Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 230
________________ २०३ विभाग-४, लघुवृत्तिः अधुना लिङ्गिनां वैशसं दृष्ट्वाऽपि कदाग्रहात् तत्प्रथितकापथात् अनिवर्तमानान्मूढान् दिङ्मूढत्वादिना विकल्पयन्नाह ___किं दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः ॥१७॥ व्याख्या-किं शब्दाः सर्वेऽपि विकल्पार्थाः, किममी जडा दिङ्मोहः-कुतश्चिददृष्टादिनिमित्तात् प्राच्यादिदिक्षु प्रतीच्यादिभ्रमास्तमिताः प्राप्ताः । अयमर्थः-यथा दिङ्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्त्या ज्ञापिततत्त्वा अपि तदध्यवसायात् न निवर्तन्ते, एवमेतेऽपि विदितकुपथदोषा अपि कुतोऽपि हेतोरनिवर्तमानाः तत्साम्यात्तथोच्यन्ते । किमन्धानयनहीना 'बधिरा' उपहतश्रवणाः, अन्धाश्च बधिराश्चेति द्वन्द्वः, ते किमन्थाः किं बधिरा इत्यर्थः । यथा अन्धा दृग्विकलत्वात्सम्यक्पन्थानम् अजानाना अपथमपि सत्पथतयाऽवगम्य तत्र गच्छन्तो हितैषिणा तत्त्वं ज्ञाप्यमाना अपि स्वग्रहात् न निवर्तन्ते, यथा बधिराः श्रुतिविकलत्वादनाकर्णयन्तो दुष्टवैतालिकादिवचो निन्दार्थः स्तुत्यर्थतयाऽवगम्य तदानादौ प्रवर्तमानास्तत्त्वं बोधिता अपि स्वनिर्बन्धात् न निवर्तन्ते, एवमेतेऽपि सदोषमपि कुपथं स्वगच्छादिग्रहात् निर्दोषितयाऽव्रबुध्य ततोऽनिवर्तमानास्तथोच्यन्ते । एवमुत्तरपदेष्वपि भावनीयम् । तथा कि वशीकरणादिहेतुरनेकद्रव्यमेलकः पादप्रलेपादिर्योगः, ताहगेव नयनाञ्जनादिश्चूर्णं, योगश्च चूर्णं च, ते विद्यते येषामिति विग्रहे तदस्यास्तीतीन् । अयोगचूर्णितः योगचूर्णीकृता, अभूततद्भावे चिः । मस्तकादिषु योगचूर्णक्षेपेण वशीकृता इत्यर्थः । यथा केनापि धूर्तेन क्षिप्तयोगचूर्णाः पुमांस आत्मनोऽहितैषिणमपि तं हितैषितया मन्यमाना केनापि तत्त्वं प्रत्याय्यमाना अपि योगादिप्रभावेण तद्वचनकरणात् न निवर्त्तन्ते, तथैतेऽपि कुपथादिति पूर्ववत् । किं 'दैवेन' प्रतिकूलविधिनोपहताः-सद्बुद्धिभ्रंशं प्रापिताः, ते हि विधिवशेन विपर्यस्तमतित्वात्अकृत्यमपि स्तेयादिकं कृत्यतया मन्वानस्तत्त्वं प्रतिपाद्यमाना अपि दुर्दैवमहिम्ना ततो न निवर्तन्ते, तथैतेऽपि । किं अङ्गेति-पार्श्ववया॑मन्त्रणं, ठकिता-मन्त्रादिप्रयोगेण, स्वायत्तीकृता, यथाहिं केचन केनापि दुर्मात्रिकेण वशीकरणमन्त्रेण तथाकृताः तद्वचनमत्यन्तं समीचीनतयाऽभ्युपगच्छन्तः तत्त्वमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्तन्ते, एवमेतेऽपि । किञ्चेति पक्षान्तरे । 'ग्रहैः' भूतादिभिः ' आवेशिताः' कृतावेशा-विहितशरीराधिष्ठाना इति यावत्, यथा भूताधिष्ठिताः तदावेशात् विधेयापरिज्ञानेना-विधेयमपि पितृप्रहारादिकं विदधानास्ततो निवर्त्यमाना अपि न निवर्तन्ते, एवमेतेऽपि सदसद्विवेकविकलतया कुपथात् न निवर्तन्त इति । अत्र च दिङ्मूढादिबहुविकल्पप्रदर्शमाधुनिकश्राद्धलोकानामत्यन्तानिवर्त्य स्वगच्छग्रहग्रस्तत्वज्ञापनार्थम् । 'कृत्वा' विधाय 'मूनि' पादं 'श्रुतस्य' सिद्धान्तस्य, सिद्धान्तोक्तातिक्रमेण निश्शङ्कतया स्वगुरुलिङ्गिप्रवर्तितासन्मार्गपोषणमेव श्रुतमूद्धिपादकरणं, यतः "नवि किंची" त्याद्यागमशकलस्य इदमुत्तरार्द्धम्-“एसा तेसिं आणा, कज्जे सच्चेण होयव्वं" इति । अस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262