Book Title: Sanghpattak
Author(s): Sanyamkirtivijay
Publisher: Samyag Gyan Pracharak Mandal

Previous | Next

Page 211
________________ विभाग-४, लघुवृत्तिः श्रीजिनवल्लभसूरिविरचितः श्रीहर्षराजोपाध्यायविहितलघुवृत्तियुतः श्रीसङ्घपट्टकः वन्दे शान्तिजिनं शान्तिकरं कर्मोत्करोज्झितम् । महोदयेन्दिरोदारं, विघ्नसङ्घातघातकम् ॥१॥ भित्त्वा दुष्कर्मदुर्गं शमदमबलतः साधिकाद्वादशाब्दैलेंभे तीर्थङ्करश्रीः सदतिशयवती लीलया येन नृभ्यः । भक्तेभ्यश्च प्रदत्ता स सुरमणिरहो !! इष्टदस्त्वं हि सार्वस्तेनालं मां कुरुष्व स्वविमलकमलालङ्कृतं वर्द्धमानः ॥२॥ जिनवल्लभसूरीन्द्रैः, कृतः श्रीसङ्घपट्टकः, । तद् व्याख्यामल्पधीः कुर्वे, बृहट्टीकाऽनुसारतः ॥३॥ व्याख्या-अथ 'सङ्घप क]' इति कः शब्दार्थः ?, उच्यते-'सङ्घस्य'ज्ञानादिगुणसमुदायरूपस्य-साध्वादेश्चतुर्विधस्य ‘पट्टको' व्यवस्थापत्रं, यथा राजादयः स्वनियोगिभ्यो व्यवस्थापत्रं प्रयच्छन्ति 'अनया व्यवस्थया युष्माभिर्व्यवहर्त्तव्य'-मिति, एवमिहापि साक्षाद्विपक्षदोषदर्शनद्वारेण स्वपक्षसुसङ्घस्य व्यवस्था वक्ष्यमाणा दर्श्यत इति सङ्घपट्टकः । तत्रादिवृत्तम् ___वह्निज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोकः ॥१॥ व्याख्या-'स्तुमः' प्रणुमः, अस्मत् अप्रयुज्यमानेऽप्युत्तमपुरुषप्रयोगकथनाद्वयमिति कर्तृपदं स्वयमिह ज्ञेयं, कं ? देवं, दीव्यते-स्तूयते शक्रादिभिरिति देवः स चात्र प्रकरणात्अविशिष्टदेवतात्वेन स्तवार्हत्वाज्जिनः, सोऽपीह कमठतपोदुष्टतास्पष्टनलक्षणासाधारणविशेष[ ण ]योगात्पार्श्वनाथः । तं देवं स्तुमः, यो 'जगादेव' प्रतिपादयामासेव । इव शब्दो[ ऽन्त्र उत्प्रेक्षाद्योतकः । किं ? इति तदेवाहविधुरमित्यादि । 'प्राज्ञैः' प्रेक्षावद्भिः 'कार्य' विधेयं 'कुपथस्खलनं' सर्वसामर्थ्येन पूर्वापराऽविसंवादिशास्त्रविरुद्धमतनिराकरणं । किं कृत्वा ? 'प्रपद्य' अङ्गीकृत्य, किं ? 'विधुरमपि-व्यसनमपि । अपिः सम्भावने, एतत्सम्भावयति सति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262