Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 232
________________ २०५ विभाग-४, लघुवृत्तिः द्वारेण श्रुतपथावज्ञां दर्शयन्नाह इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम् ॥१८॥ व्याख्या-'जैनमज्जन' भगद्विम्बस्नानं कर्तृ 'जनयत्येव' सम्पादयत्येव, नतु कदाचित् न जनयत्यपीत्येवकारार्थः । 'अघपङ्के' पापकर्दमे 'निमज्जनं' बुडनं कर्म, तत्कर्तृणामितिशेषः । अथ कथं पुण्याय विधीयमानं जिनस्नात्रं पापपङ्कनिमज्जनाय प्रभवति इति आह-'अविधिना' सिद्धान्तोक्तक्रमविपर्ययेण, प्राक्तनविशेषणान्यथाऽनुपपत्त्या रात्रावित्यर्थः, सिद्धान्ते हि रजन्यां जिनस्नानं रात्रिस्नात्रनिवारणमिति दोषप्रदर्शनाय हेतुगर्भ विशेषणत्रयं मज्जनस्याह-इष्टावाप्ति इत्यादि, इष्टाया-वल्लभाया मज्जनदर्शनमिषेणागताया 'अवाप्तिः' मेलकस्तया तुष्टानिश्शङ्कमत्राद्य नःसुरतलीला प्रवर्त्यतीति धिया मुदिता 'विटा' वेश्यापतयः 'नटा' नाटकाभिनयनकलोपजीविनः ‘भट्टाः' शस्त्रादिकलाजीविनः 'चेटका' मासादिनियमितवृत्तिग्राहिणः, एषां 'पेटकं' समुदायस्तेना कुलं' क्षुभितं, प्रेयसी प्राप्त्या सात्त्विकभावेनाकुलीकृतविटादिजनाकीर्णत्वात् मज्जनमप्युपचारादाकुलं, तथा 'निधुवनविधिनिबद्धदोहदा' मोहनविलसितविहिताभिलाषा: या 'नरनार्यः' पुरुषयोषिताः तासां 'निकरण' निचयेन 'सङ्कलं' व्याप्तम् । नारीणां प्रायो निधुवनार्थमेव मज्जनावलोकनछद्मना तत्र गमनात्, तथाविधव्याजमन्तरेण रात्रौ तत्राप्यागमनासम्भवात्, तथाविधव्याजेन चान्यत्र गन्तुमशक्तत्वात् । अत एव 'रागः' काञ्चित् परस्त्री प्रत्यभिष्वङ्गः 'द्वेषः' स्वस्त्रीमन्येन सह सङ्गच्छमानां पश्यतः तज्जिघांसा 'मत्सरः' कञ्चित्सौभाग्येन कयाचित् सङ्घघटमानमालोकयतः स्वयं च तां कामयमानस्य तत्सौभाग्यव्ययेच्छा 'ईर्ष्या' स्ववल्लभामन्येन सार्द्ध संलपन्तीमीक्षमाणस्य असहिष्णुता, ततो रागश्चेत्यादि द्वन्द्वः, ताभिः 'घनं' सान्द्रं, अत्रापि-रागादिमल्लोकघनत्वात् मज्जनमप्युपचारात् तथा, कामुकलोकमेलके हि जिनगृहेऽपि निशायां रागादय एवोज्जृम्भते, न त्वल्पापि धर्मभावना, तस्मात् दिन एव स्नात्रं धर्मार्थिनां श्रेयो, न रात्राविति । अत्र कैश्चित्-उच्यतेरात्रिस्नात्रे न कश्चिद्दोषः, जिनजन्ममज्जनस्य शक्रेण तथाविधानात्, तथाहि-सर्वेऽपि जिनेन्द्रा रात्रियामद्वयसमय एव जायन्ते, तदैव सुरेन्द्रा मेरुगिरिशिखरं नीत्वा तान् स्नपयन्तीति श्रूयते, तस्य च तथा सदोषत्वे शक्रः तथा न कुर्वीत, तस्मादिन्द्राचरितप्रामाण्यात् निशायामपि स्नपनं विधातव्यमिति चेत् न, शक्रो जिनमज्जनं मेरौ करोतीति मन्यामहे, न तु यामिनीयामद्वितीय इति, मेरुशिखरे सूर्योदयास्तमयाभावेन रात्रिदिनव्यवहाराभावात् । कथं तर्हि प्रकाशाभावे तोन्द्राणां जिनमज्जनादिविधिरिति चेन्न, रत्नशृङ्गस्य निरस्ततमःस्तोममयूषद्योतेन विमलमाणिक्यशिलामरीचिनिचयेन देवमहिम्ना च निरन्तरं भासुरत्वात् । एवं च इन्द्राचरितावष्टम्भेन कथं रात्रिस्नात्रं समर्थ्यमानं सङ्गच्छते ?, श्राद्धानां त्रिसध्यं जिनपूजाया दिनकृत्यत्वेन सिद्धान्तेऽभिधानात् । ततश्च "वित्तिकिरिया विरुद्धा" इत्यादेरयमर्थो-यः प्रभातादिसन्ध्यायां Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262