________________
विभाग-४, लघुवृत्तिः
तेनायमर्थ:-किल जिनपूजा - तपः प्रभृतिप्रवचनप्रसिद्धं जिनाज्ञा, भगवता निःश्रेयससाधनत्वेनाज्ञापितत्वात् । तथा च तदप्यविधिक्रमेण - "काले सुइभूएणं" इत्याद्युक्तविधिविपर्ययेण क्रियमाणमशुभाय भवति, विधिक्रमेण तु सन्ध्यात्रयाराधनशुचिभूतत्वादिना तदेव शुभाय । विध्यविधिभ्यां भगवदाज्ञाऽऽराधना - नाराधनयोरेव मोक्षसंसारफलत्वात् । किं पुनरित्यादि वाक्यं काक्वायोज्यम् । अत्र च किमित्याक्षेपे, पुनरति वाक्यभेदे, इति प्रकरणे । तेनैषा प्रकृतारात्रिमज्जनादिका क्रिया 'विडम्बनैव' प्रवचनापभ्राजनैव-लोकोपहासास्पदं, न त्वेषा जिनाज्ञाऽपीत्येवकारार्थः । ' अहितहेतुः ' संसारनिबन्धनं 'न प्रतायते' न विस्तार्यते, किन्तु अवहितहेतुत्वेन प्रख्याप्यते एव, इदमुक्तं भवति - जिनाज्ञाऽपि तपःप्रभृतिका आपवादिकाधाकर्मभोजनादिका वा यदा अविधिना विधीयमाना भवफला तदा किं पुनरस्या विडम्बनाया:सर्वथा जिनवचनबाह्याया रात्रिमज्जनादिकाया वक्तव्यम् ? सुतरामेषा भवहेतुरेव, अतोऽहितहेतुत्वेन प्रख्याप्यते येन सा तथा प्रख्याप्यमाना कस्यापि पुण्यात्मनः स्वतो निवर्त्तनाय प्रभवतीति वृत्तार्थः ॥१९॥
२०७
इदानीं निर्वाणकारणमपि निसर्गेण जिनगृहादिनिर्मापणं गृहिणः कुमतादिनिर्देशलेशस्याप्यनुबन्धात् भवहेतवे भवतीत्येतत् प्रदर्शनायाह
जिनगृह - जिनबिम्ब - जिनपूजन जिनयात्रादि विधिकृतम् ॥२०॥
व्याख्या-'
- जिनगृहं' जिनभवनं 'जिनबिम्बं ' भागवती प्रतिमा 'जिनपूजनं' भगवत् - प्रतिमायाः कुसुमादिभिः अभ्यर्चनं 'जिनयात्रा' जिनान् प्रतीत्याष्टाह्निकाकल्याणकरथनिष्क्रमणादि महामहकरणं, ततो जिनगृहं चेत्यादिद्वन्द्वगर्भो बहुव्रीहिः, एवमुत्तरपदयोरपि । आदिग्रहणात् जिनवन्दनप्रतिष्ठादिग्रहः । इह चासकृज्जिनपदोपादानं भगवतोऽत्यन्तभक्तिगोचरतया तदुद्देशेन विधिना जिनगृहनिर्माणस्य परममुक्त्यङ्गत्वख्यापनार्थम्, एवमादिधर्मकर्मजातमिति शेषः । 'विधिना' श्रुतोक्तेन प्रकारेण 'कृतं' निर्मापितम् । तथाहिजिनगृहनिर्मापणविधिः शुद्धभूमिपरिग्रहादिकः, जिनबिम्बे विधिना निर्मापिते प्रतिष्ठापिते चायं पूजनविधिः- सन्ध्यात्रये विधिना शुचि भूत्वा भगवत् बिम्बं श्रद्धावान् पुष्पादिभिरर्चयति, तथा तत्र च कल्याणकादिदिनेषु यात्रा प्रस्तूयते, तत्र चायं विधिः यथाशक्ति दान- तपश्चरणशरीरविभूषा - जिनगुणगान - वादित्रादिकरणम् । तथा 'दानं' अभयदानादि 'तपो' ऽनशनादि 'व्रतानि' स्थूलप्राणातिपातविरमणादीनि । आदिशब्दात् - विचित्राभिग्रहः । ततो घनं चेत्यादि द्वन्द्वः । तथा गुरोः धर्माचार्यस्य भक्तिः शश्रूषा आगच्छदभिमुखगमनोत्थिताऽभ्युत्थानगच्छदनुगमन-विश्रामणा-विशुद्ध भक्तपानादिदानचित्तानुरञ्जनादिकाः । 'श्रुतपठनं ' सिद्धान्ताध्ययनम् । आदिग्रहाणत् तदर्थश्रवणमननादिग्रहः । एतच्च विवेकिना विशेषेण विधेयम्, एतत्पुरस्सरत्वात्सकलप्रागुक्तजिनगृहादिकरणविधिप्रतिपत्तेः । यदाह - "अन्नेसि
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org