________________
२००
श्री सङ्घपट्टकः दुरापा । प्रायो जनानामधुना प्रवृत्तिः, पथि प्रतिश्रोतसि जैनचन्द्रे ॥१॥" जातायामपि कथञ्चित् भव्यत्वपरिपाकात् प्रादुर्भूतायामपि सद्धर्मबुद्धौ ‘दुर्लभो' दुरासदः 'शुभगुरुः' यथार्थसिद्धान्तप्ररूपणनिपुणो लोकप्रवाहबहिर्भूतचेतोवृत्तिः कालाद्यपेक्षानुष्ठानपटिष्टः सूरिः । अयमर्थःसद्धर्ममनोरथभावेऽपि सदुपदेष्ट्रगुरुं विना नासावासाद्यते, यदुक्तम्-"धम्मायरिएण विणा, अलहंता सिद्धिसाहणो । वायं । अरयव्व तुंबलग्गा, भमंति संसारचक्कम्मि ॥१॥" स च प्रायेण साम्प्रतमुत्सूत्रभाषकाचार्यप्राचुर्येण तथाविधो नाल्पभाग्यलभ्यः, यदुक्तम्-“यस्यानल्पविकल्पजल्पलहरीयुग्युक्तयः सूक्तयः, सज्जं जर्जरयन्ति संसदि मदं विस्फूर्जतां वादिनाम् । यश्चोत्सूत्रपदं न जातु दिशति व्याख्यासु स प्रथते, सच्चारित्रपवित्रितः शुभगुरुः पुण्यैरगण्यैर्यदि ॥१॥" प्राप्त:समासादितः 'स' उदितगुणगुरुर्गुरुः 'पुण्येन' भवान्तरसम्भृतसुकृतेन 'चेत्' यदि, तथापिशुभगुरुप्राप्तावपि 'कर्तुं' विधातुं 'स्वहितं' आत्मन आयतिसुखावहं कर्म सद्धर्मप्रतिपत्तिलक्षणं. . 'नालं' न समर्था 'अमी' पुण्यप्राप्तशुभगुरवो माः । अथासादितसुगुरवोऽपि ते किमिति न स्वहिताय यतन्ते ? इत्यत आह-'गच्छस्य' स्ववंशाभ्युपेतयतिवर्गस्य 'स्थितिः' युष्मत्कुलादृतोऽयं गच्छोऽत एनं विहाय युष्माभिः नान्यदेशना-श्रवण-सम्यक्त्व-प्रतिपत्यादिकं विधेयमिति गृहिणः प्रतीत्य लिङ्गिकृता व्यवस्था, तया 'व्याहताः' एवंविधशुभगुरुप्राप्तावपि निःसत्त्वतया किमेनां गच्छस्थिति मुञ्चामो न वेतीति कर्त्तव्यतोद्भ्रान्तान्तःकरणाः । एवं गच्छस्थितिव्याहताः तेषां स्वहितकरणासामर्थ्यमुपलभ्य तदुपचिकीर्षुः चेतः समुल्लसत्करुणापारावारः प्रकरणकारः प्राह-कं बूमः' इत्यादि, अतः कं पुरुषविशेषं 'बूमो' भणामः ?, कं 'इह' जगति 'आश्रयेमहि' सेवेमहि ? कं आराध्येम' दानादिनोपचरामः ?, एतेषां भणनादीनां मध्यात्कि 'कुर्महे' विदध्महे ?, यदि कस्यचिन्महात्मनो भणनेन आराधनेन वा गच्छस्थितिं विमुच्य सद्धर्मप्रतिपत्त्या एते स्वहितमाचरन्ति तदैतदपि क्रियते, परोपकृतिदीक्षित्वात्सुपुरुषाणामपि । अथवा यदाहि प्राप्तसुगुरवोऽपि तत्त्वं जानाना अप्येवं गच्छस्थित्या व्यामुह्यन्ति तदां कं ब्रूम इत्यादि, अयमर्थः-अजानानो हि तत्त्वम् स्वयं वा कस्यचिद्भणनाराधनादिना वा तद्बोधयित्वा सद्धर्मे स्थाप्येतापि, एते च मूढा जानन्तोऽपि गच्छस्थितिव्याहता, इति कथं तत्र स्थापयितुं पार्यते ?, तत् सर्वथाऽस्मच्चेतस्यमीषां सन्मार्गव्यवस्थापने न कश्चिदुपायः प्रतिस्फुरति, अतः किं कुर्महे' इति विषादवचनम् । इदमत्रैदम्पर्यंमहासत्त्वसत्त्वोपादेयो ह्ययं सद्धर्मः, एते चातिक्लीबाः, अन्यथा कि विदुषां गच्छस्थितिभिया ?, यदि हि लिङ्गिनः स्वलाभादिहेतुना गच्छस्थिति दर्शयन्ति, तथापि गृहिणा परीक्षापूर्वं धर्मः प्रतिपत्तव्य इति वृत्तार्थः ॥१४॥ इदानीं कस्यचिदयोग्यस्याचार्यपदप्राप्त्या तदसच्चेष्टितप्रदर्शनेन श्रुतावज्ञां ज्ञापयन्नाह
क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित् ॥१५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org