SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १९८ श्री सङ्घपट्टकः तत्कृत्यचिन्तनं नियोगो ‘यते'मुनेः, श्राद्धानामिदानीं तच्चिन्तानिरवधानता-व्याजेन अस्य चासंस्तुतत्वं चैत्यस्वीकारद्वारनिराकरणे प्रागेव दर्शितम् । तथा 'प्रदेयं' वितरणीयम् अशनादि, अशनं-भोजनमोदनादि, आदिशब्दात् पानकादिग्रहः 'साधुषु' यतिषु । अत्र च सम्प्रदानेऽपि विषयविवक्षया सप्तमी । यथा-तथा येन तेन प्रकारेण-अशुद्धमपीत्यर्थः । 'आरम्मिभिभि' र्गृहस्थैरधुना केवलेन शुद्धेनाशनादिना निर्वाहाभावादिति, छद्मना अशुद्धाशनादिदानप्रवर्तनस्य चासंस्तुतत्वम् औद्देशिकभोजननिरसनावसरे प्रतिपादितम् । तथा 'व्रतं' सर्वविरतिः, आदि- . शब्दाद्देशविरतिसम्यक्त्वारोपणतदन्तिकगमनादिग्रहः, ततश्च 'व्रतादिविधेः' सर्वविरत्यादिअभ्युपगमस्य वारणं' निषेधः ‘सुविहितान्तिके' सन्मुनिसमीपे अगारिणां-श्राद्धानाम्, एतत् देशनापरिणतान्तःकरणा न अस्मत्पावें दीक्षादिकममी गृहीष्यन्ति इति बुद्ध्या, एतस्य चासंस्तुतत्वं तेषां सुविहिताभ्यासे देशनाकर्णन-व्रतादिनिषेधेन यत्याभासोत्सूत्रदेशना असिल.. तालूनविवेकमस्तकतया, तद्धेतुकातिवारित-प्रसरदुर्गतिवज्रापातापादनात्, अन्यदुर्गतिपातनं च यतीनां पापादपि पापीयः । एवं च चिन्त्यमानमाधुनिकमुनीनां सावधाचरितमागमविरुद्धतायाः कथं न जाघटीति ? इति काव्यार्थः ॥१२ ॥८॥ इदानीं श्रुतपथावज्ञाद्वारनिरासमुपक्रमते निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयम् ॥१३॥ व्याख्या-'निर्वाहार्थिनं' केवलोदरभरणप्रयोजनं, न तु संसारनिस्तारकाङ्क्षिणम्, उज्झितं-हीनं 'गुणलवैः' क्षमादिलेशैरपि, प्रव्रज्यायोग्यो हि पुरुषः क्षमादिगुणवान् भवति, तदुक्तम्-"पव्वज्जाए जोग्गा, आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहि विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥ एवं पव्वइए च्चिय, अवगयसंसारनिग्गुणसहावा । तत्तो य तव्विरत्ता, पयणुकसायऽप्पहासा य ॥२॥" अयं तु क्षमादि अंशेनापि त्यक्तः । तथा 'शीलं' स्वभावः सद्वृत्तं च 'अन्वयश्च' कुलं, शीलं चान्वयश्चेति द्वन्द्वः, ततः अज्ञातावविदितौ शीलान्वयौ यस्य स तथा, तम् । परीक्षितशीलकुलस्य हि प्रव्रज्यादानं शास्त्रेऽभिहितम्, अविदितस्वभावो हि कषायदुष्टादिना क्वचिदपराधे गुर्वादिना शिक्षितः तमपि जिघांसति, एवमज्ञातवृत्तोऽपि तस्करादिः प्रव्रजितः तच्छीलत्वात् स्तैन्यादिकं कदाचिदाचरन् गच्छमपि तुलायामारोपयति, तथा अविदितकुलो दीक्षितः कथमपि कर्मोदयात् दीक्षां जिहासुनिरङ्कशतया जहात्येव, कुलीनस्तु कदाचिदकार्यं चिकीर्षुरपि कौलिन्यसततगुरुशिक्षानिबिडनिगडनियमितो न करोत्येव । तथा 'मुण्डीकृतं' दीक्षितं 'गुरुणा' आचार्येण । तादृशिविनेयवंशसमे वंशे जातः स तथाऽकुलोद्भव इत्यर्थः । तथा तेन तत् सजातीयविनेयतुल्यागुणा निःशीलतादयो धर्मा यस्य स तथा । ततः कर्मधारयस्तेन कर्मधारयसमासकरणेन च गुरुशिष्ययोर्वंशगुणात्यन्तसाजात्यं व्यनक्ति, तादृशो हि तादृशमेव मुण्डयते "समानशीलव्यसनेषु सख्य"मिति वचनात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy