________________
विभाग-४, लघुवृत्तिः
२०१
व्याख्या—' क्षुत्क्षामः' बुभुक्षा क्षीणकुक्षिः गृहस्थावस्थायां, किलेति सम्भावने, कोऽपि - अज्ञातनामा' रङ्को' भिक्षाकोऽत एव कुत्सितोऽनुकम्पितो वा 'शिशुको' बालः, "कुत्सायामनुकम्पने वाकः ' । ततो रङ्कश्चासौ शिशुकश्चेति कर्मधारयः । रङ्कस्य वा कस्यचित् शिशुक इति, प्रव्रज्य - मुण्डीभूय 'चैत्ये' लिङ्गिसम्बन्धिजिनगृहे, क्वचिदनिर्दिष्टनाम्नि 'कृत्वा' विधाय लञ्चादिना कञ्चन कमपि बद्धमूलं बलीयांसं यतिं श्रावकं वा पक्षं सहायं, तादृक्साहाय्यं विना गदृशाम् आचार्यपदलाभसम्भवः । ' अक्षतकलिः ' यत्किञ्चिन्निमित्तमात्रं प्राप्य शिष्यादिभिः सह नित्यमखण्डितकलहः 'प्राप्त' आसादित[ स्सन् ]वान् सन् (?) तदिति विवेकिनां विडम्बनास्पदम् ‘आचार्यकं' आचार्यत्वंसूरिपदमित्यर्थः । 'चित्रम्' अद्भुतमेतत् 'चैत्यगृहे' देवभवने ‘गृहीयति' गृह इवाचरति, यथा निजगृहे गृही शयना-सन-पान-सम्भोग - ताम्बूलभक्षणादिकं निश्शङ्कं समाचरति, तथाऽयमपि । तथा 'निजे' स्वकीये गच्छे 'कुटुम्बीयति' कुटुम्ब इवाचरति, यथाहि गृहस्थः कुटुम्बे पर्वदिनेषु दानानुप्रदानादिषु प्रवर्त्तते, एवं एषोऽपि साधुसाध्व्यादिवर्गे तथा प्रवर्तमान एवमुच्यते । यदि वा आचार्येण हि स्मारणवारणादिपूर्वकं प्रत्युपेक्षणप्रमार्जनशिष्याध्ययनाध्यापनादिनोत्तरोत्तरगुणस्थानाधिरोपणेन स्वगच्छो नित्यमेवेक्षणीयः यथा दोषं च शिक्षणीय इति सिद्धान्तस्थितिः । यथा गृही द्रव्यार्जनगृहकर्मादि-करणदक्षं पुत्रादिकं बहुमन्यते तदन्यं चावमन्यते तथा गच्छमध्याद्विश्रामणादि शुश्रूषाकारिणं सदोषमपि भूषयते तदन्यं च सद्गुणमपि दूषयति, इति गृहिकुटुम्बप्रक्रियावर्त्तित्वात् तथा अभिधीयत इति । तथा 'स्वं' आत्मानं 'शक्रीयति' शक्रमिव - पुरन्दरमिवाचरति, सहि . नीचत्वात् तथाविधचैत्यद्रव्य-शिष्य श्रावकादि-समृद्धिदर्शनात् उन्मदिष्णुः शक्रोऽहमित्यभिमन्यत इति । तथा कतिपयशास्त्रसिद्धान्तज्ञतया 'बालिशीयति' बालिशानिव - मूर्खानिवाचरति 'बुधान्' विचक्षणान्, अहमेव सकलशास्त्रपारगामी, किममी अज्ञा विदन्तीति । तथा अत एव विश्वं ‘वराकीयति' वराकमिव-रङ्कमिवाचरति । अयमाशयः - ईश्वरो हि कश्चित्प्रव्रज्य प्राप्ताचार्यपदः सन् निर्विवेकतया कथञ्चित् चैत्यगृहादिषु गृहीयतीत्यादिकं विदधानोऽपि न तथा लोकानां चित्रीयते, गृहवासेऽपि लोकैस्तथा दर्शनात्, अयं तु रङ्कशिशुर्दीक्षित्वा सूरिपदासादनेन तथा कुर्वाणे जनानामुपहासविषयतया महदाश्चर्यभाजनं, तदहो !! अत्यन्त - माचार्यादिअनुचितचैत्यगृहे गृहीयत्यादिना असच्चेष्टितेन श्रुतपथावज्ञा पापानां मलिनयति प्रवचनमिति वृत्तार्थः ॥१५॥
सम्प्रति पुत्र पित्रादिसम्बन्धं विनाऽपि हठाल्लिङ्गिकृतलोकवाहनोपालम्भद्वारेण श्रुतावज्ञां प्रतिपादयन्नाह
यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च ॥ १६ ॥
व्याख्या-यैः लिङ्गिभिरयं जनो न च जातो, जनेरान्तरर्भावितेनर्थत्वात्-न जनित: -
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org