Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 219
________________ श्री सङ्घपट्टकः १९२ करणेन उपयोगः तथा 'ध्रुवा' शाश्वतीयावज्जीवम् अथवा 'ध्रुवं' निश्चितं 'मठो' जिनगृहजगतीसम्बद्धो यतिनिमित्तनिष्पन्नउपाश्रयस्तस्य 'पतिता' आधिपत्यं-जिनगृहलेख्यकोद्ग्राहिणिकाकर्मान्तरादिसकलचिन्ताकारित्वेनाधिकारित्वमिति यावत् । तथा भगवत्प्रतिमाप्रत्यासत्तौ भोजन-शयनासन-निष्ठीवनाद्यविधिकरणेन भगवत्याशातना अवज्ञा, ततश्च देवद्रव्योपभोगश्चेत्यादि द्वन्द्वः । ताभ्यः । अथ गृहिणा भगवन्निमित्तं स्वद्रविणेन निर्मापिते देवगृहे वसतो देवद्रव्यं कनकादिकमनुपभुञ्जमानस्य यतेः कथं देवद्रव्योपभोगः ?, जिनद्रव्यनिष्यन्ने हि तत्र निवसतस्तद्रव्यं साक्षाद्धानस्य गृण्हतो वा स स्यादिति चेन्न, गृहिणा स्वद्रव्यनिर्मापितत्वेऽपि तस्मिन् देवार्थं कृतत्वेन देवद्रव्यत्वात्, तथा च तत्र वसतः साक्षात्तद्धनमुपभुञ्जानस्यापि मुनेर्देवद्रव्योपभोगोपपत्तेः, साक्षाद्देवद्रव्यनिष्यन्ने तु का वार्ता ? इति यतिभिर्जिनगृहे न वासः कार्य इति वृत्तार्थः ॥७॥ इदानीं जिनाद्यासेवितत्वेन सिद्धान्तोक्तत्वेन च यतीनां परगृहवसतिं व्यवस्थापयन् वसत्यक्षमा द्वारं काव्यद्वयेन निरसिसिषुराह साक्षाज्जिनैर्गणधरैश्च निसेवितोक्तां ॥८॥ चित्रोत्सर्गापवादे यदिहं शिवपुरीदूतभूते निशीथे ॥९॥ व्याख्या-कः सकर्णः पुमान् “परगृहे' गृहस्थगृहे 'वसति' निवासं 'विद्वेष्टि' मात्सर्यात् न क्षमते-निषेधयति ? मुनिपुङ्गवानां-सुविहितयतीनां, न कश्चिदित्यर्थः, अयमर्थः-अकर्णो हि कर्णी विना सिद्धान्तोक्तामपि परगृहवसतिमनाकर्णयन् द्विष्यादपि यः पुनः सकर्णः सश्रवणः अथ च सहृदयः परगृहवासचैत्यान्तर्वासगुणदोषविचारचतुर इति, स परगृहवसतिं यतीनामनुमोदयत्येव, न तु द्वेष्टि । किंरूपां वसति ? 'निषेविता' च सोक्ता चेति कर्मधारयः । कथं ? 'साक्षात्' प्रत्यक्षं-स्वयमित्यर्थः कैः ? जिनैस्तीर्थकृद्भिर्गणधरै-ौतमस्वामिप्रभृतिभिः । चः समुच्चये । जिनादिभिरुक्ता, तां । तथा सज्यते सक्यते जनोऽस्मिन्निति सङ्गः-गृहधनकनकतनयवनितास्वजनपरिजनादिपरिग्रहः, निर्गताः सङ्गात् निस्सङ्गास्तेषां भावस्तत्ता, तस्या 'अग्रिमं' मुख्यं 'पदं स्थानं मुनीनां परगृहवसतिः, अथवा निस्सङ्गताया 'अग्रिमं' मौलं 'पदं' लक्ष्म-लिङ्गमित्यर्थः "पदं व्यवसितत्राण-स्थानलक्ष्मांहिवस्तुषु" इत्यनेकार्थवचनात् । निस्सङ्गता हि मुनित्वलक्षणं, वह्निरिव दाहपाकादिसामर्थ्यस्य, तस्याश्च लिङ्गं परगृहवसतिः, नहि स्वाधीने विभवे विद्वान् कश्चित्परमुपजीवेदिति । अत्र च पदशब्दस्यावि शिष्टलिङ्गत्वान्न विशेष्यलिङ्गता किं कुर्वन् विद्वेष्टि ? इत्यत आह-'जानन्' आगमश्रवणेनावबुद्ध्यमानः । कां ? शय्यातर इत्युक्ति-र्भाषा, ताम् । सिद्धान्ते हि शय्यातर इति भाषा श्रूयते, न चासौ साधूनां परगृहवासं विनोपपद्यते, तथाहि-'शय्याया' वसत्या यतिभ्यो दानं, तया तरति संसारसमुद्रमिति शय्यातरशब्दार्थः, परगृहवसतिं विना यतीनां न कश्चित्साधुशय्यादाने यतेत, न च तरणमस्तीति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262