________________
२०४
श्री सङ्घपट्टकः चायमर्थः-एषा भगवतामाज्ञा, यत्कार्ये सत्येन भवितव्यं, कोऽर्थः ? कार्यज्ञानादित्रयं, सत्यं च संयमः, यथा यथा ज्ञानादिकं संयमश्चोत्सर्पस्तथातथा यतिना निर्मायं यतितव्यं, यदाह-"कज्जं नाणाईयं, सच्चं पुण संजमो मुणेयव्वो। जह जह सो होइ थिरो, तह तह कायव्वं कुणसु ॥१॥ दोसा जेण निरुज्झंति, जेण खिज्जंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥२॥" न चागमे सुखलिप्सया किञ्चित्सूत्रितं, किं तर्हि ? यावता विना संयमज्ञानादियात्रा नोत्सर्पति तावन्मात्रस्यैव विहितनिवारणस्य निवारितविधानस्य च भगवद्भिः पुष्टालम्बनेन कादाचित्कतया तत्रानुज्ञानात् । एवं च कथं श्रुतस्याव्यवस्था ? भवदसन्मार्गस्य चौद्देशिकभोजनादेः सर्वस्यापि सार्वदिकतया निस्त्रिंशत्वेन केवलसुखानुभवोद्देशेनैव प्रवृत्तेः । तथा च तस्य महासावद्यत्वेन ज्ञानादियात्राहियमाणत्वात् कथं प्रामाण्यमित्याह-अकलितगुणदोषविभागः, स्वपक्षानुरागो यत्याभासानां यद्भगवन्मतस्याव्यवस्थाऽऽपादनेन स्वमतस्योत्कर्षप्रदर्शनम् । किञ्चतीर्थंकरपूर्वधरादिसातिशयमहापुरुषविरहे सम्प्रति सिद्धान्त एव नः प्रमाणम् । यदुक्तम्-"एवं पि अम्ह सरणं, ताणं चक्खू गई पईवो य । भयवं सिद्धंतो च्चिय अविरुद्धो इह इट्ठदिटेहिं ॥१॥" तस्य च प्रामाण्यानभ्युपगमे तत्प्रणेतुर्भगवतोऽप्यप्रामाण्याभ्युपगमप्रसङ्गेन भवतस्तन्मूलरजोहरणादिवेषपरित्यागापत्तिः, तथा चायं सुखाशया भवत्कल्पितः पन्थाः सर्वोऽपि विरुद्धयते, एवं च लिङ्गिनां श्रुतस्य मूनि पादकरणमनुचितमपि ज्ञात्वा यदमी प्रत्यक्षगोचराः श्रावकजनाः । सुदृढगच्छग्रहग्रन्थयो ‘दृष्टोरुदोषा अपि' साक्षात्कृतगुरुतरपूर्वोदितकुपथापराधा अपि, अदृष्टदोषा हि विवेकिनोऽपि कुपथादपि न निवर्तितुमीशते, किं पुनरन्य इत्यपि शब्दार्थः । 'व्यावृत्तिम्' अपसरणं 'कुपथात्' कुमार्गात् 'जडाः' स्वहिताहितविवेकशून्या: 'न दधते' न चेतसि धारयन्ति न कुर्वन्तीत्यर्थः । न केवलं व्यावृत्तिं स्वयं न दधते 'असूयन्ति च' ईपॅन्ति, सगुणेऽपि दोषमारोपयन्तीति यावत् । चः समुच्चये । एतां कुपथव्यावृत्तिं करोति, एतत् कृत् तस्मै, "क्रुधद्रुहेर्येत्यादिना" चतुर्थी, महासत्त्वाय कस्मैचित् कुपथव्यावृत्तिविधायिने । अत्र चोत्तरवाक्यार्थगतत्वेन प्रयुज्यमानो यच्छब्दस्तच्छब्दोपादानं विनाऽपि तदर्थं गमयति, तेनायमर्थःतेषां हि दृष्टदोषत्वात् कुपथात् तावत्स्वयं व्यावृत्तिः कर्तुं युक्ता, अथ कुतोऽपि हेतोः स्वयं न व्यावर्त्तन्ते तदा तद्व्यावृत्तिकारिणि प्रमोदो विधातुं सङ्गतः, यत् पुनरमी द्वयमध्यादेकमपि कर्तुं नोत्सहन्ते, प्रत्युत कुपथनिवृत्तविधायिनि कस्मिंश्चित् एकस्मिन्नपि क्षुद्रोपद्रवाय यतन्ते, तत्किममी दिङ्मोहमिता इत्यादि योज्यं, तेन एतदुक्तं भवति-दिङ्मूढादयो हि हितैषिणा व्यावृत्तमाना अपि दिङ्मोहत्वादेर्व्यावृत्तिमात्रमेव न कुर्वन्ति, एते तु न केवलं कुपथात् न व्यावर्त्यन्ते यावता कुपथव्यावृत्तिकारिणे असूयन्त्यपीति तेभ्योऽप्यमी कुत्सिता इति वृत्तार्थः ॥१७॥
साम्प्रतं लिङ्गिदेशनया श्राद्धैरविधिकृतस्य जिनमज्जनस्यापि दुर्गतिपातहेतु वा पाटन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org