवंदणिज्जो, दूसमकाले वि सो संघो ॥२॥" अन्यथा "दुप्पसहंतं चरणं" इत्यादेरादुःषमान्तं चारित्रनुवृत्तिप्रतिपादकस्य भगवद्वचनस्य व्याघातापत्तेः, भावसङ्घमन्तरेण तावन्तमनेहसं चारित्रानुवृत्तेरसम्भवात् । ननु भवतु सिद्धान्तप्रामाण्यात्-इदानीमपि भावसकोऽल्पीयांस्तथापि मया तावन्न दृश्यत इति चेत् ? अर्वाग्दर्शितत्वेन मात्सर्येण वा भवतः तद्दर्शनस्यान्यथासिद्धत्वात्, दृश्यते च कषायकलुषितचक्षुषां सन्निकर्षेऽपि निषेदुषो मनुष्यादेरनुपलम्भः, ततो यदि त्वं शुद्धपथस्पृहयालुस्तदा मात्सर्यमुत्सार्य माध्यस्थ्यमास्थाय सूक्ष्मप्रेक्षया परीक्षस्व भावसङ्ख, येन क्वचित्प्रेक्षसे, मैवमेव नास्तिकतामवलम्ब्य भवाम्भोधौ मङ्क्षीरिति (.? ) । तस्मात् भगवद्वचनान्यथाऽनुपपत्त्या सम्प्रत्यप्यस्ति भावसङ्घ, स एव च प्रेक्षावता दुस्सङ्घतापरिहारेणाभ्युपेतव्य इति वृत्तार्थः ॥३३॥ तदेवमौद्देशिकभोजनादि द्वारदशकेन लिङ्गिभिः प्रज्ञापितस्य धर्मस्योत्पथत्वप्रकाशनेन जडानां चेतसि कोपाविर्भावं सम्भावयंस्तत्क्षणं तत्प्रदर्शनप्रयोजनमाविश्चिकीर्षुराह इत्थं मिथ्यापथकथनया तथ्ययाऽपीह कश्चित् ॥३४॥ व्याख्या-'इत्थं' प्राक्प्रतिपादितप्रकारेण 'मिथ्यापथकथनया' चैत्यवासिप्ररूपितोत्सूत्रमार्गप्रकटनया करणभूतया 'तथ्ययाऽपि' यथार्थयाऽपि, असत्यया हि तया कोपोत्पादाद्यपि कस्यापि सम्भाव्यते इत्यपि शब्दार्थः । 'इह' लोके प्रवचने वा 'कश्चित् जिनशासनस्थो मा ज्ञासीत्, यदिदं मिथ्यापथकुपथत्वप्रकटनम् 'अनुचितम्' असङ्गतं, यदि हीदं रागद्वेषाभ्यामतथ्यं विधियेत तदाऽनौचित्यं स्यात्-न चैवमस्ति । अथो इत्यानन्तर्येऽव्ययम् । तेनानुचितज्ञानानन्तरं 'मा कुपत्' मा क्रुधत् 'कोऽपि' कश्चित् । यदि ह्येतदनुचितं स्यात्तदा तज्ज्ञानान्तरं कोपोऽपि कथञ्चित् युज्येत, न चैवं, तस्मान्न कोपनीयम् । अथ यद्येवं मिथ्यापथकथनेन परेषां कोपाविर्भावशङ्का तदाऽसौ न कथनीय एव, परसङ्क्लेशहेतोः सत्यस्यापि वचनस्यावक्तव्यत्वेनाभिधानात् । यस्मात् हेतो नभ्रान्त्या-साधुसाध्वी-श्रावकश्राविकाचैत्याद्याकारदर्शनात् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262