Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 235
________________ २०८ श्री सङ्घपट्टकः पवित्तीए, निबंधणं होइ विहिसमारंभो। सो सुत्ताउ नज्जइ, तो तं पढम पढेयव्वं ॥१॥ सुत्ता अत्थे जत्तो, अहिगयरो नवरि होइ कायव्वो । इत्तो उभयविसुद्धत्ति, सुयगं केवलं सुत्तमिति ॥२॥" एतदन्तरेण समस्तस्यापि क्रियाकलापस्यान्धमूक साम्यापत्तेः ततो गुरुभक्तिश्चेत्यादि द्वन्द्वः, चः समुच्चये । आदृतं सबहुमानं, न त्ववहेलया । एतत्सकलं जिनगृहादि-दानादिगुरुभक्त्याद्यनुष्ठानं, किमित्याह-'स्याद्' भवेत् इह प्रवचने, अनभिमतकारीति सम्बन्धः । कस्मात् अत आह-कुमतेत्यादि, तत्र 'कुमतं' परितिर्थिसमयाभिहितं क्रियाकदम्बकं श्राद्धचन्द्रसूर्योपरागसङ्क्रान्ति-माघमाला-प्रपादानादि, कुगुरुरुत्सूत्रदेशनाकरणप्रवणः सन्मार्गदुषणपरायणो धार्मिकजनक्षुद्रोपद्रवतत्परः सुखलोलतया यतिक्रियाविकलो जनविप्रतिलिप्सया दुष्करक्रियानिष्ठोऽपि वा लाभपूजाख्यातिकामः कुत्सित आचार्यः, कुग्राहः-सिद्धान्तबाह्यस्वमतिकल्पितस्वाभ्युपेतासत्पदार्थसमर्थनानुष्ठानगोचरो मानसोऽभिनिवेशः, कुबोधो- . . ऽन्यथा व्यवस्थितस्य भगवदागमार्थस्याज्ञानाद्विशिष्टसम्प्रदायाभावाद्वाऽन्यथा परिच्छेदः कुदेशना-श्रुतोक्तार्थानां संशयादज्ञानात् मिथ्याऽभिनिवेशाद्वा वैपरीत्येन प्ररूपणम्, अत्र च कुगुरुग्रहणेन कुदेशनालाभेऽपि पृथगुपादानं तस्याः सकलेतरदोषेभ्यो महत्त्वज्ञापनार्थं, ततः कुमतं चेत्यादि द्वन्द्वः, तासामंशो-लेशस्तस्मात्, आस्तां कुमतादिभ्य समग्रेभ्यः, किन्तु तेषामंशमात्रादपि 'स्फुटं' व्यक्तं निश्चितमिति यावत्, अनभिमतकारि-अनिष्टविधायि दुरन्तसंसारकान्तारनिरन्तरपर्यटनकारणमित्यर्थः । ननु कथमेतानि गरीयांसि धर्मकृत्यानि लेशमात्रेणापि प्रतिरुद्ध्यन्ते ? न हि मृणालतन्तुना दन्तिनः प्रतिबध्धुं पार्यन्त इत्याशङ्ख्य विवक्षितार्थप्रसाधनानुगुणमुपमानमाह-वरभोजनमिव' स्निग्ध-मधुरसुस्वादजेमनमिव, इवेत्युपमानद्योतकमव्ययम् । 'विषलवनिवेशतो' गरलकणप्रक्षेपात् । अयमर्थः-ईदृशी हि विषकणस्यापि पारिणामिका शक्तिर्यया हृद्यमपि बह्वपि भोजनं क्षणादेव सकलमसौ स्वात्मभावेन परिणमयति, तथा परिणमितं च तत् भुज्यमानमपायाय जायते यथा, तथा कुमतादिदेशस्यापि मिथ्यारूपत्वात्-एवंविधो महिमा, येन महियोऽपि जिनगृहविधानादिधर्मकर्मस्वस्वरूपतया भावयति, तद्भक्ति च तद्विधीयमानमपि संसाराय सम्पद्यत इति, अत एव सम्यक्त्वशुद्धिहेतवे कर्त्तव्यतया अभिहितान्यप्येतान्यसमञ्जसवृत्त्या क्रियमाणानि तदभावापादकत्वेन श्रूयन्ते, यदाहुः श्रीहरिभद्रसूरयः-"पाएणणंतदेउलजिणपडिमाकारिया उ जीवहिं। असंजसवित्तीए, न य सिद्धो दंसणलवो वि ॥१॥" तदेवं विषलवसंवलितभोजनोपमानेन जिनगृहादिविधानस्य कुमतादिलेशसंस्पर्शिनोऽप्यनभिमतकारित्वं व्यवस्थितमिति वृत्तार्थः ॥२०॥ अधुना मुग्धजनाकर्षणनिमित्तजिनबिम्बप्रदर्शनादिद्वारेण लिङ्गिनां लोकप्रतारणं दर्शयन्नाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262