Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
विभाग-४, लघुवृत्तिः
१९५ इयं यतना स्त्रीसंसक्तिवसतिमधिकृत्योक्ता । पशुपण्डकसंसक्तायामपि वसतौ वसत्याम् एतदनुसारेण सम्भविनी यतना दृष्टव्या, तदयमर्थः-स्त्रीसंसक्त्यादि सम्भवेऽप्येवंविध यतना सावधानानां मुनीनां तज्जन्या दोषाः प्रादुष्षन्ति सर्वत्रेति, सर्वस्मिन् अपि वसत्यधिकारप्रवृत्तोद्देशकादौ । नन्वेवं यतनावतां चैत्यवासेऽपि को दोषः ? इत्यत आह न तु, 'तु' पुनर्भेदेऽवधारणे वा, तेन न पुन व वा 'मत' इष्टः क्वापि उद्देशकादौ चैत्ये जिनगृहे निवासो निवास इत्युभयत्र योज्यते, एतदुक्तं भवति-यदि हि चैत्यवासो यतीनां क्वचिन्मतः स्यात् तदा स्त्रीसंसक्त्यादियुक्त इव गृहे वसतां, तत्रापि काञ्चित् यतनां ब्रूयात् न चैवं, ततोऽवसीयतेअगारिधाम्न्येव संयतां-यतीनां वासो, न चैत्य इति । तस्मात् न सकर्णेन तत् द्वेषो विधेय इति काव्यद्वयार्थः ॥९॥ . साम्प्रतमादित्रयगोचरस्वीकारद्वारत्रयमेकवृत्तेनाह
___प्रव्रज्याप्रतिपन्थिनं न तु धनस्वीकारमाहुर्जिनाः ॥१०॥ व्याख्या-नत्वित्यक्षमायां, न क्षम्यत एतत्, यदुत-साधूनां धनस्वीकार इति, यतो 'धनस्वीकारं' द्रव्यसङ्ग्रहम् 'आहुः' बुवन्ति जिनाः, अत्र जिनानाम् इदानीमतीतत्वेनोपदेशासम्भवात् 'आहुः' इत्यत्रातीतविभक्तिप्राप्तावपि यद्वर्त्तमानकथनं तत्तेषां स्वागमैः ग्रन्थसङ्ग्रहविपाकप्रतिपादकैः स्फुरद्रूपतयाऽद्य यावदनुवृत्तिभिरभेदाध्यवसायेन वर्तमानतयाऽवभासात् तदुपदेशदानप्रदर्शनेन शिष्याणां धनस्वीकारं प्रत्यतिजिहीर्षा यथा स्यादिति ज्ञापनार्थ, एवम् उत्तरपदेऽपि योज्यम् । कीदृशं ? 'प्रव्रज्यायाः' सर्वसङ्गत्यागरूपाया दीक्षायाः 'प्रतिपन्थिन' विरोधिनं, विरोधश्चात्र बध्यघातकलक्षणः तथाहि-द्रव्यसङ्ग्रहो मूर्छापरिणामः प्रव्रज्या च तद्विरतिपरिणामः तयोश्चात्र बलवता मू»परिणामेन तद्विरतिपरिणामो बाध्यत इति तथा 'सर्वारम्भिणां' सकलसावद्यारम्भप्रवृत्तानां गृहिणां परिग्रहो मूछ हेतुः मामकत्वबुद्धिः स तथा, तम् । तुशब्दोऽर्थस्वीकारात् अस्य भेदप्रदर्शनार्थः । अतिशयेन 'महासावा' महासपापम् 'आचक्षते' वदन्ति, जिना इति पूर्वस्माद् अनुकृष्यते । अत्र चाहुरिति क्रियाऽनुवृत्त्यैव सावद्यसिद्धावाचक्षत इति पुनरभिधानं द्वारान्तरनिराकरणमेतदिति ज्ञापनार्थम् । अयमर्थः-गृहिपरिग्रहे हि तत्कृतकारितादिसकलमहारम्भ-महापरिग्रह-जनितपापानुमत्यादिना यतीनामपि तत्कृतादिनिखिलपापप्रसङ्गोऽतः कथं तस्य नातिमहासावद्यता ?, परकृतमहापाप-स्यात्मन्यध्यारोपणमेव चातिशब्दार्थः । तदुक्तम्-"आरम्भनिर्भरगृहस्थपरिग्रहेण, तत्पातकं सकलमात्मनि सन्द-धानाः । सत्यात् पतन्त्य-ह ह !! तस्करमोषदोषं, माढव्यनिग्रहभयं सितभिक्षुपाशाः ॥१॥" इति । अत एव गृहिपरिग्रहो यतीनां प्रायश्चित्तापत्त्या श्रुते निवारितः, यदुक्तम् "ओसन्न-गिहिसु लहुगे" त्यादि । एतेन गृहिस्वीकारं प्रति यत्परस्य पूर्वं हि कालस्य सौस्थ्यादिना युक्त्यभिधानं तदपि निरस्तम् । कालदोषात् कुतीर्थिकादि-भूयस्त्वेऽपि गृहिस्वीकारमन्तरेणापि भद्रकादिश्राद्धेभ्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262