Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
२१९
विभाग-४, लघुवृत्तिः इति । किमित्येवमुपहसतीत्यत आह-तन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना । अत्र च मुग्धजनपुरतो निरङ्कशं स्वकल्पितं चैत्यवासादिकमुत्सूत्रपथं प्रथयन् विधिविषयपारतन्त्र्यप्ररूपणनिपुणान् सुगुरुसम्प्रदायवर्तिनः सुविहितानऽसूययोपहसन् सम्प्रति वर्तमानः कुसङ्घाचार्यवर्गोऽनया भङ्ग्या कविना प्रतिपादित इति वृत्तार्थः ॥२९॥
साम्प्रतं श्रुतपथावज्ञाद्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदितकारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयन्नाह
सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभावा ॥३०॥ व्याख्या-या आगमग्रन्थेष्वागामितया लिखिताऽऽकर्ण्यते, सा एषा सम्प्रति प्रत्यक्षा, कालस्याप्रत्यक्षत्वेऽपि तदुद्भवकार्याणां प्रत्यक्षेणोपलम्भेनोपचारादेषेत्युक्तम् । अवसर्पन्ति' प्रतिक्षणमायुःशरीरप्रमाणादयो भावा हानि गच्छन्ति प्राणिनामस्यामित्यवसर्पिणी सिद्धान्तप्रसिद्धः कालविशेषः, हुण्डं-सकलाङ्गोपाङ्गानां यथोक्तमानवैकल्यहेतुः षष्ठं संस्थानं, तेनोपलक्षिताऽवसर्पिणी हुण्डावसर्पिणी, व्युत्पत्तिमात्रं चेदं, तत्त्वतस्त्वनन्ततमकालभाव्यसंयतपूजानिबन्धनं चैत्यवास्युत्पादहेतुः शुभभावहानिकारणं कालभेदो हुण्डावसर्पिणी, सा च भगवति मोक्षं-गते जातेति । समयः-परमसूक्ष्मः कालः, ततश्चानुसमयं-प्रतिक्षणं 'भव्यानां' मुक्तिगामिनाम्, अथवा 'भव्याः' शुभा 'भावाः' परिणामा 'अनुभावाश्च' प्रभावा मति-निश्चया वा, ततश्च 'हसन्तो' हीयमाना भव्यभावानुभावा यस्यां सा तथा । हुण्डावसर्पिण्यां हि कालस्वाभाव्यात् धर्मार्थिनामपि प्रायेण भावा यादृशा वर्तमानक्षणे न तादृशाः क्षणान्तरे इत्यादि क्रमेण प्रतिक्षणं सङ्क्लेशतारतम्याघ्राततयोपजायमाना उपलभ्यन्ते, तथा च प्रकरणकारेणैव प्रकरणान्तरे प्रदर्शितम्-"कालस्स अइकिलिट्ठत्तणेण अइसेसिपुरिस-विरहेण । पायमजुग्गत्तेण य, गुरुकम्मत्तेण य जियाण ॥१॥ किर मुणियजिणमयावि हु, अंगीकयसरिसधम्ममग्गावि । पायमइसंकिलिट्ठा, धमत्थीवित्थ दीसंति ॥२॥" अत्र च हुसदित्यनेन संयोगपरत्वेऽपि पूर्ववर्णस्य न गुरुत्वं, छन्दः शास्त्रैर्व्यवस्थित क्य ]नुवृत्त्या क्वचितत्तन्निषेधात् । तथा 'त्रिंशः' जैनसिद्धान्तोक्ताष्टाशीतिग्रह-मध्यात्रिंशतः पूरणः, चः समुच्चये, उग्रग्रहो-जिनप्रवचनस्योदग्रोपसर्गकारित्वात्-दारुणो ग्रहः, अयमेष प्रत्यक्षोपलभ्यमानकार्यो भस्मराशिनामा, खम्-आकाशं, तस्य च शून्यत्वात्खमिति गणितव्यवहारे शून्यस्य-बिन्दोः संज्ञा, नखा इति च विंशतः संज्ञा, नखानां विंशतिसङ्ख्यत्वात्, ततश्च खं च खं च नखाश्चेति द्वन्द्वः, तैः पश्चानुपूर्व्या अङ्करचया स्थापितैः मितानि-परिसङ्ख्यातानि 'वर्षाणि' संवत्सराः 'स्थिति' रेकस्मिन् राशाव[व]स्थानं यस्य स तथा, एकराशौ वर्षसहस्रद्वयस्थितिक इत्यर्थः (२०००)। स हि ग्रहो भगवन्निर्वाणकालानन्तरं वर्षसहस्रद्वयं यावत् क्रूरत्वात्-भगवज्जन्मराशी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262