________________
२०२
श्री सङ्घपट्टकः पित्रादिरूपतया न जन्म लम्भितः । चकाराः सर्वेऽपि समुच्चयार्था अवधारणार्था वा । अथ माभूत् जातस्तथापि वद्धितो भविष्यति, एतावताऽपि बलात् तद्वाहनसिद्धिः अत आह-वद्धितो न चेति, एवमुत्तरपदेष्वप्याशक्य योजना कार्या, वद्धितो-योगक्षेमादिसम्पादनेन शरीरपोषं प्रापितः । न च क्रीतो मूल्यदानेनान्यस्माद् गृहीतः । अधमर्णो न च, उत्तमर्णसकाशात् उद्धारादिप्रयोगेणार्थगृहीताऽधमर्णः । अत्र च यैरिति कर्तृतया सम्बन्धानुपपत्तेर्येषामिति सम्बन्धविवक्षया यच्छब्दो योज्यः, अर्थवशाद्विभक्तिपरिणामः इति न्यायात् । तेन येषां लिङ्गिनामयं जनोऽधमोऽर्थधारयिता न भवति, एवमुत्तरत्रापि यथासम्भवं येषामिति सम्बन्धनीयम् । तथा यैः 'प्राक् 'पूर्वं दृष्टो-ऽवलोकितो न च, अयमर्थः-ये लिङ्गिभिः स्वश्राद्धा दूरदेशवर्तित्वात् कदाचिदपि न दृष्टास्तेऽपि स्वगच्छग्रहग्रस्तत्वादन्यं गुरुं वाचाऽपि न सम्भाषन्ते, तमेव गच्छगुरुं ध्यायन्तः कालमतिवाहयन्ति । 'बान्धवः' पितृव्यभ्रातृव्यादि-. . सम्बन्धभाग् न च येषां न च 'प्रेयान्' वल्लभतरो मैत्र्यादिसम्बन्धेन, न च 'प्रीणितो' दानज्ञानातिशयादिना तोषितः, तैरेव प्रागुक्तसम्बन्धाभावेन लोकवाहनयोग्यताविकलैलिङ्गिभिरेव । "एव इत्यव्ययमिह परिभवे ईषदर्थे वा" । ततश्च महापराभवोऽयं-यत् तादृशैरपि लिङ्गिभिर्लोको वाह्यत इति 'बलात्' हठेन, न तु प्रणयेन 'वाह्यते' वशीकृत्य स्वकार्याणि कार्यते 'अयं' गच्छमहाग्रहगृहीतः प्रत्यक्षोपलभ्यमानो 'जनः' श्राद्धलोको 'नस्योतो' नास्तिक इव 'पशुवत्' वृषभादि इव लिङ्गिभिस्तूक्तसम्बन्धं विनाऽपि यदेवं लोको वाह्यते तन्महापरिभव इति, ननूक्तसम्बन्धं विनाऽपि सद्गुरुत्वेन तेषां नस्तितपशुवल्लोकाः कार्याणि निर्मापयिष्यन्ति, न ह्यनुपकृत-परहितरतानां गुरूणां धर्मदानोपकारस्य प्रत्युपकारः कर्तुं शक्यते, अत आहअत्यधमाधमैरिति, लोकलोकोत्तरगर्हिततमसाध्वीप्रतिसेवादेवद्रव्यभक्षणसुविहितघातशासनोड्डाहप्रभृतिभूरिपापकर्मनिर्माणात् अतिशयेनाधमेभ्योऽपि-हीनजातीयेभ्योऽप्यधीनैः, अतः कथमेषां सद्गुरुतया लोको वाहनीयो भविष्यति, अथैवंविधैः एभिः कथं तर्हि वाहयितुं लोकः पार्यते ? अत आह-'कृतमुनिव्याजैः' प्रपञ्चचतुरतया विश्वासोत्पादनेन मुग्धजनस्य विप्रलिप्सया रचितशान्तरूपमासोपवासकरणादिछद्मभिः । अयमर्थः-एवमसमञ्जसकारिणोऽपि लिङ्गिनो विश्रम्भहेतुतथाविधयतिरूपप्रदर्शनेन सुकरपथप्ररूपणेन च सुखलुब्धान् मुग्धान् प्रलोभ्य यथेच्छं वाह्यन्तीति । अमुमेवार्थं समर्थयितुं प्रकारान्तरेण लोकवाहनप्रतीकारसम्भावनयन् सविषादं वैधये॒णार्थान्तरन्यासमाह-'नीराजकं' विगतमहाज्ञैश्वर्यन्यायरक्षितप्रजादुष्टशिक्षाशिष्टरक्षाविचक्षणभूपम् । किं राजसहितमपि नीराजकमिव नीराजकमुच्यते ? हा इति विषादे, जगद् भुवनं, न ह्यन्यथोदिता गुणभाजि-राजनि बलाल्लोकवाहनं कर्तुं लभ्यते । अयमाशयः-यथा सगुणं राजानं विना तद्देशः प्रतिभूप-मलिम्लुचादिभिः उपद्रूयते एवं सम्प्रति प्रौढसातिशयबहुजनापेक्षणीयगणधरादिपुरुषसिंहविरहाल्लिङ्गिभिरयं श्राद्धजनो वाह्यत इति वृत्तार्थः ॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org