Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 248
________________ विभाग- ४, लघुवृत्तिः 'सिद्धान्ताध्वनि' शुद्धागममार्गे 'तस्थुषः ' स्थितवतस्तत्परानित्यर्थः, एतेन स्वयमुत्सूत्रक्रियानिषेधं प्रतिपादयति । 'शमजुषः ' क्षमाभाजः, एतेनान्तरपि क्रोधनिरासं ज्ञापयति । 'सत्पूज्यतां' विवेकीजनसेव्यतां 'जग्मुषः ' प्राप्नुषः, एतेन सकलश्रमणगुणगणसम्पत्तिमाविर्भावयति, निर्गुणानां विवेकिलोकपूजनासम्भवात् । 'विदुषः' विचक्षणान्, एतेन स्वसमयपरसमयसारविदुरतां विस्फारयन्ति । न चैवं गुणशालिषु यतिषु द्वेषः कर्तुं युक्तः, अणीयसोऽपि तद्द्वेषस्य सकलगुणिगतगुणद्वेषरूपत्वेनानन्तभवभ्रमणनिबन्धनत्वात्, सिद्धान्तेऽप्यभिहितम् “भरहेरवयविदेहे, पन्नरस वि कम्मभूमिया साहू । एक्कम्मि हीलियम्मी, सव्वे ते हलिया हुंति॥१॥ संतगुणछायणा खलु, परपरिवाओ य होइ अलियं च । धम्मे य अवमाणो, साहूपओसे य संसारो ॥२॥” ततः प्रेक्षावता गुणिषु बहुमान एव कर्त्तव्यो, न द्वेष, इति वृत्तार्थः ॥३१॥ अथ कथमेवंविधानपि सत्साधून् खला न क्षाम्यन्ति ? मिथ्यात्वप्राबल्यादिति ब्रूमः, अत एव तद्वतो मूढजनस्य नामजैनपथवर्त्तिनः स्वरूपं निरूपयन्नाह २२१ देवीयत्युरुदोषिणः क्षतमहादोषा न देवीयति ॥३२॥ व्याख्या - अहो ! मिथ्यात्वग्रहिलो जन उरुदोषिणो देवीयतीत्यादि सम्बन्धः । 'अहो' इति विस्मये, ग्रहः चेतसोऽसत् निर्बन्धः, सोऽस्यास्तीति, अस्त्यर्थे इलू प्रत्ययः तद्धितः । इह मिथ्यात्वं प्रकरणादाभिनिवेशिकं गृह्यते, प्रायेण जैनमिथ्यादृष्टिनां "गोट्ठामाहिलमाइणे " त्यादिनाऽऽभिनिवेशिकस्यैव तस्य प्रतिपादनात् । ततश्च तेन 'ग्रहिलः ' प्रबलमिथ्याऽभिनिवेशग्रहगृहीत इत्यर्थः । 'जनो' धर्मध्वजिभक्त श्राद्धलोकः, उरवो महान्तो यतिजनस्यात्यर्थमनुचितत्वेन 'दोषा' अपराधा रागद्वेषप्राणातिपातादय उरुदोषाः तद्वत आचार्यादीनिति गम्यं । 'देवीयति' देवानिव - जिनानिवाचरति, यादृशा देवा नीरागा अतिशयादिमन्तश्च तादृशा अमी, तस्मादाराध्या इति देवैः तानुपमिमीते, न च तादृशां तेषां तदुपमानं समीचीनं, तेषां महादोषवत्वेन देवोपमानविधानस्य महापातकहेतुत्वात् परं मिथ्यात्वस्य विपर्यासरूपत्वात् विपरीतबुद्धिः तादृशानपि तथोपमिनोति, एवमुत्तरपदेष्वपि भावनीयम् । 'क्षतमहादोषान्' प्रणष्टप्रागुक्तबृहदपराधान् युगप्रधानादीनिति शेषः । 'अदेवीयति' अदेवानिवाचरति, नामी देवसदृशाः, सदोषत्वात्-निरतिशयत्वाच्च, तस्मादनाराध्या इति । अत्र च क्षीणप्रायदोषाणां देवैरुपमानं सिद्धान्तेऽप्युदितम् - "पडिरूवो तेयस्सी" इत्यादावाचार्यगुणवक्तव्यतायां 'प्रतिरूपः ' सिद्धान्ततात्पर्यपरिच्छेददेशनाऽतिशयवत्त्वादिना तद्विषयबुद्धिजनकत्वात्तीर्थकरप्रतिबिम्बरूप इति व्याख्यानात्, स च विपर्यस्तमतित्वात्तथा न करोति । एवमदेवप्राये देवबुद्धिर्देवप्राये चादेवबुद्धिरिति मिथ्यात्वस्वरूपं प्रतिपाद्या- गुरौ गुरुबुद्ध्यादिरूपं तदाह - 'सर्वज्ञीयति' सर्वज्ञमिव-सर्वविदमिवाचरति 'मूर्खमुख्यनिवहम्' अज्ञचूडामणिसमूहं स्वाभ्युपेतगच्छस्थितं यतिजनं, यथा - सर्वज्ञसदृशोऽयं मदीयो यतिजनः किं किं शास्त्रजातं न वेत्तीति । 'तत्त्वज्ञं' Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262