Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 247
________________ श्री सङ्घपट्टकः सङ्क्रान्तत्वात्-भगवन्तं च मुक्तत्वेन दुःखीकर्त्तुमशक्तत्वात् तत्पक्षतयैव प्रवचनस्य बाधां करिष्यति । तथा ‘अन्त्यं' दशमं, चः समुच्चये । 'आश्चर्यम्' अनन्ततमकालभावित्वादद्भुतमसंयतपूजाख्यम् ‘एतत्' इदानीं प्रत्यक्षं 'जिनमतहतये' आर्हतप्रवचनापभ्राजनापादनाय ‘तत्समाः' तैः प्रागुक्तैस्त्रिभिः 'समा' तुल्यबला 'दुष्षमा' दुष्टा-लोकदुःखकारिण्य 'समा' वर्षाणि यस्यां सा तथा, कालचक्रस्य षडरकस्य पञ्चमोऽरकः, यथा प्राक्तनास्त्रयः समुदिता जिनमतं घ्नन्ति तथा चतुर्थी दुष्षमाऽपि । च: पूर्ववत् । इति प्रकरणे । 'एषु' प्रकृतेषु हुण्डा - वसर्पिण्यादिषु ‘एवं' दर्शितप्रकारेण प्रतिपदं सुविहितलाघवासंयतगौरवापादनलक्षणदुष्टकार्यदर्शनाद्दृष्टेष्विव ‘दुष्टेषु' क्रूरेषु 'पुष्टेषु' प्रकर्षकोटिं प्राप्तेषु हुण्डावसर्पिण्यादिषु चतुर्षु 'अनुकलं' प्रतिसमयम् 'अधुना' साम्प्रतं 'दुर्लभो' दुरापो जैनमार्गः, प्रतिपत्तिविघ्नकारिणां हुण्डावसर्पिण्यादीनां दुष्टत्वात्तन्महिम्ना च भूयोलोकस्य भवाभिनन्दित्वात्कतिपयसात्त्विकजनोपादेय इति यावत् 'जैनमार्गः ' प्रतिश्रोतोरूपभगवत्पथ इति वृत्तार्थः ॥३०॥ २२० एवं तावदष्टादशभिर्वृत्तैः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता, सम्प्रति तैरेव धर्मतया प्रतिपादितं गुणिद्वेषधीरिति द्वारं निराकुर्वंस्तेषां गुणिद्वेषं दर्शयन्नाह सम्यग् मार्गपुषः प्रशान्तवपुषः प्रीतोल्लसच्चक्षुषः ॥३१॥ व्याख्या - खलाः सत्साधून् न क्षाम्यन्तीति सम्बन्धः । तत्र 'खलाः ' गुणिनः मत्सरिणः प्रकरणाल्लिङ्गिनः । कृतदुष इति दुषधातुः क्विबन्तोऽत्र दोषपर्यायः । ततश्च 'कृता' विहिता 'दुषो' दोषाः - स्वयमनेकेऽनर्था यैस्ते तथा, तत्स्वभावत्वात् तेषाम् अथवा 'कृता' आरोपिता 'दुषो' दोषा यैस्ते तथा, निर्मलेष्वपि सन्मुनिगुणेषु लोकमध्ये लाघवापादनाय स्वधया विहितदोषारोपा इत्यर्थः । गुणवत्स्वसद्दोषारोपणस्य तेषां कुलव्रतत्वाच्च । 'उद्यत् रुषः निर्निमित्तं सुविहितदर्शनमात्रेणैव प्रकटितललाटतटभ्रुकुट्यादिक्रोधविकाराः ' 'न क्षाम्यन्ति' न सहन्ते, द्विषन्तीत्यर्थः । तत्र देशेऽमीषां प्रचारेण वयं लोकस्यागौरव्या भविष्याम इत्यादि बुद्ध्या मात्सर्यात्तत्रावस्थातुमेव तेषां न ददतीत्यर्थः । सुविहितयतीन् सत्साधुत्वमेवानुगुणविशेषणैस्तेषां भावयति-'सम्यङ्मार्गपुषः ' भगवत्प्रणीतज्ञानादित्रयरूपमोक्षपथस्य भव्यानां शुद्धोपदेशप्रतिबोधद्वारेण विस्तारकाः । एतेन तेषामुत्सूत्रभाषणप्रतिषेधमाह । 'प्रशान्तवपुषः ' बहिरलक्षितरागादिविकारशरीरभाजः, एतेनान्तरमपि प्रबलरागाद्यभावं प्रकाशयति, अन्तस्तद्भावे बहिः सर्वदा प्रशान्तत्वानुपपत्तेः । 'प्रीतोल्लसच्चक्षुषः ' द्विष्टानपि प्रतीत्य प्रसन्नोत्फुल्ललोचनाः, एते बहिः कोपविकारपरिहारमाविष्करोति । ' श्रामण्यधि' प्राणातिपातविरमणादिपञ्चमहाव्रतविभूतिमुपेयुषः-आसेदुषः, एतेन दीक्षामूलं सर्वविरतिसम्पदं दर्शयति । 'स्मयमुषः ' अहङ्कारतिरस्कारिणः, एतेन वाग्मित्वविद्वत्तादावभिमानहेतौ सत्यपि तदभावं प्रकटयति । 'कन्दर्पकक्षप्लुषः' मन्मथशुष्कतृणदाहिनः, एतेन सर्वव्रतमध्ये निरपवादब्रह्मव्रतदार्द्धं द्रढयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262