Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
२१०
श्री सङ्घपट्टकः त्यन्तहेयता ज्ञापनार्थम्, आगमेऽतिहेयस्याधाकर्मादेः गोमांसादिनैवोपमानोपमेयदर्शनादिति युक्तमुक्तं 'बडिशपिशितवद्-'बिम्बमादीजैन मिति । साम्प्रतं प्रकृतमुपक्रम्यते-तथा 'तन्नाम्ना' जिननामधेयेन-भगवद्भाण्डागारनिमित्तमेते निर्माप्यन्ते, नास्मन्निमित्तमिति व्यपदेशेन 'रम्यरूपान्' रुचिररचनया दृष्टबन्धनया च मनोहराकारान् 'अपवरका' अन्तर्गृहा 'मठा' निलयविशेषास्ततो द्वन्द्वस्तान् ‘स्वेष्टसिद्ध्यै' वयमेवाजन्मसुखेन वत्स्याम इत्यात्माभिमतनिष्पत्तये 'विधाप्य' कारयित्वा, ते हि शठाः स्वनिमित्तमपवरकादीन् निष्पादयन्ति मुग्धाश्च जानते-जिननिमित्तमित्यहो !! एतेषां जिनभक्तिरिति, तेषु ते रज्यन्ते तैश्चोपजीव्यन्त इति वञ्चनप्रकारः । तथा 'यात्राः' पित्राद्युद्देशेन भवद्भिरत्राष्टाह्निका कर्तव्या, अमुष्मिन्वा मासादावमुना श्राद्धेन श्रीमत्यत्र देवगृहे यात्राः कृतास्तस्माद्भवद्भिरपि तथैव विधेया । तथा 'स्नात्रं' श्राद्धपक्षादिषु पित्रादेः श्रेयसे युष्माभिरत्र स्नात्रं कर्तव्यमित्युपदेश- . व्याजेन यात्रास्नात्रविधापनं, ततो द्वन्द्वः । आदिशब्दाच्छ्रुतानुक्तपर्वग्रहः । तदादय 'उपाया' मुग्धविप्रलम्भनप्रकारास्तैः । ननु कथमेवंविधयात्रादीनां मुग्धजनप्रतारकत्वं ? यावता यथातथा भगवत्पूजायाः कुशलानुबन्धहेतुत्वादिति चेन्न, एवं हि लोकोदाहरणप्रामाण्येन भगवत्पूजाविधाने भगवतोऽप्रामाण्यो(प)पादनेन मिथ्यात्वादिप्रसङ्गात्, यदुक्तम्-"जिट्ठम्मि विज्ज-माणे, उचिए अणुजिट्टपूअणमजुत्तं । लोगाहरण(च) व तहा, पयडे भगवंतवयणम्मि ॥१॥ लोगो गुरुतरगो खलु, एवं सइ भगवओवि इट्ठोत्ति । मिच्छत्तमो य एवं एसा आसायणा परमा ॥२॥" तथा नमसितकं' उपयाचितकं-भवतामिदानीमीदृगुपद्रवः समुधुपस्थितः तस्माद्भवद्भिस्तन्निवृत्तये जिनगोत्रदेवताऽम्बिकादिशासनसुराणामियद्रव्यमेषणीयमिति गृहिणः प्रतिजिनााद्देशेन वित्तव्ययविधापनमिति यावत् 'निशाजागर' उपसर्गवर्गोपशमनाय प्रवचनदेवतादीनां पुरतो बल्यादिस्थापन-गीत-वाद्यलास्यपुरस्सरं सकलरात्रिजागरणं । ततो द्वन्द्वः । आदिग्रहणादन्येषामपि शान्तिकपौष्टिकानां सङ्ग्रहः । तदादीनि 'छलानि' छयानिलोकोपजीवनार्थमागमानभिहितत्वेन विलोभननिमित्तानीति यावत्, तैः करणभूतैः, चशब्द उक्तवचनप्रकारसमुच्चये । श्रद्धालुविवेकविकलधर्मेच्छावान्, विवेकिनो हि प्रायेण नैवंविधैः प्रतारयितुं पार्यन्ते । 'नामतः' संज्ञामात्रेण जैनै-जिनदेवतैर्न तु क्रियया, भ्रष्टाचारत्वात्तेषां, तेन लिङ्गिभिरित्यर्थः । शठैः' प्रपञ्चप्रपञ्चनचतुरैः, छलित इवेत्युपमानं, यथा 'छलितः' शाकिन्यादिभिर्वशीकृतः तथाविधचैतन्यराहित्यात्सुखेन वञ्चयितुं शक्यते, तथाऽयं-एष 'जनः' श्राद्धलोको हा !!! इति । विषादे 'वञ्च्यते' विप्रलभ्यते, महानयम् अस्मच्चेतसि विषादोयद्धर्मार्थी लोको धूर्तेः स्वार्थ वञ्चयित्वा दुर्गतौ पात्यत इति वृत्तार्थः ॥२१॥
इदानीम् अत्युच्छृङ्खलानामपि नामजैनानां दशमाश्चर्यानुभावात् अभ्युदयं स्वविषादपुरस्सरं दर्शयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262