Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 229
________________ २०२ श्री सङ्घपट्टकः पित्रादिरूपतया न जन्म लम्भितः । चकाराः सर्वेऽपि समुच्चयार्था अवधारणार्था वा । अथ माभूत् जातस्तथापि वद्धितो भविष्यति, एतावताऽपि बलात् तद्वाहनसिद्धिः अत आह-वद्धितो न चेति, एवमुत्तरपदेष्वप्याशक्य योजना कार्या, वद्धितो-योगक्षेमादिसम्पादनेन शरीरपोषं प्रापितः । न च क्रीतो मूल्यदानेनान्यस्माद् गृहीतः । अधमर्णो न च, उत्तमर्णसकाशात् उद्धारादिप्रयोगेणार्थगृहीताऽधमर्णः । अत्र च यैरिति कर्तृतया सम्बन्धानुपपत्तेर्येषामिति सम्बन्धविवक्षया यच्छब्दो योज्यः, अर्थवशाद्विभक्तिपरिणामः इति न्यायात् । तेन येषां लिङ्गिनामयं जनोऽधमोऽर्थधारयिता न भवति, एवमुत्तरत्रापि यथासम्भवं येषामिति सम्बन्धनीयम् । तथा यैः 'प्राक् 'पूर्वं दृष्टो-ऽवलोकितो न च, अयमर्थः-ये लिङ्गिभिः स्वश्राद्धा दूरदेशवर्तित्वात् कदाचिदपि न दृष्टास्तेऽपि स्वगच्छग्रहग्रस्तत्वादन्यं गुरुं वाचाऽपि न सम्भाषन्ते, तमेव गच्छगुरुं ध्यायन्तः कालमतिवाहयन्ति । 'बान्धवः' पितृव्यभ्रातृव्यादि-. . सम्बन्धभाग् न च येषां न च 'प्रेयान्' वल्लभतरो मैत्र्यादिसम्बन्धेन, न च 'प्रीणितो' दानज्ञानातिशयादिना तोषितः, तैरेव प्रागुक्तसम्बन्धाभावेन लोकवाहनयोग्यताविकलैलिङ्गिभिरेव । "एव इत्यव्ययमिह परिभवे ईषदर्थे वा" । ततश्च महापराभवोऽयं-यत् तादृशैरपि लिङ्गिभिर्लोको वाह्यत इति 'बलात्' हठेन, न तु प्रणयेन 'वाह्यते' वशीकृत्य स्वकार्याणि कार्यते 'अयं' गच्छमहाग्रहगृहीतः प्रत्यक्षोपलभ्यमानो 'जनः' श्राद्धलोको 'नस्योतो' नास्तिक इव 'पशुवत्' वृषभादि इव लिङ्गिभिस्तूक्तसम्बन्धं विनाऽपि यदेवं लोको वाह्यते तन्महापरिभव इति, ननूक्तसम्बन्धं विनाऽपि सद्गुरुत्वेन तेषां नस्तितपशुवल्लोकाः कार्याणि निर्मापयिष्यन्ति, न ह्यनुपकृत-परहितरतानां गुरूणां धर्मदानोपकारस्य प्रत्युपकारः कर्तुं शक्यते, अत आहअत्यधमाधमैरिति, लोकलोकोत्तरगर्हिततमसाध्वीप्रतिसेवादेवद्रव्यभक्षणसुविहितघातशासनोड्डाहप्रभृतिभूरिपापकर्मनिर्माणात् अतिशयेनाधमेभ्योऽपि-हीनजातीयेभ्योऽप्यधीनैः, अतः कथमेषां सद्गुरुतया लोको वाहनीयो भविष्यति, अथैवंविधैः एभिः कथं तर्हि वाहयितुं लोकः पार्यते ? अत आह-'कृतमुनिव्याजैः' प्रपञ्चचतुरतया विश्वासोत्पादनेन मुग्धजनस्य विप्रलिप्सया रचितशान्तरूपमासोपवासकरणादिछद्मभिः । अयमर्थः-एवमसमञ्जसकारिणोऽपि लिङ्गिनो विश्रम्भहेतुतथाविधयतिरूपप्रदर्शनेन सुकरपथप्ररूपणेन च सुखलुब्धान् मुग्धान् प्रलोभ्य यथेच्छं वाह्यन्तीति । अमुमेवार्थं समर्थयितुं प्रकारान्तरेण लोकवाहनप्रतीकारसम्भावनयन् सविषादं वैधये॒णार्थान्तरन्यासमाह-'नीराजकं' विगतमहाज्ञैश्वर्यन्यायरक्षितप्रजादुष्टशिक्षाशिष्टरक्षाविचक्षणभूपम् । किं राजसहितमपि नीराजकमिव नीराजकमुच्यते ? हा इति विषादे, जगद् भुवनं, न ह्यन्यथोदिता गुणभाजि-राजनि बलाल्लोकवाहनं कर्तुं लभ्यते । अयमाशयः-यथा सगुणं राजानं विना तद्देशः प्रतिभूप-मलिम्लुचादिभिः उपद्रूयते एवं सम्प्रति प्रौढसातिशयबहुजनापेक्षणीयगणधरादिपुरुषसिंहविरहाल्लिङ्गिभिरयं श्राद्धजनो वाह्यत इति वृत्तार्थः ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262