Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
विभाग-४, लघुवृत्तिः
२२५
आर्हतमेतत्प्रवचनमिति मिथ्याज्ञानेन, नहि लिङ्ग्यादयः तत्त्वत आर्हताः, उक्तन्यायेन तेषां तथात्वस्यापाकरणात् । तथा एतेऽपि जडा: कुवासनावासितान्तःकरणा वस्तुतोऽनार्हतम् अप्येतल्लिङ्गिवर्त्मार्हतमिति विपर्यस्यन्तीति जैनभ्रान्तितया 'कुपथपतितान्' कुमार्गप्रस्थितान् 'नॄन्' मानवान् 'प्रेक्ष्य' अवलोक्य 'तत्प्रमोहापोहाय' कुपथपतितनरप्रागुक्तप्रबल-मिथ्याज्ञानोपनोदाय 'इदम्' एतल्लिङ्गिनां मिथ्यापथस्वरूपं 'किमपि' दिङ्मात्रं 'कृपया' कथममी मूढाः तीर्थ्याभासकदर्थिताः कुपथस्वरूपं विज्ञाय तत्परिहारेण सत्पथमभ्युपेत्य भवोदधि तरिष्यन्तीत्यनुकम्पया 'कल्पितं ' भव्यं प्रतिपिपादयिषया सकलं सङ्कलय्य प्रथमं चेतसि सञ्जितं, ततो 'जल्पितम्' अक्षररचनया हब्धं, तदन्तरेण परस्य पुरतः सम्यक्प्रतिपादितुं दुःशक्यत्वात् । चः समुच्चये । अतः कुपथपङ्कनिमज्जननरनिकरोद्धरणाय मया किञ्चित् जल्पितमिदमिति सुष्ठुक्तं भगवता प्रकरणकारेणेति वृत्तार्थः ॥३४॥
अथ कथमिति दिङ्मात्रमेवाभिहितम् ? यावता निश्शेषदोषप्रकाशनेन हि मिथ्यापथः सुज्ञानः सुत्यजश्च भवतीत्याशङ्क्य तन्निरासद्योतकेन 'यत' इति पदेनान्तरापूर्य तद्दोषामानन्त्येनाभि- धानाशक्यत्वं निदर्शनयाविर्भावयन्नाह-यतः
प्रोद्भूतेऽनन्तकालात्कलिमलनिलये नाम नेपथ्यतोऽर्हन् ॥३५॥
व्याख्या—'यत'इति यस्माद्धेतोरस्मिन् दुरध्वनेऽनन्तकालात्प्रोद्भूते यो दोषसङ्ख्यां विवक्षेदित्यादिसम्बन्धः । तत्र 'प्रोद्भूते' सञ्जाते 'अनन्तकालात्' अनन्तेनानेहसा, अनन्तोत्सर्पिण्यवसर्पिणी परिवर्त्तनेनास्य कुमार्गस्याश्चर्यदशकान्तः पातित्वेन सिद्धान्ते प्रादुर्भाव - प्रतिपादनात् । 'कलिमलनिलये' दुष्षमापातकनिवासे, दुष्षमाकालो हि अपरकालापेक्षया महापापः, ततश्चात्रातीवासमञ्जसप्रवृत्तिदर्शनात् सम्भाव्यते-सकलं दुष्षमामलं दुरध्वेऽस्मिन्निवसति, अथवा 'कलिरेव' कलह एव 'मलं' किट्टं, तस्य निलये । तथा 'नाम' अभिधानं, यथा लिङ्गदर्शनेऽपि लोका वक्तारो भवन्ति अमी जैना अमी सि( श्वेताम्बरभिक्षव इत्यादि, नेपथ्यं-रजोहरणादिवेषः, ततो द्वन्द्वः । ततश्च नामनेपथ्यतः - सुविहितसाधारणात् नामश्रवणात् नैपथ्यदर्शनाच्चार्हन्मार्गं भ्रान्ति- तात्त्विकजिनपथसादृश्यं 'दधानेऽपि' बिभ्राणे, नन्वयं पन्थाः तर्हि जिनमार्ग एव भविष्यतीत्यत आह-अथ चेति प्रतिकूलपक्षान्तरद्योतक - मव्ययम् 'तत्त्वतः ' परमार्थतः ‘तदभिमरे' अर्हन्मार्गघातुके, अयमर्थः यथा 'अभिमरा: ' प्रच्छन्नघातुकाः स्ववेषेण राजादिघातं कर्तुमशक्नुवन्तो वेषपरावर्त्तेन राजादिकं व्यापादयन्ति तथैतेऽपि गृहस्थवेषेणार्हन्मार्गोच्छेदं तथाविधातुमपारयन्तो यतिवेषेण विरुद्धप्ररूपणचेष्टितादिनाऽर्हन्मार्गमुच्छिन्दन्तीति भवन्ति-अभिमराः । ततश्च दुरध्व- दुरध्ववर्त्तिनोरभेदोपचारात् इत्थमुपन्यासः । 'अस्मिन्' प्राग्वणितस्वरूपे 'दुरध्वे' कुमार्गे 'कारुण्यात्' मास्मामी ब्रूडन् जडा अस्मिन्
"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262