Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
श्री सङ्घपट्टकः
सर्वत्रास्खलितानीति यावत् । 'सोपहासानि' उत्प्रासभाञ्जि ' वचांसि ' वचनानि येषां ते तथा स्युर्भवेयुर्लोकाः-प्राकृतजनाः कुतीर्थिक भाविताश्चजैनपथमत्सरिणः 'प्रेक्ष्य' साक्षात्कृत्य, येषामिति पदं तुर्यपादस्थितं सकलं वाक्यं दीपयति, तेन येषां स्थितिमित्यादि सम्बध्यते । 'स्थिति' यत्यनुचितासमञ्जससामाचारी, स्वरूपेणैव तावत् मत्सरिणः सर्वस्याप्युपहासं कुर्वन्ति, किम्पुनः सम्प्रति निरतिशयस्य जिनशासनस्य ?, तत्रापि लिङ्गिनां तथारूपं वैशसं व्यवहारं वीक्ष्य कथङ्कारं न कुर्युरित्यर्थः । तथा 'श्रुत्वा' आकर्ण्य येषां स्थितिम् 'अन्ये' अपरे 'अभिमुखा: ' शेषदर्शनेभ्यः सकलोपपत्तिकलितमिदं जैनदर्शनं, यतयोऽप्यत्र दर्शने शान्तात्मानः क्रियानिष्ठाश्चोपलभ्यन्ते, ततोऽस्माकमपीदमङ्गीकर्त्तुमुचितमिति चेतसोऽभ्युपगमविषयीकृतजिनशासनास्तेऽपि, आस्तां तदपर इत्यपरेर्थ: । 'श्रुतपथात् ' जैनसिद्धान्तमार्गात् वैमुख्यम्, एतावन्तमनेहसं वयमेवम् अज्ञास्याम- यदेतदेव तात्त्विकं धर्मदर्शनं निरपवादं, परं यदत्राप्येवंविधा असदाचारकारिणो विलोक्यन्ते तदाऽलमनेन ताम्रहिरण्यमया - लङ्कारदेशीयेनान्तो निस्सारेण बहिर्मात्रमनोहरेण सर्वथा, प्राक्स्वीकृतमेवास्माकं दर्शनं श्रेयः, अहो जैना अन्यथावादिनोऽन्यथाकारिण इत्यादि वचनसन्दर्भेण 'वैमुख्यं' पराङ्मुखत्वं सर्वथा बहिर्भाव - मिति यावत् 'आतन्वते' दर्शयन्ति । तथा येषां 'मिथ्योक्त्या' मृषावचनेन, ते हि स्खलिताचारत्वेन सर्वशङ्कितत्वात् असमञ्जसचेष्टितं प्रति केनचित्पृष्टास्सन्तो मलिम्लुचवदलीकं भाषन्ते, यथा-क एवमाह ? न वयमेवंविधंकारिण इति । ततश्च सुदृशोऽपि सम्यग्दृष्टयो जिनमतान्तःस्था अपि प्रायशः, किम्पुनरन्ये ? इत्यपेरर्थः । ' बिभ्रति' धारयन्ति - कुर्वन्तीति यावत्, :- चेतः 'सन्देह' इदं किमेवमन्यथा वेत्युभयकोट्युल्लेखनवधारणज्ञानं संशयः, स एवं एकत्रानवस्थितरूपत्वसाधर्म्याद्दोला, तया चलं, यथा दोलारूढं वस्तु तस्याश्चलत्वाच्चलं, एवं सुदृशामपि मनः । अथवा 'सन्देहेन करणभूतेन दोलावच्चलं येषां नामजैनानां ते अमी सर्वत्र सम्प्रति प्रसृतत्वात् पुरोवर्त्तिनः । नन्वित्यक्षमायां । 'सर्वथा' सर्वैः प्रकारैः जिनपथप्रत्यर्थिनो भगवन्तमतप्रत्यनीकाः, न तु केनापि प्रकारेण तदनुकूला अपि जैनदर्शनोपहासतदभिमुखवैमुख्यापादनादिना जिनशासनेनुपचयहेतुत्वेन वस्तुतस्तेषां तदुच्छेदकत्वात् । येषां चापराधेन शशधरकरविशदे भगवच्छासने लोकोपहासविपर्यासादयो दोषाः प्रादुःष्यन्ति तेऽनन्तसंसारिणः सिद्धान्ते प्रतिपादिताः, महापापीयस्त्वात् । 'तत' इत्येतत्पदमग्रिमवृत्तौ सम्भंत्स्यत इति वृत्तद्वयार्थः ॥२५॥
मन:
२१४
साम्प्रतं कुपथवर्त्तिनां विधिपथं प्रत्यैकान्तिकीमात्यन्तिकीं च निरुपमां च मनसो दुष्टतामुपलभ्य तदुत्पादं च इतरजनमनः कारणसामग्र्या असम्भावयँस्तद्विलक्षणां तदुत्पादसामग्रींसम्भावनाद्वारेणाह
Jain Education International
सर्वैरुत्कटकालकूटपटलः सर्वैरपुण्योच्चयैः ॥२६॥
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262