Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 242
________________ विभाग-४, लघुवृत्तिः २१५ व्याख्या-'ततः' शब्दस्य प्राक्तनवृत्तस्थस्येह सम्बन्धात्तेन, यतोऽमी सर्वथा सत्पथं दुष्टचेतसः ततः तस्माद्धेतोः, किमित्याह-नूनमिति सम्भावनायाम्, अहमेवं सम्भावयामियावन्त्यतिदुष्टवस्तूनि जगति सन्ति तावद्भिर्दुर्मागमासेदुषां क्रूरं मानसमकारीति सम्बन्धः, कथमन्यथा तन्मनसोऽतीव क्रूरता ? इतरजनमनःसाधारणकारणसामग्रीतः तदनुपपत्तेः, कारणानुरूपत्वात्कार्यस्य, न च हि न्यग्रोधबीजात्पिचुमन्दप्ररोहः । कैस्तैरित्याह-'सर्वैः' सकलैरुत्कटकालकूटपटलै-नूतनत्वादत्युग्रसद्योघातिविषभेदसमूहैः, एकद्वित्र्यादिभिरनुत्कटैश्च कालकूटशकलैस्तत्पटलैर्वा तादृक् क्रूरमनसो जनयितुमशक्यत्वादेवमुक्तम् । एवमुत्तरपदेष्वपि योज्यम् । सकलकालकूटपटलैरेव केवलैः प्रकृतमनसः कर्तुमशक्यत्वात्-अपुण्योच्चयैरित्यादि वाक्यावतारः, ततश्च सर्वैः-अखिलैरपुण्योच्चयैः पापराशिभिः, सर्वव्यालकुलैः-अशेषाशीविषसन्दोहै: 'समस्तविधुराधिव्याधिदुष्टग्रहैः' कृत्स्नव्यसनचेतः पीडा-गद-मङ्गलादिपापग्रहैरेभिरखिलैर्दुष्टेरेकसामग्रीभावेन सम्भूय 'क्रूरं' सन्मार्गघातुकं 'मानसं' चेतः 'अकारि निर्ममे । क्रूररूपस्य मनसो निर्माणं विधेयमत्र, एतेनास्य मनस इतरमनोभिः साजात्यमपि निरस्तमित्येतदपि सम्भावयामि इतरमनोविलक्षणसामग्रीजन्यत्वेन वैजात्योपपत्तेः, न हि मृत्पिण्डदण्डादि-तन्तुवेमादिविसदृशसामग्रीजन्ययोर्घटपटयोः साजात्यं नाम, तथा च तन्मनसः कदाचिदपि न शुभभावतापत्तिः, न हि भूनिम्बस्य-शर्कराभावः शिल्पिशतेनाप्यापादयितुं शक्यते, तत्कस्य हेतोः ? स्वस्वसामय्या विजातीयतयैव तयोरुत्पत्तेरिति । अथवा मनः सिद्धमेव तस्य तु क्रूरत्वं विधेयं, तस्य कालकूटादिभिः साध्यम् । अथास्मिन्पक्षे क्रूरत्वस्यौपाधिकत्वात् अपगमप्रसङ्गो, वस्त्रादिषु महारञ्जनरागस्य तथा दर्शनादिति चेन्न्, औपाधिकस्यापि धर्मस्य कयाचित् सामग्र्या जन्यमानस्यानपगमदर्शनात्, यथा पट्टांशुकादिषु नीलीरागस्यौपाधिकस्यापि न कदाचिदपगम इति । तदुपपन्नमेतन्नूनं क्रूरमकारि मानसमिति । 'अमुं' प्रत्यक्षं 'दुर्मार्ग' कुपथं 'आसेदुषां' अभ्युपेयुषां लिङ्गिनां तद्भक्तानां चेति शेषः । ननु भवतु तेषां क्रूरं मनस्तथापि किं न श्छिन्नमित्यत आह- 'दौरात्म्येन' दुष्टाशयत्वेन 'निजध्नुषां' उच्चिच्छिदुषां 'जिनपथं' भगवत्प्रणीतं सत्पथं सन्मार्गवर्तिनामुपसर्गकरणेन वस्तुतो जिनमार्ग भ्रंशयद्भिर्बह्वस्माकं छिन्नमित्यर्थ । अथ जिनपथं नि [ज ]नतां तेषां द्विजादीनामिव किं दर्शनान्तरपरिग्रहेण मतान्तरप्ररूपणा नेत्याह-'वाचा' वचनेन स्वमतिकल्पितमप्यौदेशिकभोजनादिमार्गम् 'एष सः' अयमेव स जिनप्रणीतः पन्था नान्य 'इति' एवं प्रकारेण 'ऊचुषाम्' अभिदधुषां; न ते दर्शनान्तरस्थाः स्वमतं प्ररूपयन्ति, तत्स्थैर्जिनपथवर्तिनो जनस्य प्रतारयितुमशक्यत्वात्, किन्तु अस्मिन्नेव दर्शने वेषमात्रेण स्थिताः स्वप्ररूपितं कुमार्ग जैनमार्गतया वदन्तो मुग्धलोकं व्यामोहयन्तीत्यर्थः, एतावता संरम्भेण सत्पथं प्रत्यतीवप्रत्यनीकत्वं तेषां प्रकटितम् । इह च सेत्यत्र 'स' शब्दाद्विसर्जनीयलोपे सन्धिप्रतिषेधेऽपि "ते तदा पादपूरतो सन्धि" रिति विशेषलक्षणेन सन्धिविधानमिति वृत्तार्थः ॥२६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262