Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 238
________________ २११ विभाग-४, लघुवृत्तिः सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, ॥२२॥ व्याख्या-'सर्वत्र' लोकसमक्षमसमक्षं च, आश्रवति-सञ्चिनोति जीवः कमैभिरित्याश्रवाः पञ्च प्राणातिपातादयः ततश्चास्थगिता-अनिरुद्धा आश्रवा यैस्ते तथा । स्वविषयषु आत्मग्राह्येषु रूप-रस-गन्ध-स्पर्शशब्देषु व्यासक्तानि' उपभोगप्रवणानि 'सर्वेन्द्रियाणि' सकलकरणानिचक्षु-रसन-घ्राण-त्वक्-श्रोत्राणि येषां ते तथा, यतिना हि निगृहीतेन्द्रियेण भवितव्यम्, अन्यथा प्रव्रज्याया जीवनमात्रतापत्तेः । तथा गौरवाणि आत्मन्युत्कर्षप्रत्ययहेतवोऽध्यवसायविशेषास्तानि च ऋद्धिरस-साताऽतिरेक-हेतुकत्वेन कारणे कार्योपचारात्-रिद्धिरससातसंज्ञान्येव त्रीणि, तैश्चण्डा:-तत्साहाय्येनोद्धरा दण्डा, दण्ड्यते-दुर्गतिपातेन दुःखं स्थाप्यते आत्मा अमीभिरिति दण्डाअकुशलमनोवाक्कायाः त एव देहिनामुत्पथप्रवर्तकत्वाच्चपलत्वाच्च 'तुरगा' अश्वाः ततश्च वल्गतोऽनियमिततया यदृच्छया प्रसरन्तो गौरवचण्डा दण्डतुरगा येषां ते तथा 'पुष्यन्तः' प्रबलीभवन्तः कषायोरगा येषां ते तथा । यतीनां हि श्रामण्यवैफल्योत्पादनात् कषायाः कर्तुं न युज्यन्ते । एवं तावत्पञ्चाश्रवविरमण-पञ्चेन्द्रियनिग्रह-दण्डत्रयविरतिकषायचतुष्टयजयलक्षणसप्तदशविधसंयमाभावेन तेषां लोकोत्तरबाह्यत्वं प्रदर्श्य इदानीं लोकलोकोत्तरबाह्यत्वमपि दर्शयतीत्याह सर्वाकृत्यकृतोऽपि' लोकलोकोत्तरविरुद्धाब्रह्मसेवनपुष्पफलाद्युपभोगाद्यसदाचारकारिणोऽपि नामजैना इति प्रकृतं 'कष्टं' महदुःखमेतत् 'अधुना' सम्प्रति 'स्थित्वा' आरुह्य 'सन्मुनिमूर्द्धसु' सुविहितमुनिमस्तकेषु, प्रतिपदमसूयया सुविहितानामसद्दोषारोपेण लाघवोत्पादनमेव हि तेषां तन्मूर्द्धस्ववस्थानम् । 'उद्धतधियो' नास्त्यस्मत्समो जगति सम्प्रति कश्चिदिति दर्पाध्मातबुद्धयः तुष्यन्ति सुविहितंमन्या अप्येते अस्माभिर्लघूकृता इत्याशयेन मोदन्ते 'पुष्यन्ति च' साध्वादिपरिवारेण श्राद्धादि पूजया च वर्द्धन्ते । 'चः' समुच्चये । अथ कथमेवंविधा अपि सन्मुनिमूर्भावस्थानेन ते तुष्यन्ति पुष्यन्ति चेत्यत आह-'अन्त्याश्चर्यराजाश्रिताः' पाश्चात्याश्चर्यपार्थिवानुगता, 'यत' इति हेतुगर्भ विशेषणम् । एतदुक्तं भवति-न ह्येवंविधाकृत्यविधायिनो महामुनीनां मस्तकेष्ववस्थानं कर्तुं पारयन्ति, कथञ्चित्कुर्वाणा अपि वा न तोषं पोषं च ते प्राप्नुवन्ति, महामुनितिरस्कारमात्रेणापि तत्कारिणामिहैव हानि श्रवणात्, परं यदेवमनर्थकारिणोऽपि लिङ्गिनः सुविहिताँस्तिरस्कृत्यापि नन्दन्ति तनूनं दशमाश्चर्यमहिमाऽयमिति वृत्तार्थः ॥२२॥ साम्प्रतं तेषां प्रत्यहं सर्वविरतिरूपप्रत्याख्यानभङ्गकरणेन तपश्चरणाद्यभावं प्रतिपादयन्नाह सर्वारम्भ-परिग्रहस्य गृहिणोऽप्येकाशनाद्येकदा ॥२३॥ व्याख्या-'सर्वारम्भ-परिग्रहस्य' सकलसावधव्यापारधनधान्यादिसङ्ग्रह-तत्परस्य • 'गृहिणोऽपि' श्राद्धस्यापि, आस्तां महामुनेरित्यपि शब्दार्थः । 'एकाशनं' अन्तर्दिवसमेकवारनियमितभोजनः प्रत्याख्यातभेदः तदादिर्यस्य निर्विकृतिकादेः तदादिप्रत्याख्यानम् Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262