Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 216
________________ १८९ विभाग-४, लघुवृत्तिः स्याभिधानात् ६ । तथा न विद्यते 'प्रेक्षितं' चक्षुषानिरीक्षणम्, आदिशब्दात्प्रमार्जनं रजोहरणादिना यत्र तदासनं विष्टरं स्यूतगब्दिकादौ शुषिरगम्भीरसिंहासनादौ च प्रत्युपेक्षणादि यतीनां न शुद्ध्यति, तेन च तत्र न कल्पते उपवेष्टुम् । चैत्यावासिनञ्चैवं प्रतिपद्यन्तेप्रवचनप्रभावनाहेतोस्तादृशासनोपवेशनस्यापि साधियस्त्वात्, प्रवचनप्रभावनायाः प्रधानदर्शनाङ्गत्वेन यथाकथञ्चन विधेयत्वात् । ततः सिद्धमिदम्-आचार्याणां गब्दिकाद्यासनमुपादेयं, प्रवचनप्रभावनाङ्गत्वात्, सम्मत्यादिप्रमाणशास्त्राध्ययनवत् ७ । तथा 'सावद्यं' सपापम् 'आचरितम्' आचरणा, तत्र 'आदरः' आग्रहः । आचरणा हि निरवद्यैव प्रमाणम्, एषा तु सावद्या, [ हिं]हा ?) दिग्बन्धाद्याचरणाद्यभ्युपगमे यतेस्तद्विधीयमाननिखिलपापारम्भानुमत्याद्यापत्तेः, तथा ह्येषा चैत्यवासिभिराहता, यतस्तेषामयमाशयः-प्रायेण सम्प्रतितनयतीनां गृहस्थान्योऽन्याकृष्ट्यं कलहेनाव्यवस्थया सर्वमसमञ्जसमापद्यते, तस्मादेषाऽप्याचरणाऽद्यतनकालापेक्षया युक्तिमतीति ८ । तथा 'श्रुतस्य' सिद्धान्तस्य 'पन्था' मार्गस्तत्रावज्ञाअनादरः । ते ह्येवमाहुः-भगवत्सिद्धान्तो हि नैकान्तनिष्ठो , विहितानामपि केषाञ्चिदनुष्ठानानां क्वचिन्निषेधात् निषिद्धानामपि क्वचिद्विधानात्, अतो न आस्थां कृत्वा केवलया सिद्धान्तव्यवस्थया किमपि कर्तुं परिहर्तुं वां पार्यते, तेनागमबहिष्ठाऽपि काचित्- . सुकुमारक्रिया अद्यतनसाधुप्रवर्तिता विवेकिनां निःश्रेयसाय भविष्यति, किं श्रुतेनेति ९ । तथा 'गुणिषु' ज्ञानादिवत्सु यतिषु 'द्वेषधीः' मात्सर्यबुद्धिः, स्वयं निर्गुणानां तद्गुणानसहिष्णूनां तदुपजिघांसया दुष्टा मतिरिति एतें च परगृहवासिनो धार्मिकं मन्या आत्मानमेवैकं गुणैरुत्कर्षयन्तो निखिलानप्यपरान् दूषयन्त ऐदंयुगीनं सङ्घमप्यवमन्यमानास्तत्प्रवृत्ति दूरेण परिहरन्तो लोकव्यवहारमप्यजानानाः सङ्घबाह्या एव, अतस्सर्वथैवैते उच्छेत्तव्याः, द्वेष एवैषु श्रेयान् १० । . "गौतमादिषु वर्तित्वात्तादृशेषु यतिध्वनिः । कथमेतेषु वर्तेत ?, निर्गुणेष्वञ्जसेति चेत् ? ॥१॥" - "कल्पक्षोणिरुहां यद्वद्, गुणायोगेऽपि वर्त्तते । निम्बादिषु तरुध्वानो, विना विप्रतिपत्तितः ॥२॥" "यथा च जात्यरत्नानां, गुणाभावेऽपि तादृशाम् । काचे सान्द्रांशु चाकचिक्ये, मणिशब्दः प्रयुज्यते ॥३॥" .. "गौतमादिगुणायोगे-ऽपीदानीन्तनसाधुषु । उद्यच्छत्सु स्वशक्त्यैवं, प्रवर्त्यति यतिध्वनिः ॥४॥" इति वास्तवक्षान्त्यादिदशविधयतिधर्मस्पर्द्धयैव यथाछन्दैः प्रदर्शितो धर्मोऽयं चेत्कर्महरो भवेदित्यादि पूर्वव्याख्यातमिति वृत्तार्थः ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262