________________
विभाग-४, लघुवृत्तिः
१९९ 'स्वार्थाय' स्वप्रयोजनायस्वशरीरशुश्रूषादिहेतवे, न तु संसारदुःखेभ्यो मोचयितुं, तमेवंविधं 'यदर्चयन्ति' मलयज-घुसृणघनसारादिना वस्त्रादिना च सततं पूजयन्ति । 'अधिक' मिति क्रियाविशेषणम्-अतिरिक्तं 'देवेभ्यो' जिनेभ्योऽपि 'जनाः' श्रावकलोकाः । ननु ते तं पूजयन्तः तादृग्गुणा एव भविष्यन्तीत्यत आह-'विख्यातगुणान्वया अपि' जगति प्रतीतगाम्भीयौदार्यक्षमादिगुणमहाकुला अपि, आस्तां तदितर इत्यपि शब्दार्थः । कस्मादेवमित्यत आह-लग्नोग्रगच्छग्रहा इति हेतुगर्भ विशेषणम् । लग्नः-चेतसि निविष्ट 'उग्रो' दृढो 'गच्छग्रहो' गच्छप्रतिबन्धो येषां ते तथा । भवतु निर्गुणो वा गुणी वाऽयं, किं नोऽनया चिन्तया ? गुरुभिरयमस्माकं प्रदर्शितः, तथा अस्मद्वंश्यैरपि अयं गुरुत्वेनाभ्युपगतः, न च वयं तेभ्योऽपि परीक्षादक्षा, अतः तत्परिपाटीमनुरुध्यमाना नैनं हास्याम इति विहितस्वगच्छगोचरमनोऽभिनिवेशा इत्यर्थः । अथ विदुराणामपि तेषां तादृक्षे निर्बन्धे को हेतुरित्यत आह-'महतो' अतिप्रबलस्य 'मोहस्य' मिथ्याऽभिनिवेशस्यापि तथाविधाभ्यर्चनादिकं 'जृम्भितं' लीलायितं, तथाहि-न गुरूपदर्शितत्वं निर्गुणेऽपि तच्छिष्ये अभ्यर्चनादिनिबन्धनं, यदि हि गुरुः स्वाजन्यादिना निमित्तेन निर्गुणमपि स्वशिष्यं मोहाद् गुरुतया दर्शयति नैतावताऽसौ बहुमानमर्हति, विवकिनां गुणानामेव बहुमानहेतुत्वात्, ते चेत् तत्र न सन्ति तदा किं निष्फलेन गुरूपदर्शितत्वेन ?, तथा स्ववंशजाभ्युपगमस्यापि निर्गुणगुरुबहुमानहेतुत्वे लक्ष्मीप्राप्तावपि नृणां स्वकुलक्रमागतदारिद्र्यादेरपरित्यागप्रसङ्गात् न चैवं लोक उपलभ्यते, यदुक्तम्"सुगुरुप्राप्तौ कुगुरुं, क्रमानुषक्तमपि जहति धीमन्तः । चिरपरिचितमपि नोज्झति, निधिलाभे को नु दौर्गत्यम् ॥१॥" ततश्चैवं स्थिते यन्निर्गुणेऽपि गुरुत्वाभ्युपगमेनाभ्यर्चनाभिसन्धिः समहामोहमहिमा एव इति वृत्तार्थः ॥१३॥ - एतर्हि गच्छमुद्रामुद्रिततया लोकानां सद्धर्माप्रतिपत्त्यादिना श्रुतावज्ञामीक्षमाणाः सविषादमाह
दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणाम् ॥१४॥ व्याख्या-'दुष्प्रापा' दुर्लभा 'सद्धर्मबुद्धि' भगवत्प्रणीतनिरुपचरितधर्मजिघृक्षा । पारमेश्वरस्य धर्मस्य सर्वस्यापि शोभनत्वाविशेषात् किं सदिति विशेषणेनेति चेत् ? न, तस्यापीदानीं कालदोषात् अनुश्रोतः-प्रतिश्रोतोरूपत्वेन द्वैविध्यदर्शनात्, तथाहि-सुखशीलजनैः सिद्धान्तनिरपेक्षस्वच्छन्दमतिप्रवर्तितो बहुजनप्रवृत्तिगोचरः पन्था अनुश्रोतः, श्रुतोक्तसकलयुक्त्युपपन्नः स्वयं भगवत्प्रज्ञापितः प्रेक्षावत्प्रवृत्तिविषयस्तु प्रतिश्रोतः, अतोऽनुश्रोतोऽव्यवच्छेदेन प्रतिश्रोतः सङ्ग्रहीतुं सदिति विशेषणम् । केषां दुष्प्रापा ? 'नृणां' पुंसां 'गुरुकर्मसञ्चयवतां' महाज्ञानावरणादिसम्भारभाजां, सम्प्रति हि गुरुकर्मत्वाज्जीवानां न प्रायेण प्रतिश्रोतसि प्रवृत्तिरुपलभ्यते, यदुक्तम्-"अयोग्यभावाद् गुरुकर्मयोगाल्लोकप्रवाहस्पृहया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org