Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
विभाग-४, लघुवृत्तिः
२०९ __ आक्रष्टुं मुग्धमीनान् बिडिशपिशितवत् बिम्बमादर्श्य जैनम् ॥२१॥ व्याख्या-आक्रुष्टुं मुग्धमीनान् जैनविम्बमादय नाम जैनैर्जनोऽयं वञ्च्यते इति सम्बन्धः । तत्राक्रष्ठमिति स्ववशमानेतुं, न तु पुण्यमर्जयितुं, मुग्धा-हेयोपादेयविचारशून्यतया धर्मश्रद्धालवः, त एव जडप्रकृतितया स्वहिताहितपरिज्ञानवैकल्यसाधात् मीना मत्स्यास्तान् 'बिम्बं' प्रतिमा 'जैनं' भागवन्तं 'आदर्य' दर्शयित्वा, यथा-भो भव्याः ! ऐहिकामुष्मिकसुखविधानदक्षमिदमर्हद्विम्बं, ततः पूजयत भक्त्येति सामान्यतोऽथवा भवत्पूर्वजैः एतद्विम्बमार्हतं निर्मापितं, ते चेदमेव प्रत्यहं नियमेनापूपूजन्, ततो भवद्भिरपीदमेव विशेषण पूजनीयं, तथाऽर्हद्बिम्बनिर्मापणमेव सम्प्रति भवजलधिनिपतज्जन्तुतारणायालमिति भवद्भिः स्वश्रेयसे नवीनभगवद्विम्बं स्वनाम्ना विधापनीयमिति विशेषतो मुग्धजनपुरतः प्रज्ञाप्येत्यर्थः । किल यतिना देशनाद्वारेण जिनबिम्बार्चनादेहिपुरः फलमुपवर्णनीयं, तत्फललिप्सया तदनुसारेण गृहिणः स्वयमेव तत्करणादौ प्रवृत्तेः, न तु साक्षात् तन्निर्माणनिर्मापणयोरुपदेशो दातव्यः तदुपदेशस्य सावद्यतया यतेनिषेधात्, लिङ्गिनस्तु कथमाजन्मामी गृहिणोऽस्माकं वश्या भविष्यन्तीति धिया ऐहिकमेव स्वार्थ केवलं चिन्तयन्तो धूर्ततया पूर्वपुरुषसम्बन्धितादिक्रमेण मुग्धेभ्यो जिनबिम्बमादर्शयन्ति, ते तु मुग्धत्वात् तदाशयमनवबुध्यमाना ऋजुश्रद्धालुतापूर्ववंश्यस्नेह-स्वकारित-ममतादिना तत्र जिनबम्बादौ नित्यं द्रव्यं व्ययन्ते, लिङ्गिनश्च तदुपयुञ्जते स्वेच्छयेति भवति तदाकर्षणार्थं लिङ्गिनां जिनबिम्बदर्शनमिति । किमिवेत्याह-'बिडिशं' मत्स्यवेधनं, तदने मत्स्यविलोभनाय स्थापितं 'पिशितं' मांसं, तद्वत् । वतिरुपमाने, तदिव । यथा धीवरा मत्स्याकर्षणाय बिडिशाग्रे पिशितं स्थापयन्ति, ते च तल्लोलतया स्वापायमागामिनमविभावयन्तो गम्भीरादपि नीराशयान्निर्गत्य मुग्धत्वात् तत्र विलीयमाना बध्यन्ते, एवं लिङ्गिनोऽपि मुग्धजनानां स्ववश्यताविधानायोक्तविधिना भगवद्विम्बमादर्शयन्ति, न तु संसारनिस्तरणाय । ननु कथं जिनबिम्बबिडिशपिशितयोरुपमानोपमेयभावः ? समानगुणयोरेवोभयोरलङ्कार ग्रन्थेषूपमानोपमेयभावप्रतिपादनात्, महाकविकाव्येषु तथैव दर्शनात्, अत्र तु जिनबिम्बस्य सकलत्रिभुवनातिशायिनः सर्वोपमातीतत्वात्-अत्युत्तमवस्तूपमायोग्यत्वाद्वा, बिडिशपिशितस्य च सर्वात्यन्तहीनत्वात्कथं तेनोपमा ?, उत्तममात्रस्यापि हीनमात्रेणाप्युपमानोपमेयभावो न युक्तः, किम्पुनः सर्वोत्तमस्यात्यन्ताधमेन ?, एवं च जिनबिम्बस्य बिडिशपिशितेनोपमानोपमेयभावप्रदर्शने कवेर्महापापप्रसङ्गः, तत्सर्वथा नायमुपमानोपमेयभावो घटां प्राञ्चतीति त(न्वे)न्न । लोकाकर्षणमेव स्वनिर्वाहहेतुर्लिङ्गिपरिगृहीतस्य जिनबिम्बस्योत्तमस्याप्यसदुपाधिवशात् । दुष्परिवारपरिवृतराजादेरिव वाञ्छितफलासाधकत्वात् हिनताऽध्यारोपेणोपमानेन साम्यापादनादुपमानोपमेयभावोपपत्तेः । अत्र चापवित्रेण बिडिशपिशितेनोपमानं लिङ्गिपरिगृहीतस्य जिनबिम्बस्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262