________________
२०५
विभाग-४, लघुवृत्तिः द्वारेण श्रुतपथावज्ञां दर्शयन्नाह
इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलम् ॥१८॥ व्याख्या-'जैनमज्जन' भगद्विम्बस्नानं कर्तृ 'जनयत्येव' सम्पादयत्येव, नतु कदाचित् न जनयत्यपीत्येवकारार्थः । 'अघपङ्के' पापकर्दमे 'निमज्जनं' बुडनं कर्म, तत्कर्तृणामितिशेषः । अथ कथं पुण्याय विधीयमानं जिनस्नात्रं पापपङ्कनिमज्जनाय प्रभवति इति आह-'अविधिना' सिद्धान्तोक्तक्रमविपर्ययेण, प्राक्तनविशेषणान्यथाऽनुपपत्त्या रात्रावित्यर्थः, सिद्धान्ते हि रजन्यां जिनस्नानं रात्रिस्नात्रनिवारणमिति दोषप्रदर्शनाय हेतुगर्भ विशेषणत्रयं मज्जनस्याह-इष्टावाप्ति इत्यादि, इष्टाया-वल्लभाया मज्जनदर्शनमिषेणागताया 'अवाप्तिः' मेलकस्तया तुष्टानिश्शङ्कमत्राद्य नःसुरतलीला प्रवर्त्यतीति धिया मुदिता 'विटा' वेश्यापतयः 'नटा' नाटकाभिनयनकलोपजीविनः ‘भट्टाः' शस्त्रादिकलाजीविनः 'चेटका' मासादिनियमितवृत्तिग्राहिणः, एषां 'पेटकं' समुदायस्तेना कुलं' क्षुभितं, प्रेयसी प्राप्त्या सात्त्विकभावेनाकुलीकृतविटादिजनाकीर्णत्वात् मज्जनमप्युपचारादाकुलं, तथा 'निधुवनविधिनिबद्धदोहदा' मोहनविलसितविहिताभिलाषा: या 'नरनार्यः' पुरुषयोषिताः तासां 'निकरण' निचयेन 'सङ्कलं' व्याप्तम् । नारीणां प्रायो निधुवनार्थमेव मज्जनावलोकनछद्मना तत्र गमनात्, तथाविधव्याजमन्तरेण रात्रौ तत्राप्यागमनासम्भवात्, तथाविधव्याजेन चान्यत्र गन्तुमशक्तत्वात् । अत एव 'रागः' काञ्चित् परस्त्री प्रत्यभिष्वङ्गः 'द्वेषः' स्वस्त्रीमन्येन सह सङ्गच्छमानां पश्यतः तज्जिघांसा 'मत्सरः' कञ्चित्सौभाग्येन कयाचित् सङ्घघटमानमालोकयतः स्वयं च तां कामयमानस्य तत्सौभाग्यव्ययेच्छा 'ईर्ष्या' स्ववल्लभामन्येन सार्द्ध संलपन्तीमीक्षमाणस्य असहिष्णुता, ततो रागश्चेत्यादि द्वन्द्वः, ताभिः 'घनं' सान्द्रं, अत्रापि-रागादिमल्लोकघनत्वात् मज्जनमप्युपचारात् तथा, कामुकलोकमेलके हि जिनगृहेऽपि निशायां रागादय एवोज्जृम्भते, न त्वल्पापि धर्मभावना, तस्मात् दिन एव स्नात्रं धर्मार्थिनां श्रेयो, न रात्राविति । अत्र कैश्चित्-उच्यतेरात्रिस्नात्रे न कश्चिद्दोषः, जिनजन्ममज्जनस्य शक्रेण तथाविधानात्, तथाहि-सर्वेऽपि जिनेन्द्रा रात्रियामद्वयसमय एव जायन्ते, तदैव सुरेन्द्रा मेरुगिरिशिखरं नीत्वा तान् स्नपयन्तीति श्रूयते, तस्य च तथा सदोषत्वे शक्रः तथा न कुर्वीत, तस्मादिन्द्राचरितप्रामाण्यात् निशायामपि स्नपनं विधातव्यमिति चेत् न, शक्रो जिनमज्जनं मेरौ करोतीति मन्यामहे, न तु यामिनीयामद्वितीय इति, मेरुशिखरे सूर्योदयास्तमयाभावेन रात्रिदिनव्यवहाराभावात् । कथं तर्हि प्रकाशाभावे तोन्द्राणां जिनमज्जनादिविधिरिति चेन्न, रत्नशृङ्गस्य निरस्ततमःस्तोममयूषद्योतेन विमलमाणिक्यशिलामरीचिनिचयेन देवमहिम्ना च निरन्तरं भासुरत्वात् । एवं च इन्द्राचरितावष्टम्भेन कथं रात्रिस्नात्रं समर्थ्यमानं सङ्गच्छते ?, श्राद्धानां त्रिसध्यं जिनपूजाया दिनकृत्यत्वेन सिद्धान्तेऽभिधानात् । ततश्च "वित्तिकिरिया विरुद्धा" इत्यादेरयमर्थो-यः प्रभातादिसन्ध्यायां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org