Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 243
________________ श्री सङ्घपट्टकः २१६ ' अत इत्य'न्तरा पदं द्वयोरप्यनयोर्वृत्तद्वयोः सम्बन्धयोजनार्थं, तच्चाग्रिमवृत्तस्यादौ योक्ष्यते, इदानीं तेषां वचनमात्रमपि विवेकिनः श्रोतुं न युज्यत इत्याह-अतः - दुर्भेदस्फुरदुग्रकुग्रहतमः स्तोमास्तधी चक्षुषाम् ॥२७॥ व्याख्या-यत एवं नामैते जैनपथं प्रति दुष्टा, अतोऽस्माद्वेतोः, किमित्याह तेषां 'वचांसि’ कुपथप्रतिपादकानि वचनानि 'कुरुते' विधत्ते कर्णो स्वश्रवणे 'सकर्णः ' सश्रोत्रः । अथ सहृदयः ‘कथं' केन प्रकारेण ? न कथञ्चिदित्यर्थः । नहि सकर्णस्य कर्णकटूनि स्पृष्टपरमर्माणि वचनानि खलानां श्रोतुं युक्तानि, किन्तु कर्णयोरेतदेव फलं यत्पीयूषवार्षुका अपहसितमुक्ताः सतां सूक्तयः श्रूयन्ते । अथ च सकर्णस्य प्रेक्षावतः कुपथवर्त्तिनां भाषितानि कर्णे कर्तुं न युज्यन्ते, तच्छ्रवणस्य साधूनामपि मिथ्यात्वनिबन्धत्वेनाभिधानात् । कीदृशामित्याह - ' दुर्भेदो' निबिडत्वात्-दुरुच्छेदः स्फुरत् मनसि सततावस्थिततया जागरूक 'उग्रो' दृढः 'कुग्रहः' चैत्यवासादिप्रतिष्ठापनविषयो मिथ्याऽभिनिवेशः स एव 'तमः स्तोमः ' सत्पथदर्शनान्तर्धायकत्वादन्धतमसः पटलं, तेन 'अस्तं' छन्नं 'धी:' प्रेक्षा, सैव सत्पथप्रकाशकत्वात् चक्षुर्लोचनं येषां ते तथा, तेषां यथा तमः स्तोमेन तिरोहितचक्षुः पन्थानं न पश्यति तथा तेषामपि धी: कुग्रहेण तिरस्कृतत्वात् न सन्मार्गं मृगयते । तथा 'सिद्धान्तद्विषतां ' तद्विपर्यस्तार्थप्ररूपणया तदुच्छेदप्रवृत्तत्वादागमवैरिणां, निरन्तरमहामोहाद्-व्यसनातिरेकाविवेकात् । अहमिति निपातोऽस्मदर्थः ततश्च वयमेव श्रेष्ठाः, नास्मत्समः कश्चिदित्यात्मानं मन्यन्ते ये ते अहम्मानिनस्तेषां विवेकिनां हि गम्भीरत्वेन महति गुणगणे सत्यप्यनुत्सेकात्, मूढानां तु तुच्छतया स्तोकेऽपि तस्मिन् जगतोऽपि तृणतया मननात्, तथा 'स्वयं' आत्मना 'नष्टाः' सुखलोलतयाऽनवरतम्-अन्याय्ये पथि प्रवर्त्तमाना जनपुरतः संस्थापयितुमशक्नुवन्तः 'क्व धर्म: ? क्व सम्प्रति व्रतिन' इत्यादि नास्तिक्यं प्रतिपन्नाः तेषाम्, 'अन्येषाम्' आत्मव्यतिरिक्तानां ‘नाशनकृते' नास्तिकतावादापादननिमित्तं 'बद्धोद्यमानां' यदि हि एतानप्यात्मना कथञ्चित्समीकुर्मस्तदा सुन्दरं भवत्यन्यथैते धार्मिकंमन्याः परुषवाग्भिः अस्मान् सन्तक्षिष्यन्तीत्याशयेन तन्नाशनाय विहितप्रयत्नानां 'सदा' सर्वदा 'मिथ्याचारा' मुक्तिपथविपरीताः समाचारा मिथ्यात्वा-विरति-प्रमाद-कषायदुष्टयोगलक्षणाः, अथवा लोकप्रलम्भनहेतु- कषायेन्द्रियसंयमपुरस्सरं विषयप्रणिहितमनस्कत्वं यदाह - "बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥१॥ ततश्च 'तद्वतां' तद्युक्तानां, अतः तद्भाषितानि सुविहितैः सुश्रावकैश्च न श्रोतव्यानीति तात्पर्यमिति वृत्तार्थः ॥२७॥ " अधुना वितथादिरूपधर्मदेशिनामपि तेषां कुपथस्य तथाविधमुग्धजनोपादेयतां सविषादं प्रतिपादयन्नाह Jain Education International यत् किञ्चित् वितथं यदप्यनुचितं यल्लोकलोकोत्तरो ॥२८॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262