Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal
________________
१८६
श्री सङ्घपट्टकः नीतिभदितिसदाचारपारयणः, तद्वतो हि सर्वेऽपि साहाय्यं भजन्ते [ संदत्ते ]९ । तथा स्थैर्थीति, स्थैर्यकार्यारम्भेऽनौत्सुक्यं, तद्वान्, उत्सुका हि राभस्येन कार्यमारभमाणाः शास्तारमप्युद्वेजयन्ति १० । तथा धैर्याति, धैर्वी आपत्स्वपि मनसोऽक्षोभ्यत्वं, तद्वान्, अधीरोऽपि विनाकुलितचेता गुरुमपि हीलयति ११ । तथा सद्धर्मार्थीति, स [त् ]न् (?)-शोभनो धर्मो लोकप्रवाहरहित आज्ञानुगतः शुद्धो मार्गः, तस्यार्थी-गवेषकः १२ । तथा विवेकवानिति, पारिणामिक्या बुद्ध्या युक्तायुक्तविमर्शो विवेकः, तद्वान् १३ । तथा सुधीरिति, सुधी:-प्राज्ञः, अज्ञे हि वक्ताऽपि गुरुर्न किञ्चित्संस्कारमाधातुमिष्टे १४ । तदेवं पूर्वोदितसकलगुणग्रामसम्पन्नः त्वं भोः श्रोतः !, ततो मयोपदेशसर्वस्वं श्राव्यसे इति वृत्तार्थः ॥२॥ इदानीं योग्यश्रोतारं प्रति यद्वक्तव्यं तत्प्रस्तावनामारचयितुं वृत्तद्वयमाह
इह किल कलिकालव्यालवक्त्रान्तराल ॥३॥
प्रोत्सर्पद्भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्यन् ॥४॥ व्याख्या-एवंविधे प्राणिवर्गे सति साधुवेषैः सोऽयं 'पन्थाः' मार्गः अप्राथीति सम्बन्धः । 'अतानि' विस्तारितः, कोऽसौ ? 'पन्थाः'स्वेच्छाकल्पितं मतं 'स' इति सकलजनप्रसिद्धः 'अय'मिति इदानी प्रत्यक्षोपलक्ष्यमाणः । कथमप्राथि ? 'अभितः' समन्ताद् भूरिदेशेष्वित्यर्थः । कैः ? साधुवेषैः, साधोः सुविहितस्येव वेषो रजोहरणादिनेपथ्यं, न त्वाचारो येषां ते तथेति, सन्मुनिलिङ्गमात्रधारिभिः । कुत एतदित्याह-विषयिभिः, विषयन्ति-संसारगुप्तौ बध्नन्ति आसेविनं प्राणिनमिति विषयाः-शब्दादयः तद्वद्भिः, विषयासङ्गो हि यतीनां दीक्षया विरुद्ध्यते । किंरूपः पन्थाः ? [जिनोक्तिप्रत्यर्थी ]? जिनानामुक्तिर्वचनमागमः तस्य 'प्रत्यर्थी' विरोधी । कस्मादेवंविधः पन्थाः प्रथितस्तैः सक्लिष्टेत्यादि, सक्लिष्टः-सातत्येन धार्मिकजनोपतापकर्ता रौद्राध्यवसायवान्, द्विष्टो-मत्सरी-गुणवद्गुणध्वंसनप्रगुणबुद्धिः मूढो हेयोपादेयविमर्शशून्यः, प्रखलः-प्रकर्षेण पिशुनः गुणवद् गुणासढूषणारोपणचतुरः, जडो-दुर्मेधा यो जन-स्तेषामेव चतुर्विधः स सङ्घस्तस्याम्नायः-शिष्यप्रशिष्यादिसन्तानः तत्र रक्ताः-प्रीतिमन्तः, यद्वा सङ्क्लिष्टादिविशेषणोपेतो जनो नाम सुविहितसङ्घस्तस्याम्नायोगुरुपारम्पर्यागतश्रुतविरुद्धाचारणा तत्र रक्ताः-पक्षपातिनस्तैः, ते हि स्वसदृशजनाचरितं प्रामाण्येन प्रतिपद्यन्ते, अत एव एवंविधा जिनोक्तप्रत्यर्थिनमेव मार्ग प्रथयन्ति । अथ दीप्यमाने सूर्ये इव पारमेश्वरे पथि कुत एवं प्रथनस्य तमस इवावकाशस्तत्राह-'जगति' लोके 'विरलतां' स्तोकतां-अल्पजनाभ्युपगमनीयतां 'याति' प्राप्नुवति सति । कस्मिन् ? जैनेन्द्रमार्गेभगवत्प्रणीते शुद्ध प्रतिश्रोतसि पथि । कस्मादेतत् ? इत्यत आह-प्रोत्सर्पदित्यादि, प्रोत्सर्पत्श्रीवीरमुक्तिसमये तज्जन्मराशिसङ्क्रान्त्या तत्पक्षसङ्घस्य बाधाविधायित्वात् प्रोज्जृम्भमाणो भस्मराशिनामा-मङ्गलादिवत् क्रूरग्रहस्तस्य 'सखा' मित्रं, राजादित्वात् । ततश्च प्रोत्सर्पद्भस्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262