________________
श्री सङ्घट्टकः
यतीनामधुनाऽपि भिक्षादिप्राप्तेरुपपत्तेः, अतः केवल औदरिकत्वापत्त्याऽतीवोपहासपदं विदुषां तदर्थस्तत्स्वीकार इति । योऽपि "जा जस्स ठिई जा जस्स संतिइ पुव्वपुरिसकयमेरो सो तं अइकमंतो अनंतसंसारीड होइ । इत्यागमोपन्यासः सोऽपि न भवदभिमतप्रसाधकः, अन्यर्था - त्वात्, न हि गृहिपरिग्रहसाधकोऽयं प्रकृतागमः, किन्तु गणधरादीनां शिष्यप्रतिशिष्यपरिग्रहविषयः, तथाहि-या काचित् अस्य गणधरशिष्यप्रतिशिष्यादेः स्थितिः - प्रतिक्रमणवन्दनादौ न्यूनाधिकक्षमाश्रमणदानादिलक्षणा सामाचारी, या वा यस्य सन्ततिर्गुरुपारम्पर्येणालोचनादिदानविषयः सम्प्रदायः, या च पूर्वपुरुषकृता गणधरादिप्रवर्त्तिता 'मेरा' मर्यादागच्छव्यवस्था, तामतिक्रामन् अनन्तसंसारिको भवतीति, अत्र हि गणधरशिष्यादीनां स्वस्वगुरुप्रदर्शित-स्थित्याद्यतिक्रमेऽनन्तसंसारितापत्त्या प्रतिनियतगणधरपरिग्रहविषयत्वमवसीयते, श्रावकाणां तु सर्वधार्मिकगच्छेष्वविशेषेण भक्तपानादिभक्त्यभिधानात् । धर्मगुरुषु तद्गच्छे वा विशेषेण दानभक्तिप्रतिपादनं तत्तेषां दुष्प्रतीकारतया, न तु तत् स्वीकारविषयतयेति । एवं गृहिपरिग्रहः सर्वथा यतीणां नोचित इति ५ । तथा 'चैत्यस्य' जिनगृहस्य 'स्वीकरणं' स्वायत्ततापादानं, तत्र । तुरत्रापि प्रथमद्वारादस्य भेदमाह - 'गर्हिततमं ' प्रत्यहं सकलचैत्यकृत्यचिन्ता-. तद्दव्योपभोगादिना लोकेऽप्यतिनिन्दितं 'माठपत्यं' मठनायकत्वं 'स्यात्' भवेत् 'यतेः 'मुनेः । एतदुक्तं भवति-चैत्यस्वीकारे हि यतीनां तच्चिन्तनं सकलमनुष्ठेयं तस्य चारम्भदोषवत्तया द्रव्यस्तवत्वेन यतीनां निवारणात्, एवं च त्वमेव परिभावय मार्गानुसारितया बुद्ध्या यन्मुनेर्देवाधिकारं चिन्तयतः कथं माठपत्यमतिकुत्सितं न प्रसज्यत ? इति । लौकिका अप्याहुः-तथा“यदीच्छेन्नरकं गन्तुं, सपुत्रपशुबान्धवः । देवेष्वधिकृतिं कुर्यात् - गोषु च ब्राह्मणेषु च ॥१॥ “नरकाय मतिस्ते चेत्, पौरोहित्यं समाचर । वर्षं यावत्किमन्येन, माठपत्यं दिनत्रयम् ॥ १॥३॥ इदानीं निगमयति-यस्मात् अर्थे यस्मात् एवमित्युक्तक्रमेण 'व्रतवैरिणी' चारित्र - प्रतिपन्थिनी, इति हेत्वर्थे भिन्नकमः स चाग्रे योक्ष्यते, ममता - अर्थादिषु स्वीकारबुद्धिः, इति यस्माद्वेतोर्न युक्तानोपपन्ना - 'मुक्त्यर्थिनां' निर्वाणाभिलाषिणां मुनिनामिति वृत्तार्थः ॥१- १०॥६॥
साम्प्रतम् असंयमादिदोषप्रदर्शनेनाप्रेक्षिताद्यासनद्वारं निराकर्त्तुमाह
१९६
भवति नियतमत्रासंयमः स्याद्विभूषा ॥ ११ ॥
व्याख्या-' भवति' जायते 'नियतं' सर्वदा 'अत्र' गब्दिकाद्यासनेऽसंयमो जीवरक्षाऽभावः, गब्दिकादेर्नित्यस्यूतत्वादिना प्रत्युपेक्षणादि अभावे विवरादिना तदन्तः प्रविष्टानां तदन्तरे चोत्पन्नानां वा त्रसादीनां तत्रोपवेशनेन विनाशसम्भवात् । भिक्षोरिति वृत्तमध्यस्थं पदं सर्वत्र सम्बध्यते । 'स्यात्' भवेत् 'विभूषा' शोभा, तत्रोपविष्टस्य जगतोऽप्युपरिवर्त्यहमिति विभूषाकार्यभिमानप्रवृत्तेः, विभूषा च यतीनामवश्यं वर्जनीया, यदुक्तं - " विभूसावत्तियं भिक्खू, कम्मं बंधइ च्चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे || १||" इति । 'नृपतेः ' राज्ञः 'ककुदं'
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org