Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 226
________________ विभाग-४, लघुवृत्तिः १९९ 'स्वार्थाय' स्वप्रयोजनायस्वशरीरशुश्रूषादिहेतवे, न तु संसारदुःखेभ्यो मोचयितुं, तमेवंविधं 'यदर्चयन्ति' मलयज-घुसृणघनसारादिना वस्त्रादिना च सततं पूजयन्ति । 'अधिक' मिति क्रियाविशेषणम्-अतिरिक्तं 'देवेभ्यो' जिनेभ्योऽपि 'जनाः' श्रावकलोकाः । ननु ते तं पूजयन्तः तादृग्गुणा एव भविष्यन्तीत्यत आह-'विख्यातगुणान्वया अपि' जगति प्रतीतगाम्भीयौदार्यक्षमादिगुणमहाकुला अपि, आस्तां तदितर इत्यपि शब्दार्थः । कस्मादेवमित्यत आह-लग्नोग्रगच्छग्रहा इति हेतुगर्भ विशेषणम् । लग्नः-चेतसि निविष्ट 'उग्रो' दृढो 'गच्छग्रहो' गच्छप्रतिबन्धो येषां ते तथा । भवतु निर्गुणो वा गुणी वाऽयं, किं नोऽनया चिन्तया ? गुरुभिरयमस्माकं प्रदर्शितः, तथा अस्मद्वंश्यैरपि अयं गुरुत्वेनाभ्युपगतः, न च वयं तेभ्योऽपि परीक्षादक्षा, अतः तत्परिपाटीमनुरुध्यमाना नैनं हास्याम इति विहितस्वगच्छगोचरमनोऽभिनिवेशा इत्यर्थः । अथ विदुराणामपि तेषां तादृक्षे निर्बन्धे को हेतुरित्यत आह-'महतो' अतिप्रबलस्य 'मोहस्य' मिथ्याऽभिनिवेशस्यापि तथाविधाभ्यर्चनादिकं 'जृम्भितं' लीलायितं, तथाहि-न गुरूपदर्शितत्वं निर्गुणेऽपि तच्छिष्ये अभ्यर्चनादिनिबन्धनं, यदि हि गुरुः स्वाजन्यादिना निमित्तेन निर्गुणमपि स्वशिष्यं मोहाद् गुरुतया दर्शयति नैतावताऽसौ बहुमानमर्हति, विवकिनां गुणानामेव बहुमानहेतुत्वात्, ते चेत् तत्र न सन्ति तदा किं निष्फलेन गुरूपदर्शितत्वेन ?, तथा स्ववंशजाभ्युपगमस्यापि निर्गुणगुरुबहुमानहेतुत्वे लक्ष्मीप्राप्तावपि नृणां स्वकुलक्रमागतदारिद्र्यादेरपरित्यागप्रसङ्गात् न चैवं लोक उपलभ्यते, यदुक्तम्"सुगुरुप्राप्तौ कुगुरुं, क्रमानुषक्तमपि जहति धीमन्तः । चिरपरिचितमपि नोज्झति, निधिलाभे को नु दौर्गत्यम् ॥१॥" ततश्चैवं स्थिते यन्निर्गुणेऽपि गुरुत्वाभ्युपगमेनाभ्यर्चनाभिसन्धिः समहामोहमहिमा एव इति वृत्तार्थः ॥१३॥ - एतर्हि गच्छमुद्रामुद्रिततया लोकानां सद्धर्माप्रतिपत्त्यादिना श्रुतावज्ञामीक्षमाणाः सविषादमाह दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणाम् ॥१४॥ व्याख्या-'दुष्प्रापा' दुर्लभा 'सद्धर्मबुद्धि' भगवत्प्रणीतनिरुपचरितधर्मजिघृक्षा । पारमेश्वरस्य धर्मस्य सर्वस्यापि शोभनत्वाविशेषात् किं सदिति विशेषणेनेति चेत् ? न, तस्यापीदानीं कालदोषात् अनुश्रोतः-प्रतिश्रोतोरूपत्वेन द्वैविध्यदर्शनात्, तथाहि-सुखशीलजनैः सिद्धान्तनिरपेक्षस्वच्छन्दमतिप्रवर्तितो बहुजनप्रवृत्तिगोचरः पन्था अनुश्रोतः, श्रुतोक्तसकलयुक्त्युपपन्नः स्वयं भगवत्प्रज्ञापितः प्रेक्षावत्प्रवृत्तिविषयस्तु प्रतिश्रोतः, अतोऽनुश्रोतोऽव्यवच्छेदेन प्रतिश्रोतः सङ्ग्रहीतुं सदिति विशेषणम् । केषां दुष्प्रापा ? 'नृणां' पुंसां 'गुरुकर्मसञ्चयवतां' महाज्ञानावरणादिसम्भारभाजां, सम्प्रति हि गुरुकर्मत्वाज्जीवानां न प्रायेण प्रतिश्रोतसि प्रवृत्तिरुपलभ्यते, यदुक्तम्-"अयोग्यभावाद् गुरुकर्मयोगाल्लोकप्रवाहस्पृहया Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262