Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 249
________________ श्री सङ्घट्टकः षड्दर्शनतर्ककर्कशधियं स्वपरसमयनिर्णयभूमिं सूरिविशेषम् 'अज्ञीयति' अज्ञमिवबालिशमिवाचरति, यथा- न किञ्चिदप्येष जानाति । अयमर्थः न हि मूर्खशिरोमणेः सर्वज्ञेनोपमानं युक्तं नापि तत्त्वज्ञस्याज्ञेन, अत्यन्तमननुरूपत्वात् परं स मिथ्याज्ञानात् एवमपि करोति । अधुना अमार्गे मार्गबुद्ध्यादिरूपं मिथ्यात्वं दर्शयति- 'उन्मार्गीयति' उन्मार्गमिवउत्पथमिवाचरति । 'जैनमार्ग' शुद्धं भगवत्पथं, यथा-नायं भगवत्प्रणीतो मार्गः किन्तूत्सूत्र इति । 'अपथं' कुमार्गं प्राक्प्रतिपादित - मौद्देशिकभोजनादिकं स्वकल्पितं 'सम्यक् पथियति' सम्यक् पथमिव-सन्मार्गमिवाचरति । अत्रापि यत्-जिनमार्गस्य चन्द्रवत्प्रकाशस्योन्मार्गेण[ तामसेन ]नाम जैनेन सादृश्यापादनमुन्मार्गस्य च सत्पथतुल्यतापादनं तन्मिथ्यात्वोदयादिति । तथा 'स्वं' आत्मानम् ‘अगुणाग्रण्यं' निर्गुणधुरन्धरं 'कृतार्थीयति' कृतार्थमिव विहितसकलप्रयोजनमिवाचरति । अत्रापि स्वस्य निर्गुणमुख्यस्य 'कृतार्थेन' गुणिमुख्येनोपमानमविद्यावशादिति । एवं तावल्लोकोत्तरिकजनविषयं मिथ्यात्वस्वरूपं प्रदर्श्य बाह्यलोक विषयम प्रसङ्गात् किञ्चित्-दर्श्यते- 'मिथ्यात्वग्रहिलो जन' आभिग्रहिकादि - मिथ्यात्वात् - जैनमतबहिर्भूतो लोकः ‘देवीयति' देवानिवाचरति, मुक्त्यर्थमाराध्यतया देवत्वेनाभ्युपै[ ती ]ति यावत् । उरुदोषिणो - रागादिमतो लोकप्रतीतान् हरिहरादीन्, क्षतमहादोषान् वीतरागान् लोकोत्तरविश्रुतान् अदेवीयति - अनाराध्यत्वेनानुमन्यते । अथ कथम् एतन्मिथ्यात्वमिति चेत् ? उच्यतेअतस्मिन्-तदिति प्रत्यस्यैतल्लक्षणत्वात्, तस्मान् न रागादिमन्तो देवाः । तथा सर्वज्ञीयतिसर्वविदयमित्यभिमन्यते मूर्खमुख्यनिवहम् - अन्यपरतीर्थिकसमूहं प्राणातिपाताद्यनिवृत्तम् । तथा तत्त्वज्ञं समस्तशास्त्ररहस्यवेदिनं पञ्चमहाव्रतधारिणं सर्वज्ञप्रायं युगप्रधानसूरिम् 'अज्ञीयति' मूर्खीयति । एवं च तत्त्वज्ञे गुरावज्ञत्वारोपो मिथ्यात्वविजृम्भितम्, एतावता चागुरौ गुरुभावना गुरौ चागुरुधीरिति मिथ्यात्वं लक्षितम् । उन्मार्गीयति - उत्पथत्वेन मन्यते जैनमार्गम्, अपथंकुतीर्थिकमतं सम्यक्पथीयति सन्मार्गीयति तदा स्वमगुणाग्रण्यमित्यादि तु पूर्ववत् । तदाश्चर्यम्-एतन्मिथ्यात्वोपहता यदेवं विपर्ययेण सर्वमवसाय गुणिनो द्विषन्तीति वृत्तार्थः २२२ ॥३२॥ ननु किमिदानीं गुणिभिः प्रयोजनम् ? सङ्घ एव भगवान् - निशेषदोषमोषक्षमः समाश्रीयतां, भगवताऽपि च तस्य महत्त्वेन नमस्कृतत्वात् तथा च तदाज्ञया वर्त्तमानानां मोक्षः प्राणिनां सम्पत्स्यत इत्याशङ्क्याधुनातनसङ्घवशवर्त्तिनो भव्यजंनस्याक्षेपपूर्वं मोक्षाभावमुपदर्शयिषुराह - सङ्घत्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यत ॥३३॥ व्याख्या-'जन्तवो' धर्मार्थिनो भव्यसत्त्वाः त एवाबलत्वात्-मुग्धत्वात् सत्त्वरहितत्वात्-च 'हरिणा' मृगाः तद्व्रातस्य तत्समुदायस्य - उत्पथप्रवृत्त - उत्सूत्रप्रज्ञापकः श्रुतज्ञाननिरपेक्षः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262