Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 223
________________ श्री सङ्घट्टकः यतीनामधुनाऽपि भिक्षादिप्राप्तेरुपपत्तेः, अतः केवल औदरिकत्वापत्त्याऽतीवोपहासपदं विदुषां तदर्थस्तत्स्वीकार इति । योऽपि "जा जस्स ठिई जा जस्स संतिइ पुव्वपुरिसकयमेरो सो तं अइकमंतो अनंतसंसारीड होइ । इत्यागमोपन्यासः सोऽपि न भवदभिमतप्रसाधकः, अन्यर्था - त्वात्, न हि गृहिपरिग्रहसाधकोऽयं प्रकृतागमः, किन्तु गणधरादीनां शिष्यप्रतिशिष्यपरिग्रहविषयः, तथाहि-या काचित् अस्य गणधरशिष्यप्रतिशिष्यादेः स्थितिः - प्रतिक्रमणवन्दनादौ न्यूनाधिकक्षमाश्रमणदानादिलक्षणा सामाचारी, या वा यस्य सन्ततिर्गुरुपारम्पर्येणालोचनादिदानविषयः सम्प्रदायः, या च पूर्वपुरुषकृता गणधरादिप्रवर्त्तिता 'मेरा' मर्यादागच्छव्यवस्था, तामतिक्रामन् अनन्तसंसारिको भवतीति, अत्र हि गणधरशिष्यादीनां स्वस्वगुरुप्रदर्शित-स्थित्याद्यतिक्रमेऽनन्तसंसारितापत्त्या प्रतिनियतगणधरपरिग्रहविषयत्वमवसीयते, श्रावकाणां तु सर्वधार्मिकगच्छेष्वविशेषेण भक्तपानादिभक्त्यभिधानात् । धर्मगुरुषु तद्गच्छे वा विशेषेण दानभक्तिप्रतिपादनं तत्तेषां दुष्प्रतीकारतया, न तु तत् स्वीकारविषयतयेति । एवं गृहिपरिग्रहः सर्वथा यतीणां नोचित इति ५ । तथा 'चैत्यस्य' जिनगृहस्य 'स्वीकरणं' स्वायत्ततापादानं, तत्र । तुरत्रापि प्रथमद्वारादस्य भेदमाह - 'गर्हिततमं ' प्रत्यहं सकलचैत्यकृत्यचिन्ता-. तद्दव्योपभोगादिना लोकेऽप्यतिनिन्दितं 'माठपत्यं' मठनायकत्वं 'स्यात्' भवेत् 'यतेः 'मुनेः । एतदुक्तं भवति-चैत्यस्वीकारे हि यतीनां तच्चिन्तनं सकलमनुष्ठेयं तस्य चारम्भदोषवत्तया द्रव्यस्तवत्वेन यतीनां निवारणात्, एवं च त्वमेव परिभावय मार्गानुसारितया बुद्ध्या यन्मुनेर्देवाधिकारं चिन्तयतः कथं माठपत्यमतिकुत्सितं न प्रसज्यत ? इति । लौकिका अप्याहुः-तथा“यदीच्छेन्नरकं गन्तुं, सपुत्रपशुबान्धवः । देवेष्वधिकृतिं कुर्यात् - गोषु च ब्राह्मणेषु च ॥१॥ “नरकाय मतिस्ते चेत्, पौरोहित्यं समाचर । वर्षं यावत्किमन्येन, माठपत्यं दिनत्रयम् ॥ १॥३॥ इदानीं निगमयति-यस्मात् अर्थे यस्मात् एवमित्युक्तक्रमेण 'व्रतवैरिणी' चारित्र - प्रतिपन्थिनी, इति हेत्वर्थे भिन्नकमः स चाग्रे योक्ष्यते, ममता - अर्थादिषु स्वीकारबुद्धिः, इति यस्माद्वेतोर्न युक्तानोपपन्ना - 'मुक्त्यर्थिनां' निर्वाणाभिलाषिणां मुनिनामिति वृत्तार्थः ॥१- १०॥६॥ साम्प्रतम् असंयमादिदोषप्रदर्शनेनाप्रेक्षिताद्यासनद्वारं निराकर्त्तुमाह १९६ भवति नियतमत्रासंयमः स्याद्विभूषा ॥ ११ ॥ व्याख्या-' भवति' जायते 'नियतं' सर्वदा 'अत्र' गब्दिकाद्यासनेऽसंयमो जीवरक्षाऽभावः, गब्दिकादेर्नित्यस्यूतत्वादिना प्रत्युपेक्षणादि अभावे विवरादिना तदन्तः प्रविष्टानां तदन्तरे चोत्पन्नानां वा त्रसादीनां तत्रोपवेशनेन विनाशसम्भवात् । भिक्षोरिति वृत्तमध्यस्थं पदं सर्वत्र सम्बध्यते । 'स्यात्' भवेत् 'विभूषा' शोभा, तत्रोपविष्टस्य जगतोऽप्युपरिवर्त्यहमिति विभूषाकार्यभिमानप्रवृत्तेः, विभूषा च यतीनामवश्यं वर्जनीया, यदुक्तं - " विभूसावत्तियं भिक्खू, कम्मं बंधइ च्चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे || १||" इति । 'नृपतेः ' राज्ञः 'ककुदं' For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262