Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 220
________________ विभाग- ४, लघुवृत्तिः १९३ शय्यातरशब्दस्य स्वार्थालाभे निर्विषयत्वापत्त्या सिद्धान्ते प्रतिस्थानमुच्चारणं कथमिव शोभां बिभृयात् ?, तस्मादागमे शय्यातरशब्दश्रुतेरपि परगृहवसतिर्मुनीनां ज्ञायते । तथा अनगारपदं च, जानन्निति सम्बध्यते । चः समुच्चये । न विद्यते ' अगारं' गृहं यस्यासौ अनगारः, ततश्च अनगार इति पदव्यपदेशः, श्रुते ह्यनगारपदं यतिवाचकं प्रतिपदं श्रूयते तच्च तेषां स्वागाराभावेन परागारवासेन च सङ्गच्छते । अन्यथा स्वागारसद्भावे चैत्यवासे वा यथाक्रमं यतेर्गृहिपतिमठपतिव्यपदेशप्रसङ्गेनानगारपदवैयर्थ्यमापद्येतेति । ननु यदि हि सर्वागमे चैत्यवासोऽनभिमतः स्यात्तदा परगृहवसतिः क्षम्येतापि, यदा तु तत्र क्वचिच्चैत्यवासे कथितेऽपि हठेनैव भवद्भिः परगृहवसतिरास्थीयते, तदा कथं क्षम्यते ? इत्याह- चित्रोत्सर्गेत्यादि, यद्यस्मात् इह प्रवचने 'निशीथे' प्रकल्पाध्ययने पञ्चमोद्देशकादौ किम्भूते ? सामान्यविधिरुत्सर्गः विशेषविधिरपवादः । उत्सर्गश्चापवादश्चेति द्वन्द्वः । ततश्च 'चित्रौ' नानाविधौ वसत्यादिगोचरावुत्सर्गापवादौसामान्यविशेषविधी यत्र स तथा, तत्र तथा 'शिवपूर्या' मोक्षनगर्या 'दूतभूतः ' सन्देशहरसदृशस्तत्र, भूतशब्दस्यात्र सदृशवाचित्वात्, 'प्राक् प्रथमं 'उक्त्वा' प्रतिपाद्य 'भूरिभेदा: ' प्रभूतप्रकारा 'गृहिगृहवसती:' गृहस्थसदनरूपोपाश्रयान् पश्चात् चरमं कारणे तथाविधवंसत्यलाभलक्षणे हेतौ 'अपोद्य' अपवादविषयीकृत्य, ता एंवेति गम्यते । अयमर्था:निशीथे पूर्वमौत्सर्गिका वसतिभेदा यतिवासयोग्यत्वेन कथिताः । यथा- "मूलुत्तरगुणविसुद्धं, थी - पसु -पंडक - विवज्जियं वसहि । सेविज्ज सव्वकालं, विवज्जए हुंति दोसाओ ॥१॥ विच्छिन्ना खुड्डलिया, पमाणजुत्ता उ तिविह वसहीओ । पढमबीयासु ठाणे, तस्य य दोसा इमे हुंति ॥२॥" तथा साध्वीरुद्दिश्योदितम् "गुत्तागुत्तद्दारा, कुलपत्ते सत्ति- मंत-गंभीरे । भीयपरिस्समद्दविए, अज्जा सिज्जायरे भणिए ॥१॥ “घणकुड्डासकवाडा, सागारियभगिणिमाइ पेरंता । निप्पच्चवायजोगा, विच्छिन्नपुरोहडा (पश्चाद्वारकाः) वसही ॥२॥" तदलाभे पश्चात्ता एवापवादोदिताः । यथा- द्रव्यप्रतिबद्धायामपि वसतौ कारणे न वस्तव्यं, तथा चाह Jain Education International "अद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण असईए । गीयत्था जयणाए, वसंति तो दव्वपडिबद्धे ॥१॥" "रूवं आभरणविही, वत्थालंकारभोयणे गंधे । आउज्ज-नट्ट - नाडय, गीए सयणे य दव्वम्मि ||२||" For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262