Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 224
________________ विभाग-४, लघुवृत्तिः चिह्न, राजादीनामेव प्रायेण महर्द्धिकानां तत्रोपवेशनदर्शनात् । 'लोकहासो' जनतोत्प्रासनं, चशब्दो दोषसमुच्चये । 'भिक्षोः यतेः' अहो !! भिक्षोपजीविनो मुण्डिता अपि एवं - विधासनेषूपविशन्तीत्यादि सेर्ष्यजनवचनश्रवणात् 'स्फुटतरो' लोकप्रकटः । इह गब्दिकादी 'सङ्गः' परिग्रहो महाधनत्वेन मूर्च्छाहेतुत्वात् 'सातशीलत्वं' सुखलालसत्वं, तदन्तरेण हंसरूतादिपूर्णेषु सुस्पर्शेषु तथाविधासनेषु यतिअनुचिततया सिद्धान्तनिषिद्धेषूपवेशोऽसम्भवी, उच्चै - रतिशयेन, इति हेतौ । एभ्यो हेतुभ्यो 'न खलु' नैव, खलुरवधारणे मुमुक्षो-मक्षार्थिनो यतेः 'सङ्गतं' युक्तियुक्तं गब्दिकाद्यासनम्, उपभोगतयेति शेषः । लोकप्रसिद्धो रूतादिभृतआसनविशेषो गब्दिका । आदिशब्दात्-मसूरसिंहासनादिपरिग्रहः । एतेन यदपि " नाणाहिओ वरतरं" इत्याद्यागमबलेन प्रवचनप्रभावनाङ्गतया यतीनां गब्दिकासिंहासनादि -आसनोपवेशनसमर्थनं तदपि सुखशीलताविलसितम् । तदेवं यतीनां गब्दिकाद्यासनमनुपादेयम्, असंयमहेतुत्वात्, आधाकर्मिकभोजनवदिति वृत्तार्थः ॥११- ७॥ साम्प्रतं नामोच्चारसावद्याचरिताभिधानपुरस्सरतद्दोषप्रदर्शनेन सावद्याचरितद्वारं निरस्यन्नाह गृही नियतगच्छभाग् जिनगृहेऽधिकारो यतेः ॥१२॥ (पृथ्वी) व्याख्या- 'गतस्य' पूर्वं प्रस्थितस्य कस्यचित् 'अनु' पश्चाद् 'गतं' गमनमन्यस्य यत्तद् गतानुगतं, तदेषामस्तीति गतानुगतिकाः । अस्त्यर्थे इक प्रत्ययस्तद्धितः । अयमर्थः- यथा गडरिकाः काञ्चन दिशं प्रतीत्य काञ्चिदेकामविवेकां पुरो गच्छन्तीमवलोक्य तदनुमार्गेण पाश्चात्याः सर्वा अपि तामनुगच्छन्ति, न मार्गस्य सुगम-दुर्गमत्वादिकं मृगयन्ते, तथा जिनप्रवचने सुखलोलतया कञ्चिदेकं प्रवाहमार्गे गच्छन्तं वीक्ष्य तच्छीलतयाऽन्येऽपि तद् न्यायान्यायतामविचारयन्तो ये तमनुगच्छन्ति ते संसारपथाभिनन्दितत्वात् तथोच्यन्ते, तैर्गतानुगतिकैर्लोकप्रवाहपतितैर्यत्याभासैः 'अद' एतत्सकलजनप्रत्यक्षं गृहीनियतगच्छभजनादिकं सावद्याचारितम्, अस्य सावद्याचरितस्य अनेकविधस्यापि समुदायरूपतयैकत्वविवक्षणात् । कथमिति क्षेप' गर्भप्रकारवचनो निपातः " केन कुत्सितप्रकारेण 'असंस्तुतं' यतीनाम् अकृत्यतया अपरिचितम् अपि अनुचितमिति यावत् । प्रस्तुतं प्रारब्धमादृतमित्यर्थः । तदेव नामग्राहमाह-गृही श्रावको 'नियतं' गच्छान्तरपरिहारेण एकतरं गच्छम्' आचार्यम् । प्रतिबद्धयतिसमुदायं 'भजते ' परिगृह्णाति स तथा गृहिणां नियतगच्छभाक्त्वे हि यतीनामिदानीं सर्वं भक्तपानादि निराबाधं निर्वहतीति धिया तादृशगुरूपदेशेन गृही निश्चितनिजगच्छभाग् भवतीति क्रियापदं यथासम्भवमध्याहार्यं गृहीनियतगच्छभाक्त्वञ्च यतीनां तद्गतसकलारम्भानुमत्यादिना पापसत्त्वप्रसङ्गेनासंस्तुतम् । तथा 'जिनगृहे' देवसदने' ऽधिकारः' सकल Jain Education International १९७ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262