Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 244
________________ विभाग-४, लघुवृत्तिः २१७ व्याख्या-तत्तदिति वीप्सायां सर्वसङ्ग्रहमाह-धर्मसाधनमनुष्टानमिह धर्मः ततश्च 'धर्म इति' सुकृतमिदमित्येवंरूपतया 'बुवन्ति' वदन्ति 'कुधियो' दुर्मेधसो नामजैनाः । यत्किमित्याहयत्किञ्चिदिति, सामान्यतो निर्दिष्टं विशेषतोऽनिर्दिष्टनामकं 'वितथम्' अलीकं श्रेणिकराजरजोहरणवन्दनादि, न ह्येतदागमे क्वचिल्लिखितमस्ति, येन सत्यं स्यात्, परं लिङ्गिनः स्ववन्द्यतापादनायै तदपि धर्म इति भाषन्ते, यदाह-"श्रीश्रेणिकः क्षितिपतिः किल सारमेयलाङ्गलमूलनिहितं यतिवद्ववन्दे । भक्त्या रजोहरणमित्यनृतं वदन्ति, ही !!! लिङ्गिनो वृषतया कुधियः प्रलब्धुम् ॥१॥" तथा यदपि, अपिः समुच्चये । यच्चानुचितमयोग्यं पित्राद्युद्देशेन यात्राकरणादिनिमित्तं हि धर्मनिमित्तं हि कृत्यजातं जिनमन्दिरे कर्तुमुचितं, नान्यत् । पित्राझुद्देशेन तु यात्रादि तत्र विधीयमानं गुणबहुगानविकलकेवलस्नेहनिबन्धनत्वान्न धर्मः, परं तदपि लिङ्गनो धर्मोऽयमित्यभिधाय स्वोपयोगाय विधापयन्ति । तथा यल्लोको-जैनमार्गबहिभूतः शिष्टजनः 'लोकोत्तरो' जिनप्रवचनं, ताभ्यामुत्तीर्णंबाह्यं सूतकभिक्षाग्रहणादि, एतत् हि लोकलोकोत्तरयोविरुद्धत्वात् न धर्मस्ते तु गाादिहेतुनैतदपि धर्म इत्यभिदधति, यदाह-"भिक्षा सूतकमन्दिरे भगवतां पूजा मलिन्या स्त्रिया, हीनानां परमेष्ठि संस्तवविधिर्यच्छिक्षणं दीक्षणम् । जैनेन्द्रप्रतिमाविधापनमहो तल्लोकलोकोत्तर-व्यावृत्तेरथहेतुमप्यधिषणाः श्रेयस्तया चक्षते ॥१॥" तथा यद्भवहतुरव-संसारकारणमेव भावना देहिनो जिनमन्दिरे जलक्रीडादि । एतद्धि मदनोद्दीपनत्वात् क्रीडामात्रत्वेनातात्त्विकत्वाच्च संसारवर्द्धनमेव, परमेतदपि लिङ्गिनो धर्मच्छद्मना स्वावलोकनकुतूहलेन कारयन्ति । तथा यत् 'शास्त्रबाधाकरं' सिद्धान्तविरोधाधायकम् औद्देशिकभोजनादि, यथा चौद्देशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितम्, अथवा आषाढचतुर्मासकात् पञ्चाशत्तमदिनप्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवति वर्षेऽशीतितमेऽह्नि विधानम् । ननु बुवन्तु ते स्वमतिकल्पितं मार्ग, तथा वितथादिस्वभावत्वात्तं न कोऽपि ग्रहीष्यति, तथा चोक्तोऽप्यनुक्तकल्पो लोकोपादानाभावेन प्रसराभावादित्यत आह'मूढा' अज्ञानिनः तद्धर्मव्याजेन लिङ्गिप्ररूपितं मतम् अर्हन्मतभ्रान्त्या जिनमार्गोऽयमिति मिथ्याज्ञाने 'लान्ति' उपादते । अयमर्थः यथोभयगतचाकचिक्यादि सदृशधर्मोपलम्भात् परस्परव्यावर्त्तकदेशजात्यादिभेदधर्मानुपलम्भाच्च अरजतेऽपि शुक्तिकायां रजतमेतदिति धिया भ्रान्ताः प्रवर्तन्ते, अथेहापि सन्मार्गासन्मार्गगतजिनदेवताऽभ्युपगमबाह्यवेषादि समानधर्मावगमादन्योन्यव्यवच्छेदकविध्यविधिप्रवृत्त्यादिविशेषधर्मानवगमाच्च वितथत्वादिना वस्तुनोऽनहन्मतेऽपि प्रकृतमार्गेऽर्हन्मतमेतदिति बुद्ध्या मूढाः प्रवर्त्तन्त इति, न केवलमेते कुमार्ग वदन्ति मूढास्तु तं गृह्णन्त्यपीति च शब्दार्थः । हा इति खेदे 'दुरन्तदशमाश्चर्यस्य' दुःखावसानान्त्याश्चर्यस्य 'विस्फूजितं' विजृम्भितमेतदिति, कथमन्यथा कुपथस्याप्येतस्य बहुमुग्धजनोपादेयता स्यादतः कष्टमेतत् यद् अद्यापि अयं कुमार्गोऽस्खलितप्रसरोऽनुवर्तत इति वृत्तार्थः ॥२८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262