________________
२०६
श्री सङ्घपट्टकः वृत्तिनिमित्तवाणिज्यादिव्यग्रत्वात् कथञ्चित् देवपूजायां न व्याप्रियते स दिनमध्ये एव मुहूर्तादिना सन्ध्यातिक्रमेऽप्यपवादतः पूजां करोतु, न पुनरस्यायमर्थो, यदुतापवादेन रात्रौ करोति, दिनकृत्यताहानिप्रसङ्गात् प्रभूतायतनाकरणादि दोषप्राप्तेश्चेति । एतेन रात्रौ जिनसदने बलि-दान-नन्दि-प्रतिष्ठादि-विधानमपि निरस्तं, प्रायो मज्जनेन समानयोगक्षेमत्वात्, निशिस्नात्रोक्तदोषाणां बलिदानादावपि सम्भवात् । तथाहि-दीक्षाद्यर्थं नन्दिकरणं, दीक्षा च स्थूलसूक्ष्मप्राणातिपातविरतिलक्षणा, रात्रौ च प्रकाशनिमित्तज्वलितभूरिदीपरूपतेजस्कायिकजीवानां स्वयं शरीरस्पर्शनेन व्यापादनात्, प्रदीपेषु च सततं निपततां पतङ्गादिजन्तूनां व्यापत्तिभावात् । कीदृशी दातृगृहीत्रोः सर्वविरतिः ? । शिष्यस्य दीक्षाप्रथमक्षणादाराभ्य प्राणातिपातप्रवृत्तेः, दीक्षादातुश्च दोषसङ्ख्याऽपि वक्तुं न शक्यते, तच्छिक्षया तावज्जन्तुजातव्याघातप्रवृत्तेः । तदहो !! मूढा ! एतावतां पापकलापमात्मन्यारोपयन्तो भाविभवभ्रमणात् मनागपि न बिभ्यन्तीति । किञ्च दिवसे दीक्षादिलग्नबलाभावे रात्रौ च तद्भावे विहारक्रमवदपवादेन कदाचिद्रात्रावपि नन्दि विदधतां को दोषः ? इति चेन्न, विहारक्रमस्यापवादेन रात्रावपि प्रतिपादनात् तत्र कदाचित् तत्करणं युक्तं, नन्दिविधानस्य चापवादेनाप्यागमे रात्रावनभिधानात् कथं तद्विधानं तत्र सङ्गच्छेत् ? । किञ्चापवादिककृत्यानां रात्रिविहारक्रमादीनां सर्वेषां प्रायश्चित्तमभिहितमागमे, न च निशि नन्दिविधानस्य ततोऽवगम्यते-नास्त्यपवादेनापि रजन्यां : नन्दिविधानम्, एवं निशि जिनप्रतिमा प्रतिष्ठायामपि सकलमेतद् दूषणजातं विविच्य वाच्यं, तदुक्तम्-"प्रादुषद्दोषपोषायां, दोषायां साधयन्ति ये। जिनबिम्बप्रतिष्ठां ते, प्रतिष्ठां स्वस्य दुर्गतौ ॥१॥" तदेवं दोषकलापदर्शनाद्रात्रौ मज्जनादिविधायिनां पापपङ्के निमज्जनं भवतीति व्यवस्थितम् । इदं वक्ष्यमाणं च वृत्तद्वयं द्विपदीच्छन्द इति वृत्तार्थः ॥१८॥ साम्प्रतं प्रसङ्गेन मज्जनात् अन्यस्यापि धर्मकृत्यस्य संसारनिमित्तत्त्वं प्रकटयन्नाह
__जिनमतविमुखविहितमहिताय न मज्जनमेव केवलम् ॥१९॥ व्याख्या-'जिनमतविमुखविहितं' भगवदागमवैपरीत्यनिर्मितं 'मज्जनमेव' स्नपनमेव 'केवलं' एकम् 'अहिताय' संसाराय न भवति-स्तानमेवैकम् अविधिविहितं संसारकारणमिति नास्ति, किन्तु किं तर्हि ? तप्यते धातवोऽशुभकर्माणि चानेनेति तपोऽनशनादि, तथा 'चरित्रं' सर्वविरतिः 'दानं' पात्रेषु न्यायार्जितशुद्धभक्तादिवितरणम्, आदिशब्दात् विनयवैय्यावृत्त्यादिग्रहः, ततस्तपश्चेत्यादि द्वन्द्वगर्भो बहुव्रीहिः । ततश्चैवमाद्यप्यनुष्ठानं जिनमतवैपरीत्यविहितं, न केवलं मज्जनमित्यपि शब्दार्थः । न खलु' नैव 'जनयति' सम्पादयति 'शिवफलं' मुक्तिरूपं फलं । अथ कस्मादेवं ? इत्यत आहू-'हि' यस्मात् 'अविधिविधिक्रमात्' सिद्धान्तानुक्ततदुक्तप्रकारेण 'जिनाज्ञाऽपि' भगवच्छासनोक्तानुष्ठानमपि 'अशुभशुभाय' अश्रेयःश्रेयसे, द्वन्द्वैकवद्भावादत्रैकवचनम् । 'जायते' सम्पद्यते, यथासंख्येनात्र योजना,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org