________________
२०३
विभाग-४, लघुवृत्तिः
अधुना लिङ्गिनां वैशसं दृष्ट्वाऽपि कदाग्रहात् तत्प्रथितकापथात् अनिवर्तमानान्मूढान् दिङ्मूढत्वादिना विकल्पयन्नाह
___किं दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः ॥१७॥ व्याख्या-किं शब्दाः सर्वेऽपि विकल्पार्थाः, किममी जडा दिङ्मोहः-कुतश्चिददृष्टादिनिमित्तात् प्राच्यादिदिक्षु प्रतीच्यादिभ्रमास्तमिताः प्राप्ताः । अयमर्थः-यथा दिङ्मूढाः प्राची प्रतीचीत्वेनाध्यवस्यन्तो लोकेन युक्त्या ज्ञापिततत्त्वा अपि तदध्यवसायात् न निवर्तन्ते, एवमेतेऽपि विदितकुपथदोषा अपि कुतोऽपि हेतोरनिवर्तमानाः तत्साम्यात्तथोच्यन्ते । किमन्धानयनहीना 'बधिरा' उपहतश्रवणाः, अन्धाश्च बधिराश्चेति द्वन्द्वः, ते किमन्थाः किं बधिरा इत्यर्थः । यथा अन्धा दृग्विकलत्वात्सम्यक्पन्थानम् अजानाना अपथमपि सत्पथतयाऽवगम्य तत्र गच्छन्तो हितैषिणा तत्त्वं ज्ञाप्यमाना अपि स्वग्रहात् न निवर्तन्ते, यथा बधिराः श्रुतिविकलत्वादनाकर्णयन्तो दुष्टवैतालिकादिवचो निन्दार्थः स्तुत्यर्थतयाऽवगम्य तदानादौ प्रवर्तमानास्तत्त्वं बोधिता अपि स्वनिर्बन्धात् न निवर्तन्ते, एवमेतेऽपि सदोषमपि कुपथं स्वगच्छादिग्रहात् निर्दोषितयाऽव्रबुध्य ततोऽनिवर्तमानास्तथोच्यन्ते । एवमुत्तरपदेष्वपि भावनीयम् । तथा कि वशीकरणादिहेतुरनेकद्रव्यमेलकः पादप्रलेपादिर्योगः, ताहगेव नयनाञ्जनादिश्चूर्णं, योगश्च चूर्णं च, ते विद्यते येषामिति विग्रहे तदस्यास्तीतीन् । अयोगचूर्णितः योगचूर्णीकृता, अभूततद्भावे चिः । मस्तकादिषु योगचूर्णक्षेपेण वशीकृता इत्यर्थः । यथा केनापि धूर्तेन क्षिप्तयोगचूर्णाः पुमांस आत्मनोऽहितैषिणमपि तं हितैषितया मन्यमाना केनापि तत्त्वं प्रत्याय्यमाना अपि योगादिप्रभावेण तद्वचनकरणात् न निवर्त्तन्ते, तथैतेऽपि कुपथादिति पूर्ववत् । किं 'दैवेन' प्रतिकूलविधिनोपहताः-सद्बुद्धिभ्रंशं प्रापिताः, ते हि विधिवशेन विपर्यस्तमतित्वात्अकृत्यमपि स्तेयादिकं कृत्यतया मन्वानस्तत्त्वं प्रतिपाद्यमाना अपि दुर्दैवमहिम्ना ततो न निवर्तन्ते, तथैतेऽपि । किं अङ्गेति-पार्श्ववया॑मन्त्रणं, ठकिता-मन्त्रादिप्रयोगेण, स्वायत्तीकृता, यथाहिं केचन केनापि दुर्मात्रिकेण वशीकरणमन्त्रेण तथाकृताः तद्वचनमत्यन्तं समीचीनतयाऽभ्युपगच्छन्तः तत्त्वमवगमिता अपि मन्त्रमहिम्ना न ततो निवर्तन्ते, एवमेतेऽपि । किञ्चेति पक्षान्तरे । 'ग्रहैः' भूतादिभिः ' आवेशिताः' कृतावेशा-विहितशरीराधिष्ठाना इति यावत्, यथा भूताधिष्ठिताः तदावेशात् विधेयापरिज्ञानेना-विधेयमपि पितृप्रहारादिकं विदधानास्ततो निवर्त्यमाना अपि न निवर्तन्ते, एवमेतेऽपि सदसद्विवेकविकलतया कुपथात् न निवर्तन्त इति । अत्र च दिङ्मूढादिबहुविकल्पप्रदर्शमाधुनिकश्राद्धलोकानामत्यन्तानिवर्त्य स्वगच्छग्रहग्रस्तत्वज्ञापनार्थम् । 'कृत्वा' विधाय 'मूनि' पादं 'श्रुतस्य' सिद्धान्तस्य, सिद्धान्तोक्तातिक्रमेण निश्शङ्कतया स्वगुरुलिङ्गिप्रवर्तितासन्मार्गपोषणमेव श्रुतमूद्धिपादकरणं, यतः "नवि किंची" त्याद्यागमशकलस्य इदमुत्तरार्द्धम्-“एसा तेसिं आणा, कज्जे सच्चेण होयव्वं" इति । अस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org