________________
विभाग-४, लघुवृत्तिः
चिह्न, राजादीनामेव प्रायेण महर्द्धिकानां तत्रोपवेशनदर्शनात् । 'लोकहासो' जनतोत्प्रासनं, चशब्दो दोषसमुच्चये । 'भिक्षोः यतेः' अहो !! भिक्षोपजीविनो मुण्डिता अपि एवं - विधासनेषूपविशन्तीत्यादि सेर्ष्यजनवचनश्रवणात् 'स्फुटतरो' लोकप्रकटः । इह गब्दिकादी 'सङ्गः' परिग्रहो महाधनत्वेन मूर्च्छाहेतुत्वात् 'सातशीलत्वं' सुखलालसत्वं, तदन्तरेण हंसरूतादिपूर्णेषु सुस्पर्शेषु तथाविधासनेषु यतिअनुचिततया सिद्धान्तनिषिद्धेषूपवेशोऽसम्भवी, उच्चै - रतिशयेन, इति हेतौ । एभ्यो हेतुभ्यो 'न खलु' नैव, खलुरवधारणे मुमुक्षो-मक्षार्थिनो यतेः 'सङ्गतं' युक्तियुक्तं गब्दिकाद्यासनम्, उपभोगतयेति शेषः । लोकप्रसिद्धो रूतादिभृतआसनविशेषो गब्दिका । आदिशब्दात्-मसूरसिंहासनादिपरिग्रहः । एतेन यदपि " नाणाहिओ वरतरं" इत्याद्यागमबलेन प्रवचनप्रभावनाङ्गतया यतीनां गब्दिकासिंहासनादि -आसनोपवेशनसमर्थनं तदपि सुखशीलताविलसितम् । तदेवं यतीनां गब्दिकाद्यासनमनुपादेयम्, असंयमहेतुत्वात्, आधाकर्मिकभोजनवदिति वृत्तार्थः ॥११- ७॥
साम्प्रतं नामोच्चारसावद्याचरिताभिधानपुरस्सरतद्दोषप्रदर्शनेन सावद्याचरितद्वारं निरस्यन्नाह
गृही नियतगच्छभाग् जिनगृहेऽधिकारो यतेः ॥१२॥ (पृथ्वी)
व्याख्या- 'गतस्य' पूर्वं प्रस्थितस्य कस्यचित् 'अनु' पश्चाद् 'गतं' गमनमन्यस्य यत्तद् गतानुगतं, तदेषामस्तीति गतानुगतिकाः । अस्त्यर्थे इक प्रत्ययस्तद्धितः । अयमर्थः- यथा गडरिकाः काञ्चन दिशं प्रतीत्य काञ्चिदेकामविवेकां पुरो गच्छन्तीमवलोक्य तदनुमार्गेण पाश्चात्याः सर्वा अपि तामनुगच्छन्ति, न मार्गस्य सुगम-दुर्गमत्वादिकं मृगयन्ते, तथा जिनप्रवचने सुखलोलतया कञ्चिदेकं प्रवाहमार्गे गच्छन्तं वीक्ष्य तच्छीलतयाऽन्येऽपि तद् न्यायान्यायतामविचारयन्तो ये तमनुगच्छन्ति ते संसारपथाभिनन्दितत्वात् तथोच्यन्ते, तैर्गतानुगतिकैर्लोकप्रवाहपतितैर्यत्याभासैः 'अद' एतत्सकलजनप्रत्यक्षं गृहीनियतगच्छभजनादिकं सावद्याचारितम्, अस्य सावद्याचरितस्य अनेकविधस्यापि समुदायरूपतयैकत्वविवक्षणात् । कथमिति क्षेप' गर्भप्रकारवचनो निपातः " केन कुत्सितप्रकारेण 'असंस्तुतं' यतीनाम् अकृत्यतया अपरिचितम् अपि अनुचितमिति यावत् । प्रस्तुतं प्रारब्धमादृतमित्यर्थः । तदेव नामग्राहमाह-गृही श्रावको 'नियतं' गच्छान्तरपरिहारेण एकतरं गच्छम्' आचार्यम् । प्रतिबद्धयतिसमुदायं 'भजते ' परिगृह्णाति स तथा गृहिणां नियतगच्छभाक्त्वे हि यतीनामिदानीं सर्वं भक्तपानादि निराबाधं निर्वहतीति धिया तादृशगुरूपदेशेन गृही निश्चितनिजगच्छभाग् भवतीति क्रियापदं यथासम्भवमध्याहार्यं गृहीनियतगच्छभाक्त्वञ्च यतीनां तद्गतसकलारम्भानुमत्यादिना पापसत्त्वप्रसङ्गेनासंस्तुतम् । तथा 'जिनगृहे' देवसदने' ऽधिकारः' सकल
Jain Education International
१९७
For Personal & Private Use Only
www.jainelibrary.org